श्रीशारदास्तुतिसप्तम्
या माता दुहिता महाजलनिधेर्लक्ष्मीति सङ्गीयते
या माता दुहिता महाहिमगिरेर्गौरीति चाख्यायते।
या वाणी विमला विरिञ्चिमुखतो निर्गत्य राराजते
सा मां रक्षतु शारदा सुमतिदा श्रीरामचन्द्रात्मजा ॥१॥
या लीलासहचारिणी नरगुरोः श्रीरामकृष्णस्य या
विश्वेषां च दिवौकसां प्रणुवतामिष्टार्थसिद्धिप्रदा।
यामाराध्य हि सर्वयोगिमुनयः प्राप्ता विमुक्तिं स्थिरां
तामम्बां समुपास्महे त्रिजगतामेकाश्रयां शारदाम् ॥२॥
भवाग्नौ सन्दग्धैर्दुरितनिहतैर्दुःखभरितैः
हरेर्हृत्पद्मं युद्ध्यहह मुकुलीभूतसुदलम्।
ध्रुवं तत्पीडायास्त्रिदिवमधुगङ्गेव गलिता
दया या माताऽभूदवतु दयया मां जयतु सा ॥३॥
शाखापल्लवपत्रपुष्पभरितः कश्चिन्महाविद्रुमः
छायां यच्छति शीतलामतिहितां पौष्पं च वर्षं सुखम्।
आत्मानं ननु वृश्चतोऽपि स यथा
माता तथा पीडनं
माता तथा पीडनं
बन्धूनां सततं
कुशिष्यचरितं सोड्ढ्वा वरान्यच्छति॥४॥
कुशिष्यचरितं सोड्ढ्वा वरान्यच्छति॥४॥
सर्ववेदशास्त्रशिल्पसारबोधदायिनीं
शर्वधातृविष्णुरूपसर्वदेवविग्रहाम् ।
सर्वलोकसर्वजीवसर्वभूतधारिणीं
सर्वतापहारिणीं सदा नमामि शारदाम् ॥५॥
’परदोषानन्वेष्टुं
यच्छीलं तव सूनो
यच्छीलं तव सूनो
तद्धित्वा परमेशे भक्तिं वै कुरु सततम्’।
इत्युक्त्वा मृतिकाले परमेशं प्राप्ता या
साऽपायात् पायान्मां मृतिभीतं सुखदासम् ॥६॥
माता मे परमा शक्तिः शारदेति प्रथां गता।
स्थिते चैवं जनेर्मृत्योस्सङ्कष्टान्मे भयं कुतः ॥७॥
You must log in to post a comment.