श्रीस्तोत्रम्
राजलक्ष्मीस्थिरत्वाय येथेन्द्रेण पुरा श्रियः
स्तुतिः कृता तथा राजन् जयार्थं स्तुतिमाचरेत् ॥१॥
नमोऽस्तु सर्वलोकानां जननीमब्धिसंभवाम्।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्॥२॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी।
सन्ध्या रात्रिः प्रभा मूर्तिर्मेधा श्रद्धा सरस्वती॥३॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥४॥
अन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्ज्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥५॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥६॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयं।
विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥७॥
दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकम्।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम्॥८॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयःसुखं
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥९॥
त्वमंबा सर्वलोकानां देवदेवो हरिः पिता।
त्वयैतद्विष्णुना चांब जगद्व्याप्तं चराचरम्॥१०॥
मा नः कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥११॥
मा पुत्रान्मा सुहृद्वर्गान् मा पशून् मा विभूषणम्।
त्यजेथा मम देवस्य विष्णोर्वक्षस्थलालये ॥१२॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥१३॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान्।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१४॥
त्वयावलोकितः सद्यः शीलाद्यैरखिलैर्गुणैः
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१५॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः।
पराङ्मुखी जगद्धात्रि!
यस्य त्वं विष्णुवल्लभे॥१६॥
यस्य त्वं विष्णुवल्लभे॥१६॥
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः।
प्रसीद देवि! पद्माक्षि! नास्मांस्त्याक्षीः
कदाचन॥१७॥
कदाचन॥१७॥
एवं स्तुता ददौ श्रीश्च परमिन्द्रायचेप्सितं।
सुस्थिरत्वं च राज्यस्य संग्रामविजयादिकम् ॥१८॥
सुस्तोत्रपाठश्रवणं कर्तॄणां भुक्तिमुक्तिदं।
श्रीस्तोत्रं सततं तस्मात् पठेच्च शृणुयान्नरः
॥१९॥
॥१९॥