SHASTA ASHTAKAM

    ७.  शास्ता अष्टकम्
हरिवरासनं विश्वंमोहनं
हरितदीश्वराऽऽराध्यपादुकम् ।
अरिविमर्द्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्राये॥ १ ॥
चरणकीर्तनं शक्तमानसं
भरणलॊलुपं नर्तनालयम् ।
अरुणभासुरं भूतनायकं
हरिहरात्मजं  देवमाश्राये  ॥ २ ॥
प्रणय सत्यका प्राणनायकं
प्रणतकल्पकं सुप्रभाञ्चितं ।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजं  देवमाश्राये ॥ ३ ॥
तुरगवाहनं सुन्दराननं
वरगदायुधं दॆववर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं  देवमाश्राये ॥ ४ ॥
त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजं  देवमाश्राये  ॥ ५ ॥
भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणं
हरिहरात्मजं  देवमाश्राये  ॥ ६ ॥
कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीवाजिवाहनं
हरिहरात्मजं  देवमाश्राये  ॥ ७ ॥
श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनॊहरं गीतलालसं
हरिहरात्मजं  देवमाश्राये  ॥ ८ ॥



Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.