GURUVATAPURISA PANCHARATNA STOTRAM

गुरुवातपुरीशपञ्चरत्नस्तोत्रम्

  (अनन्तरामदीक्षितकृतम्)

नारायण नारायण नारायण नारायण

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण॥

[repeat this after each of the slokas given below]

कल्य़ाणरूपाय कलौ जनानां

कल्याणदात्रे करुणासुधाब्धे।

कंब्वादि दिव्यायुधसत्कराय

वातालयाधीश नमो नमस्ते॥1||

नारायणेत्यादि जपद्भिरुच्चैः

भक्तैस्सदापूर्णमहालयाय।

स्वतीर्थगाङ्गोपमवारिमग्न-

निवर्त्तिताशेषरुजे नमस्ते ॥२॥

ब्राह्मे मुहूर्ते परितः स्वभक्तैः

सन्दृष्टसर्वोत्तमविश्वरूप ।

स्वतैलसंसेवकरोगहन्त्रे

वातालयाधीश नमो नमस्ते ॥३॥

बालान् स्वकीयान् तव सन्निधाने

दिव्यान्नदानात्परिपालयद्भिः।

सदा पठद्भिश्च पुराणरत्नं

संसेवितायास्तु नमो हरे ते ॥४॥

नित्यान्नदात्रे च महीसुरेभ्यः

नित्यं दिविस्थैर्निशि पूजिताय।

मात्रा च पित्रा च तथोद्धवेन

संपूजितायास्तु नमो नमस्ते ॥५॥

अनन्तरामाख्यमखिप्रणीतं

स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।

वातालयेशस्य कृपाबलेन

लभेत सर्वाणि च मङ्गलानि ॥६॥

गुरुवातपुरीशपञ्चकाख्यं

स्तुतिरत्नं पठतां सुमङलं स्यात्।

हृदि चापि विशेद्धरिःस्वयं तु

रतिनाथायुततुल्यदेहकान्तिः ॥७॥

गुरुवातपुरीशपञ्चरत्नस्तोत्रम्
  (अनन्तरामदीक्षितकृतम्)

नारायण नारायण नारायण नारायण

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण॥

[repeat this after each of the slokas given below]

कल्य़ाणरूपाय कलौ जनानां

कल्याणदात्रे करुणासुधाब्धे।

कंब्वादि दिव्यायुधसत्कराय

वातालयाधीश नमो नमस्ते॥1||

नारायणेत्यादि जपद्भिरुच्चैः

भक्तैस्सदापूर्णमहालयाय।

स्वतीर्थगाङ्गोपमवारिमग्न-

निवर्त्तिताशेषरुजे नमस्ते ॥२॥

ब्राह्मे मुहूर्ते परितः स्वभक्तैः

सन्दृष्टसर्वोत्तमविश्वरूप ।

स्वतैलसंसेवकरोगहन्त्रे

वातालयाधीश नमो नमस्ते ॥३॥

बालान् स्वकीयान् तव सन्निधाने

दिव्यान्नदानात्परिपालयद्भिः।

सदा पठद्भिश्च पुराणरत्नं

संसेवितायास्तु नमो हरे ते ॥४॥

नित्यान्नदात्रे च महीसुरेभ्यः

नित्यं दिविस्थैर्निशि पूजिताय।

मात्रा च पित्रा च तथोद्धवेन

संपूजितायास्तु नमो नमस्ते ॥५॥

अनन्तरामाख्यमखिप्रणीतं

स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।

वातालयेशस्य कृपाबलेन

लभेत सर्वाणि च मङ्गलानि ॥६॥

गुरुवातपुरीशपञ्चकाख्यं

स्तुतिरत्नं पठतां सुमङलं स्यात्।

हृदि चापि विशेद्धरिःस्वयं तु

रतिनाथायुततुल्यदेहकान्तिः ॥७॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.