दुर्गाष्टकम्
कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥१॥
वसुदेवसुते काळि वासुदेवसहोदरि।
वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते॥२॥
योगनिद्रे महानिद्रे योगमाये महेश्वरि।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥३॥
शंखचक्रगदापाणे शार्ङ्गज्यायतबाहवे।
पीतांबरधरे धन्ये
दुर्गादेवि नमोऽस्तु ते॥४॥
दुर्गादेवि नमोऽस्तु ते॥४॥
ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते॥५॥
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते॥५॥
वृष्णीनां कुलसंभूते विष्णुनाथसहोदरि।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते॥६॥
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते॥७॥
अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये।
अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥८।
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥९॥
Click here to go to the Master Index from where you can access more than 750 posts
jai mata di