श्री
बृहस्पतिस्तोत्रम्
बृहस्पतिस्तोत्रम्
(स्कान्दपुराणान्तर्गतम्)
गुरुर्बृहस्पतिर्ज्जीवः
सुराचार्यो विदां वरः।
सुराचार्यो विदां वरः।
वागीशो
धिषणो दीर्घश्मश्रुः पीतांबरो
युवा ॥१॥
धिषणो दीर्घश्मश्रुः पीतांबरो
युवा ॥१॥
सुधादृष्टिर्ग्रहाधीशो
ग्रहपीडापहारकः।
ग्रहपीडापहारकः।
दयाकरः
सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः॥२॥
सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः॥२॥
लोकपूज्यो
लोकगुरुः नीतिज्ञो नीतिकारकः।
लोकगुरुः नीतिज्ञो नीतिकारकः।
तारापतिश्चाङ्गिरसो
वेदवेद्यः पितामहः॥३॥
वेदवेद्यः पितामहः॥३॥
भक्त्या
बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत्।
बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत्।
अरोगी
बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥
बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥
जीवेत्
वर्षशतं मर्त्यः पापं नश्यति नश्यति।
वर्षशतं मर्त्यः पापं नश्यति नश्यति।
यः
पूजयेत् गुरुदिने पीतगन्धाक्षतांबरैः ॥५॥
पूजयेत् गुरुदिने पीतगन्धाक्षतांबरैः ॥५॥
पुष्पदीपोपहारैश्च
पूजयित्वा बृहस्पतिम्।
पूजयित्वा बृहस्पतिम्।
ब्रह्मणान्
भोजयित्वा च पीडाशान्तिर्भवेत् गुरोः ॥६॥
भोजयित्वा च पीडाशान्तिर्भवेत् गुरोः ॥६॥