श्रीकालिकास्तोत्रम्
ध्यानम्:
मेघाङ्गीं विगताम्बरां शवशिवारूढां त्रिनेत्रां परां
कर्णालम्बिनृमुण्डयुग्मभयदां
मुण्डस्रजां भीषणाम्।
मुण्डस्रजां भीषणाम्।
वामाधोर्ध्वकराम्बुजे नरशिरः खड्गं च सव्येतरे
दानाभीति विमुक्तकेशनिचयां
वन्दे सदा कालिकाम् ॥
वन्दे सदा कालिकाम् ॥
श्रीकालिकास्तोत्रम्
त्वं परा प्रकृतिः साक्षात्ब्रह्मणः परमात्मनः
त्वत्तो जातं जगत्सर्वं त्वं जगज्जननी शिवे ॥१॥
महदाद्यणुपर्यन्तं यदेतत्सचराचरम्।
त्वयैवोत्पादितं भद्रे त्वदधीनमिदं जगत् ॥२॥
त्वमाद्या सर्वविद्यानामस्माकमपि
जन्मभूः।
जन्मभूः।
त्वं जानासि जगत्सर्वं न त्वां जानाति कश्चन ॥३॥
त्वं काली तारिणी दुर्गा षोडशी भुवनेश्वरी।
धूमावती त्वं बगला भैरवी छिन्नमस्तका ॥४॥
त्वमन्नपूर्णा वाग्देवी त्वं देवि कमलालया।
सर्वशक्तिस्वरूपा त्वं सर्वदेवमयी तनुः ॥५॥
त्वमेव सूक्ष्मा स्थूला त्वं व्यक्ताव्यक्तस्वरूपिणी।
निराकारापि साकारा कस्त्वां वेदितुमर्हति ॥६॥
उपासकानां कार्यार्थं श्रेयसे जगतामपि।
दानवानां विनाशाय धत्से नानाविधास्तनूः॥७॥
चतुर्भुजा त्वं द्विभुजा षड्भुजाष्टभुजा तथा।
त्वमेव विश्वरक्षार्थं नानाशस्त्रास्त्रधारिणी॥८॥
त्वं सर्वरूपिणी देवी सर्वेषां जननी परा।
तुष्टायां त्वयि देवेशि सर्वेषां तोषणं भवेत् ॥९॥
सृष्टेरादौ त्वमेकासीत्तमोरूपमगोचरम्।
त्वत्तो जातं जगत्सर्वं परब्रह्मसिसृक्षया॥१०॥
महत्तत्वादिभूतानां त्वया सृष्टमिदं जगत्।
निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणम् ॥११॥
सद्रूपं सर्वतोव्यापि सर्वमावृत्य तिष्ठति।
सदैकरूपं चिन्मात्रं निर्लिप्तं सर्ववस्तुषु ॥१२॥
न करोति न चाश्नाति न गच्छति न तिष्ठति।
सत्यं ज्ञानमनाद्यन्तमवाङ्मनसगोचरम् ॥१३॥
तस्येच्छामात्रमालम्ब्य त्वं महायोगिनी परा।
करोषि पासि हंस्यन्ते जगदेतच्चराचरम्॥१४॥
तव रूपं महाकालो जगत्संहारकारकः।
महासंहारसमये कालः सर्वं ग्रसिष्यति॥१५॥
कलनात्सर्वभूतानां महाकालः प्रकीर्तितः।
महाकालस्य कलनात्त्वमाद्या कालिका परा ॥१६॥
कालसङ्ग्रसनात्काली सर्वेषामादिरूपिणी।
कालत्वादादिभूतत्वादाद्या कालीति गीयते ॥१७॥
पुनः स्वरूपमासाद्य तमोरूपं निराकृति।
वाचातीतं मनोऽगम्यं त्वमेकैवावशिष्यसे॥१८॥
साकारापि निराकारा मायया बहुरूपिणी।
त्वं सर्वादिरनादि त्वं कर्त्री हर्त्री च पालिका ॥१९॥
—-
You must log in to post a comment.