श्रीगणेशभुजंगस्तोत्रम्
अजं निर्विकल्पं निराकारमेकं
निरातंकमद्वैतमानन्दपूर्णम्
।
।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥
१ ॥
१ ॥
गुणातीतमाद्यं चिदानंदरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम्
।
।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥
२ ॥
२ ॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम्
।
।
जगद्व्यापिनं विश्ववन्द्यं
सुरेशं
सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥
३ ॥
३ ॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदाकार्यसक्तं हृदाऽचिंत्यरूपम्
।
।
जगत्कारणं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं भजेम ॥
४ ॥
४ ॥
सदा सत्वयोगं मुदा क्रीडमानं
सुरारीन् हरन्तं जगत्पालयन्तम्
।
।
अनेकावतारं निजाज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः
॥ ५ ॥
॥ ५ ॥
तपोयोगिनां रुद्ररूपं त्रिणेत्रं
जगद्धारकं तारकं ज्ञानहेतुम्
।
।
अनेकागमैः स्वं जनं बोधयन्तं
सदा शर्वरूपं गणेशं नमामः ॥
६ ॥
६ ॥
तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम्
।
।
मुनिज्ञानकारं विदूरे विकारं
सदा ब्रह्मरूपं गणेशं नमामः
॥ ७ ॥
॥ ७ ॥
निजैरोषधीस्तर्पयन्तं करौघैः
सुरौघान् कलाभिः सुधास्राविणीभिः
।
।
दिनेशांशु संतापहारं द्विजेशं
शशांकस्वरूपं गणेशं नमामः ॥
८ ॥
८ ॥
प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम्
।
।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः
॥ ९ ॥
॥ ९ ॥
प्रधानस्वरूपं महत्तत्वरूपं
धरावारिरूपं दिगीशादिरूपम्
।
।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नमामः
॥ १० ॥
॥ १० ॥
त्वदीये मनः स्थापयेदंघ्रिपद्मे
जनो विघ्नसंघान्न पीडां लभेत
।
।
लसत्सूर्यबिंबे विशाले स्थितोऽयं
जनो ध्वांतबाधां कथं वा लभेत
॥ ११ ॥
॥ ११ ॥
वयं भ्रामिताः सर्वथा ज्ञानयोगात्
अलब्ध्वा तवाङ्घ्रिं बहून्
वर्षपूगान् ।
वर्षपूगान् ।
इदानीमवाप्तं तवैव प्रसादात्
प्रपन्नानिमान् पाहि विश्वंभराद्य
॥ १२ ॥
॥ १२ ॥
इदं यः पठेत् प्रातरुत्थाय
धीमान्
धीमान्
त्रिसंध्यं सदा भक्तियुक्तो
विशुद्धः ।
विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान्
लभेत
लभेत
परब्रह्मरूपो भवेदन्तकाले ॥
१३ ॥
१३ ॥
***