SRI YAMA STUTI

  श्रीयमस्तुति
धर्मराज नमस्तेऽस्तु साक्षाद्धर्मस्वरूपिणे।
धर्मिष्ठ शान्तरूपाय सत्यरूप नमो नमः ॥१॥
यमाय मृत्यवे तुभ्यं कालाय च नमो नमः।
सूर्यपुत्र नमस्तेऽस्तु सर्वभूतक्षयाय ते ॥२॥
साधूनां पितृतुल्याय वचनामृतदायिने
कटकाङ्कितकेयूर हारनूपुरधारिणे ॥३॥
दूरादेव सतो दृष्ट्वा दुराचाराद्यविप्लुतान्।
अर्चते गन्ध पुष्पाद्यैः प्रत्युत्थानासनार्हणैः॥४॥
मध्यस्थाय नमस्तुभ्यं तत्त्वज्ञाय नमो नमः।
ददते निज सर्वस्वं साधूनां समदर्शिनाम् ॥५॥
देवदेव नमस्तुभ्यं वेदवेदान्त वेदिने।
सत्कृतत्संकृतं पूर्वं जातं पाथेयमत्यवः॥६॥
स्वर्लोकान्गच्छत क्षिप्रमिति संप्रियवादिने।
नमस्ते पितृरूपाय भक्तानामभयंकर ॥७॥
कमलाकान्तभक्ताय
कमलोदरचक्षुषे।
मलोद्भव भव्याय कमलाभासक त्विषे ॥८॥
नमो लावण्यनिधये कारुण्यवचनालय।
पापिनां घोररूपाय गर्जते दुर्जनाग्रतः ॥९॥
दंष्ट्राकराल भ्रुकुटी भीषणानन ते नमः।
ऊर्ध्वरोम्णे महारोम्णे दीर्घरोम्णे नमो नमः ॥१०॥
घण्टारव महाचण्ड कालदण्डाय चण्डिने।
दण्ड्यान् दण्डयते नित्यमुग्रदण्डाय ते नमः ॥११॥
कोदण्ड कालदण्डाऽसिपरश्वध वरायुधान्।
धारिणे मारिणे लोकान् पुण्यराशिस्वरूपिणे ॥१२॥
ग्रहणे सर्वलोकानां जागरूकाधिकारिणे।
दिव्यज्ञानप्रशस्ताय समस्ताङ्गायते नमः ॥१३॥
समस्तलोकवन्द्याय समस्तस्तोत्ररूपिणे।
कालाम्बुदमहानील महावृषभवाहन ॥१४॥
कल्पानल महाकील ज्वलल्लोचन ते नमः।
भयंकराय पापानां अभयाय सुधर्मिणाम् ॥१५॥
द्रवत्सुधांशु संपूर्णचन्द्रास्याय नमो नमः।
प्रलयांबुदनिर्घोषभीषयित्रेऽहदर्शिने ॥१६॥
गोभ्यां करुण्यपूर्णाभ्यां पश्यते सुकृतात्मनाम्।
तत्त्वाय तत्त्वरूपाय तत्त्वदृष्टे नमोनमः ॥१७॥
अतीवगर्जत्प्रलयाम्बुदध्वनिप्रमूर्च्छिताऽशेषदिगंतराय।
छिन्धीति भिन्धीति च चूर्णतेऽसतो वीक्ष्य विभो नमस्ते ॥१८॥
करालकायाऽतिकठोरवाचा पापिष्ठसंघं भृशभीषयित्रे।
ज्वलद्युगान्तोद्यमबाडवाग्निसमोर्ध्वरोम्णे परपीडकानाम् ॥१९॥
विषोल्बणा भीषण कृष्णसर्प दण्डाभिघाताघि विमोहयित्रे।
साधुमित्रायते शश्वन्मित्रपुत्रायते नमः ॥२०॥
शान्तगात्राय शान्तानां मेरुगोत्रसमञ्जसे।
पूजामात्रातितुष्टाय भक्ताभीष्टप्रदायिने ॥२१॥
शिपिविष्ट नमस्तेऽस्तु नमस्ते परमेष्ठिने ।
वाचा प्रीणयते साधून् पूज्यान् पूजयते नमः ॥२२॥
प्रदात्रे साधु सल्लोकं अपहर्त्रे सतां भयम् ।
धर्मशास्त्रस्वरूपाय न्यायशास्त्रार्थचक्षुषे ॥२३॥

वृकोदर नमस्तुभ्यं यमुना सोदराय च।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥२४॥
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुंबराय दध्नाय नीलाय परमेष्ठिने ॥२५॥
वृकोदराय चित्राय चित्रगुप्ताय ते नमः।
भूयो भूयो नमस्तुभ्यं भक्तरक्षगते नमः ॥२६॥  

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.