दक्षिणामूर्तिस्तोत्रम् -३
सुनिर्मलज्ञानसुखैकरूपं प्रज्ञानहेतुं परमार्थदायिनम्।
चिदंबुधौ तं विहरन्तमाद्यं आनन्दमूर्तिं गुरुराजमीडे ॥१॥
यस्यान्तं नादिमध्यं न हि करचरणं नाम गोत्रं न सूत्रं
नो जातिर्नैव वर्णा न भवति पुरुषो नो नपुंसं न च स्त्री
नाकारं नैवकारं न हि जनिमरणं नास्ति पुण्यं न पापम्
तत्त्वं नो तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥२॥
अलं विकल्पैरहमेव केवलं
मयिस्थितं विश्वमिदं
चराचरम्।
चराचरम्।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव
केवलम् ॥३॥
केवलम् ॥३॥
ओं नमः प्रणवार्थाय
शुद्धज्ञानैकमूर्तये
शुद्धज्ञानैकमूर्तये
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥४॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥५॥
अङ्गुष्ठतर्जनीयोग मुद्राव्याजेन देहिनाम्।
श्रुत्यर्थं ब्रह्मजीवैक्यं दर्शयन्नोऽवताच्छिवः ॥६॥
You must log in to post a comment.