MANGALASHTAKAM (KALIDASA VIRACHITAM)

मङ्गलाष्टकम्
      (कालिदासविरचितम्)
श्रीमत्पंकजविष्टरौ हरिहरौ वायुर्महेन्द्रोऽनलः
चन्द्रो भास्करवित्तपालवरुणाः धर्माधिराजो ग्रहाः।
प्रद्युम्नो नलकूबरः सुरगजः चिन्तामणिः कौस्तुभः
स्वामी शक्तिधरस्तु लाङ्गलधरः कुर्वन्तु नो मङ्गलम् ॥१॥

गौरी श्रीरदितिश्च कद्रु सुभगा भूतिः सुपर्णी शुभा
सावित्री तु सरस्वती वसुमती द्रौपद्यहल्या सती।
स्वाहा जाम्बवती सुरुक्ममभगिनी दुःस्वप्नविध्वंसिनी
वेला चांबुनिधेः सुमीनमकरा  कुर्वन्तु नो मङ्गलम् ॥२॥

नेत्राणां त्रितयं शिवं पशुपतेरग्नित्रयं पावनं
यत्तद्विष्णुपदत्रयं त्रिभुवनं ख्यातं च रामत्रयम्।
गंगावाहपथत्रयं सुविमलं वेदत्रयं ब्राह्मणं
सन्ध्यानां त्रितयं द्विजैः सुविहितं कुर्वन्तु नो मङ्गलम्॥३॥

अश्वत्थो वटवृक्षः चन्दनतरुः मन्दारकल्पद्रुमौ
जम्बूनिंबकदंबचूतलरलाः वृक्षाश्च ये क्षीरिणः
सर्वे ते फलसंयुताः प्रतिदिनं विभ्राजनं राजते
रम्यं चैत्ररथं च नन्दनवनं कुर्वन्तु नो मङ्गलम् ॥४॥

वाल्मीकिः सनकः सनन्दनतरू व्यासो वसिष्ठो भृगुः
जाबालिर्जमदग्निकच्छजनकाः गर्गोऽङ्गिरा गौतमः।
मान्धाता ऋतुपर्णवैनसगरा धन्यो दिलीपो नलः
पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मङ्गलम् ॥५॥

ब्रह्मा वेदपतिः शिवः पशुपतिः सूर्यश्च चक्षुष्पतिः
शक्रो देवपतिर्यमः पितृपतिः स्कन्दश्च सेनापतिः।
यक्षो वित्तपतिः हरिश्च जगतां वायुः पतिः प्राणिनां
इत्येते पतयः समेत्य सततं कुर्वन्तु नो मङ्गलम् ॥६॥

गंगा सिन्धु सरस्वती च यमुना  गोदावरी नर्मदा
कावेरी सरयूर्महेन्द्रतनया चर्मण्वती वेदिका।
क्षिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी
पूर्णा पूर्णजलैः समुद्रसहिताः कुर्वन्तु नो मङ्गलम् ॥७॥

लक्ष्मी कौस्तुभपारिजातकुसुमाः धन्वन्तरिश्चन्द्रमाः
गावः कामदुघाः सुरेश्वरगजो रम्भादिदेवाङ्गनाः।
अश्वः सप्तमुखः सुधा हरिधनुः शंखो विषं चांबुधेः
रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥८॥

इत्येतद्वरमङ्गलाष्टकमिदं पापौघविध्वंसनं
पुण्यं संप्रति कालिदासकविना विप्रप्रबन्धीकृतं।
यः प्रातः शृणुयात् समाहितमनाः नित्यं पठेत् भक्तिमान्
गंगासागरसंगमे प्रतिदिनं प्राप्नोत्यसौ मङ्गलम् ॥९॥




Click  here to get to  the Master Index from where you can  access  more than 700 posts

  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

1 Comment on MANGALASHTAKAM (KALIDASA VIRACHITAM)

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.