श्रीतुलसीस्तोत्रम्-३
नमस्तुलसि कल्याणि
नमो विष्णुप्रिये
शुभे ।
शुभे ।
नमो मोक्षप्रदे देवि
नमः संपद्प्रदायिके
॥१॥
॥१॥
तुलसी पातु मां नित्यं
सर्वापद्भ्योऽपि
सर्वदा।
सर्वदा।
कीर्तिताऽपि स्मृता वाऽपि
पवित्रयति मानवम्॥२॥
नमामि शिरसा देवीं
तुलसीं विलसत्तनुम्
।
।
यां दृष्ट्वा पापिनो मर्त्याः
मुच्यन्ते सर्वकिल्बिषात्॥३॥
तुलस्या रक्षितं सर्वं
जगदेतच्चराचरम्।
या विनिर्हन्ति पापानि
दृष्ट्वा वा पापिभिर्नरैः॥४॥
यन्मूले सर्वतीर्थानि
यन्मध्ये सर्वदेवताः।
यदग्रे सर्ववेदाश्च
तुलसीं तां नमाम्यहम्॥५॥
तुलस्याः नापरं किञ्चित्
दैवतं जगती तले।
यया पवित्रितो लोकः
विष्णु संगेन वैष्णवः
॥६॥
॥६॥
तुलस्याः पल्लवं विष्णोः
शिरस्यारोपितं कलौ
।
।
आरोपयति सर्वाणि
श्रेयांसि वरमस्तके
॥७॥
॥७॥
नमस्तुलसि सर्वज्ञे
पुरुषोत्तमवल्लभे।
पाहि मां सर्वपापेभ्यः
सर्वसंपद्प्रदायिके
॥८॥
॥८॥