DATTAPARADHA KSHAMAPANA STOTRAM

श्रीदत्तापराधक्षमापनस्तोत्रम्
दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्त्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवादि देव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥१॥
त्वदुद्भवत्त्वात् त्वदधीनधीत्वात्
त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते
मे

कृतं क्षमस्व प्रियकृन्महात्मन् ॥२॥

भोगापवर्गप्रदमात्मबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥३॥
न मत्समो यद्यपि पापकर्ता
न त्वत्समोथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य !
न त्वत्समः क्वापि दयालुवर्यः ॥४॥
अनाथनाथोऽसि सुदीनबन्धो
श्रीशानुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीय मन्त्रार्थदृढैकनिष्ठाम् ॥५॥
गुरुस्मृतिं निर्मलबुद्धिमाधि-
व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वर गोसमृद्धिम् ॥६॥
पुत्रादिलब्धिं म उदारतां च
देहीश मे शास्त्यभयं हि सर्वदा ।
ब्रह्माग्नि भूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥७॥
शान्तास्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥८॥
॥ इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं

श्रीदत्तापराधक्षमापनस्तोत्रं संपूर्णम् ॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.