श्री दत्तात्रेयस्तोत्रम्
नमो गुरुभ्यो गुरुपादुकाभ्यो
नमः परेभ्यः परपादुकाभ्यः।
आचार्यसिद्धेश्वरपादुकाभ्यो
नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः॥१॥
काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शंखम्।
चक्रं गदाभूषितभूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥२॥
ध्यायेत् संयमिसेवितांघ्रिकमलं दत्तप्रकाशोज्ज्वलं
मायाकूटविहारिणं भुवि सदा माहिष्मतीपावनम् ।
रेवातीरविहारिणं यतिवरं भक्तार्तिनिर्वापकं
योगारूढमतिं प्रसन्नवदनं योगीश्वरेशं भजे ॥३॥
मालाकमण्डलुरधःकरपद्मयुग्मे
मध्यस्थपाणियुगले डमरुत्रिशूले।
यस्य स्त ऊर्ध्वकरयोः शुभशंखचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥४॥
काशीकोल्हामाहुरसह्यकेषु
स्नात्वा जप्त्वा प्राश्य शेतेऽन्वहं यः ।
दत्तात्रेयः तत्क्षणात् सर्वगामी
त्यागी भोगी दिव्ययोगी दयालुः ॥५॥
योगारूढः योगपट्टोपवीतं
हस्तद्वन्द्वं जानुयुग्मे प्रसार्य।
हंसाग्रस्थं रक्तचञ्चज्जटाकं
दत्तात्रेयं भावयेद् वीक्षमाणम् ॥६॥
उत्तानिते करतलेऽप्यपसव्यसव्ये
सोपानपर्वसदृशे ह्युपरिस्वनाभेः
आस्थाय चर्मवसनं भसितांगरागं
मन्त्रीप्सितं भजत रक्तजटाकलापम् ॥७॥
व्याख्यामुद्रां करसरसिजे दक्षिणे संदधानो
जानुन्यस्तापरकरसरोजातवामोन्नतांसः।
ध्यानाधानात् सुखपरवशात् अर्द्धमामीलिताक्षो
दत्तात्रेयः भसितधवलः पातु नः कृत्तिवासाः ॥८॥
बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम्।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैर्महायोगिनं
दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः॥९॥