SRI VENKATESA PRAPATTI

                             श्रीवेङ्कटेशप्रपत्तिः
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णो: परां प्रेयसीं
तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणॊज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥१॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक!
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥२॥
आनूपुरार्पितसुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥३॥
सद्योविकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम्।
सम्यक्षु साहसपदेषुविलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥४॥
रेखामयध्वजसुधाकलशातपत्र-
वज्राङ्कुशांबुरुहकल्पकशङ्खचक्रैः।
भव्यैरलंकृततलौ परतत्त्वचिह्नैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥५॥
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ।
उद्यन्नखांशुभिरुदस्तशशांकभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥६॥
सप्रेमभीतिकमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥७॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादि दिव्यमहिषी करपल्लवानाम्।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥८॥
नित्यानमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥९॥
विष्णोः पदे परम इत्युदितप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१०॥
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥११॥
मन्मूर्ध्नि कालियफणेषु विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१३॥
प्रायः प्रपन्नजनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशोरमृतायमानौ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१४॥
सत्त्वोत्तरैर्सततसेव्यपदांबुजेन
संसारतारकदयार्द्रदृगञ्चलेन।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१५॥
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.