श्रीचण्डीप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां
सद्रत्नवन्मकरकूण्डलहारभूषाम्।
दिव्यायुधोर्जितसुनीलसहस्रहस्तां
रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड-
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम्।
ब्रह्मेन्द्र रुद्र मुनिमोहनशीललीलां
चण्डीं समस्त सुरमूर्तिमनेकरूपां ॥२॥
प्रातर्भजामि भजतामभिलाषदात्रीं
धात्रीं समस्तजगतां
दुरितापहन्त्रीम्।
दुरितापहन्त्रीम्।
संसारबन्धनविमोचनहेतुभूतां
मायां परां समधिगम्य
परस्य विष्णोः ॥३॥
परस्य विष्णोः ॥३॥
श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः।
सर्वान् कामानवाप्नोति विष्णुलोके महीयते॥४॥