INDRAKRITA SRIKRISHNA STOTRAM

           इन्द्रकृतश्रीकृष्णस्तोत्रम्
अक्षरं परमं ब्रह्म ज्योतिरूपं सनातनम्
गुणातीतं निराकारं स्वेच्छामयमनन्तकम्॥१॥
भक्तध्यानाय सेवायै नानारूपधरं वरम्।
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥२॥
शुक्लतेजः स्वरूपं च सत्ये सत्यस्वरूपिणम्।
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥३॥
द्वापरे पीतवर्णं च शोभितं पीतवाससा।
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥४॥
नवधाराधरोत्कृष्टनवसुन्दरविग्रहम्।
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥५॥
गोपिकाचेतनहरं राधाप्राणाधिकं परं।
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥६॥
रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्।
कन्दर्पकोटिसौन्दर्यं बिभ्रतं शान्तमीश्वरम् ॥७॥
क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित्।
कुत्रचिन्निर्ज्जनेऽरण्ये राधावक्षस्थलस्थितम् ॥८॥
जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित्।
राधिका कबरीभारं कुर्वन्तं कुत्रचिद्वने ॥९॥
कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्।
राधाचर्विततांबूलं गृह्णन्तं कुत्रचिन्मुदा ॥१०॥
पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा।
दत्तवन्तञ्च राधायै कृत्वा मालां च कुत्रचित् ॥११॥
कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम्।
राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥१२॥
सार्धं गोपालिकाभिश्च विहरन्तञ्च कुत्रचित्।
राधां गृहीत्वा गच्छन्तं  तां विहाय च कुत्रचित् ॥१३॥
विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित्
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥१४॥
वस्त्रं गोपालिकानाञ्च हरन्तं कुत्रचिन्मुदा।
गवां गणं व्याहरन्तं कुत्रचिद्बालकैस्सह ॥१५॥
कालियमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित्।
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा  ॥१६॥
गायन्तं रम्यसंगीतं कुत्रचिद्बालकैः सह।
नन्दैकनन्दनं वन्दे यशोदा नन्दनं प्रभुम् ॥१७॥
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्।
इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेत्ध्रुवम् ॥१८॥
जन्ममृत्युजराव्याधि शोकेभ्यो मुच्यते नरः
नहि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥१९॥


Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.