नाथोपदेशम्
मनः समाधौ परमार्थरङ्गं
विधाय निष्पन्दमनुत्तरङ्गम्।
बुधाः विधातुं भवभीतिभङ्गं
विभुं भजध्वं गिरिजाभुजंगम्॥१॥
पाश्यावशेनेव महाविहङ्गं
वल्गाबलेनेव महातुरङ्गम्।
निरुध्य योगेन मनःप्लवङ्गं
विभुं भजध्वं गिरिजाभुजंगम्॥२॥
मन्त्रौषधादि क्रियया भुजङ्गं
यथा तथा वागुरया कुरङ्गम्।
मनस्तदायम्य धियाऽस्तसङ्गं
विभुं भजध्वं गिरिजाभुजंगम्॥३॥
भित्त्वालिकं सुभ्रुकुटी विभङ्गं
यस्याग्निरुद्यद्रभसादनङ्गम् ।
ददाह तं मोहतमःपतङ्गं
विभुं भजध्वं गिरिजाभुजंगम्॥४॥
वहन्तमुद्दामभुजंगमङ्गं
जटाभरं निर्भरनाकगङ्गम्।
विलोचनं चाग्निशिखा विषङ्गं
विभुं भजध्वं गिरिजाभुजंगम्॥५॥
भवबन्धबद्धविधुरोद्धरणम्
फणिमण्डलज्वलदलंकरणम्।
व्रजत क्ष्माधरदरीशरणं
शरणं तुषारकिरणाभरणम्॥६॥
कृताघस्मरनिराकरणं
कटुकालकूटकबलीकरणम्।
व्रजत प्रपन्नजनताशरणं
शरणं तुषारकिरणाभरणम्॥७॥
मरुमेदिनीरचितसञ्चरणं
त्रिदशेन्द्रशेखरनतचरणम्।
व्रजत त्रिदुःखहरणस्मरणं
शरणं तुषारकिरणाभरणम्॥८॥
प्रणतजनजितजरामरणं
रचयन्तमाप्तभवनिस्तरणम्।
व्रजताऽऽहित त्रिपुरसंहरणं
शरणं तुषारकिरणाभरणम्॥९॥
अवधूतमोहतिमिरावरणं
करिकृत्तिकल्पितपरावरणम्
व्रजत प्रकल्पित पुरेशरणं
शरणं तुषारकिरणाभरणम्॥१०॥
तरुणतमालमलीमसतालं
ज्वलनशिखापटलोज्ज्वलफालम्
शिरसिलसत्परमेष्ठिकपालं
श्रयत विभुं हतकल्मषजालम् ॥११॥
नरमुखकल्पितशेखरमालं
नतजनजृम्भितमोहहमालम्।
नयनशिखाशतसाधितकालं
श्रयत विभुं हतकल्मषजालम् ॥१२॥
विषमविषाग्निशिखाविकरालं
फणिपतिहारमतीव विशालम्।
गलभुविबिभ्रद्गरलकरालं
श्रयत विभुं हतकल्मषजालम् ॥१३॥
विदलितुं
यमृते भवनालं
त्रिभुवनसीमनि
कश्चन नाऽलम्।
तममलमानसवासमरालं
श्रयत
विभुं हतकल्मषजालम् ॥१४॥
कमलपरागपिशङ्गजटालं
जलधिसमर्पणतर्पितबालम्।
भवभटभङ्गमहाकरवालं
श्रयत विभुं हतकल्मषजालम् ॥१५॥
अधिकस्मरभस्मरजोधवलं
नतलोकसमर्पितबोधबलम्।
ध्वजधामविराजिमहाधवलं
भजत प्रभुमद्रिसुताधवलम्॥१६॥
प्रभया परिभूत दलत् धवलं
गलमङ्गदरत्नशिखाशबलम्।
दधतं विषकॢप्तमहाकबलं
भजत प्रभुमद्रिसुताधवलम्॥१७॥
शिखरं द्युनदीलहरीतरलं
गलमूलमुपोढमहागरलम्।
दधतं हृदयं च सुधासरलं
भजत प्रभुमद्रिसुताधवलम्॥१८॥
अपनीतकुकर्मकलङ्कमलं
नतलोकवितीर्णमहाघमलं
ददतं शुभसिद्धिविपाकमलम्
भजत प्रभुमद्रिसुताधवलम्॥१९॥
दधतं वचनं घनहासकलं
नमतां दलयन्तमघं सकलम् ।
भजतां च दिशन्तमभीष्टफलं
भजत प्रभुमद्रिसुताधवलम्॥२०॥
|
|
|