आश्रयद्वादशम्
परमपावनं विश्वविश्रुतं
वरगणप्रदं भक्तपालकम्।
गिरिगृहप्रियं नित्यनिर्मलं
पुरहरात्मजं देवमाश्रये ॥१॥
पुरहरात्मजं देवमाश्रये ॥१॥
अरुणभासुरं मोहनाम्बरं
दुरितनाशनं कामदायकम्
।
।
सुगुणपूरितं शक्तिसेवितं
पुरहरात्मजं देवमाश्रये ॥२॥
नतजनप्रियं दीनपालकं
पतितपावनं धर्मकारकम्।
मदनसुन्दरं कीर्तनप्रियं
पुरहरात्मजं देवमाश्रये ॥३॥
करिवरासनं गौरवावहं
अरिविमर्दनं शिष्टपालकम्।
विजयभासुरं पापनाशनं
पुरहरात्मजं देवमाश्रये ॥४॥
हरितनूभवं ग्रामपालकं
हरिहरप्रियं राजसेवितम्।
अरिकुलान्तकं नर्तनप्रियं
पुरहरात्मजं देवमाश्रये ॥५॥
गिरितलस्थितं
रत्नकन्धरं
रत्नकन्धरं
गिरिशलालितं मङ्गलाननम्।
श्रितनृरक्षकं
सत्यपालकं
सत्यपालकं
पुरहरात्मजं देवमाश्रये ॥६॥
मणिगणाञ्चितं
मोहिनीसुतं
मोहिनीसुतं
घृणिगणावृतं भूतवन्दितम्।
भुवनपालकं
भूतनायकं
भूतनायकं
पुरहरात्मजं देवमाश्रये ॥७॥
तरुणमोहनं कुण्डलाञ्चितं
वरगिरीश्वरं मकुटमण्डितम्।
कमलभूषणं
भासुराननं
भासुराननं
पुरहरात्मजं देवमाश्रये ॥८॥
अनलकान्तिजं
वीरनर्तनं
वीरनर्तनं
मुनिगणार्चितं सुप्रभापतिम्।
भुवनमोहनं
पुत्रदायकं
पुत्रदायकं
पुरहरात्मजं देवमाश्रये ॥९॥
द्रुहिणवत्सलं
वेत्रधारकं
वेत्रधारकं
कनकभूषितं काननप्रियम्।
भुवनवन्दितं
पाण्ड्यसेवकं
पाण्ड्यसेवकं
पुरहरात्मजं देवमाश्रये ॥१०॥
विमलवीक्षणं
विप्रवन्दितं
विप्रवन्दितं
अमरलोकगं सत्यकप्रियं ।
कुसुमपूरितं
वासवाश्रितं
वासवाश्रितं
पुरहरात्मजं देवमाश्रये ॥११॥
भवविमोचनं
ज्ञानदायकं
ज्ञानदायकं
भवहितेरतं देवपूजितम्।
मुनिनिषेवितं
शान्तिदायकं
शान्तिदायकं
पुरहरात्मजं देवमाश्रये ॥१२॥