VEDIC PRAYERS

                                                            प्रार्थना        
ऊँ गणानां त्वा गणपतिँ हवामहे । कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिस्सीद सादनम्॥
ऊँ हंस हंसाय विद्महे परमहंसाय धीमहि। तन्नॊ हंसः प्रचोदयात् ॥
ऊँ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये ऽम्बिकापतये उमापतये पशुपतये नमो नमः ॥
ऋतँ सत्यं परं ब्रह्म पुरषं कृष्णपिङ्गलं ।ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः॥
ईशानस्सर्व विद्यानां  ईश्वरस्सर्वभूतानां ब्रह्माऽधिपतिर्ब्रह्मणॊऽधिपतिर्ब्रह्मा शिवोऽमे अस्तु सदाशिवॊं ॥
ऊँ भूर्भुवस्सुवः । ऊँ नमश्शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
ऊँ निधनपतये नमः। निध्नपतान्तिकाय नमः।  ऊर्ध्वाय नमः। ऊर्ध्वलिङ्गाय नमः । हिरण्याय नमः। हिरण्यलिङ्गाय नमः। सुवर्णाय नमः। सुवर्णलिङ्गाय नमः। दिव्याय नमः। दिव्यलिङ्गाय नमः। भवाय नमः। भवलिङ्गाय नमः। शर्वाय नमः। शर्वलिङ्गाय नमः। शिवाय नमः। शिवलिङ्गाय नमः। ज्वलाय नमः। ज्वललिङ्गाय नमः। आत्माय नमः। आत्मलिङ्गाय नमः। परमाय नमः। परमलिङ्गाय नमः।एतत्सोमस्य सूर्यस्य सर्व लिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम् ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवे नातिभवे भवस्वमाम् । भवोद्भवाय नमः ॥
वामदेवय नमो ज्येष्ठाय नमश्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ 
अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यस्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु। पुरुषो वै रुद्रस्सन्महो नमो नमः।
विश्वंभूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु॥
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वो चेम शन्तमँ हृदे। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टि वर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे। तान् यज्ञस्य मायया
सर्वानवयजामहे ॥
मृत्यवे स्वाहा मृत्यवे स्वाहा ।ऊँ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि॥
ऊँ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
ऊँ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय
त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥
ऊँ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥ सदाशिवोम् ॥
ऊँ असतो मा सद्गमय
  तमसो मा ज्योतिर्गमय
  मृत्योर्माऽमृतं गमय ॥

            ऊँ शान्तिः शान्तिः शान्तिः


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.