पञ्चदेवतास्तोत्रम्
गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकं।
वन्दे विशुद्धमनसा जनसायुज्यदायकम्॥१॥
एकरूपान् भिन्नमूर्तीन् पञ्चदेवान् नमस्कृतान्।
वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥२॥
( ईश+अम्बा+इन+एकरद+अच्युत)
कल्याणदायिनो देवान् नमस्कार्यान् महौजसः।
विष्णुशंभुशिवासूर्यगणेशाख्यान् नमाम्यहम् ॥३॥
एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान्।
शिवविष्णुशिवासूर्यहेरंबान् प्रणमाम्यहम् ॥४॥
दिव्यरूपानेकरूपान् नानारूपान्नमस्कृतान् ।
शिवाशंकरहेरंबविणुसूर्यान् नमाम्यहम् ॥५॥
नित्यानानन्दसन्दोहदायिनो दीनपालकान्।
शिवाच्युतगणेशेनदुर्गाख्यान् नौम्यहं सुरान्॥६॥
कमनीयतनून् देवान् सेवावश्यान् कृपावतः।
शंकरेनशिवाविष्णुगणेशाख्यान् नमाम्यहम् ॥७॥
सूर्यविष्णुशिवाशंभुविघ्नराजाभिधान् सुरान्।
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥८॥
हरौ हरे तीक्ष्णकरे गणेशे
शक्तौ न भेदो जगदादिहेतुषु।
अधःपतत्येषु भिदां दधानो
भाषन्त एवं मुनयोऽच्युताश्रयाः ॥९॥