आपद्विमोक्षस्तवः
(addressed to the son of Lord Siva as kirata (hunter) with whom
Arjuna fought for Pasupatastra)
Arjuna fought for Pasupatastra)
श्रीमत्कैरातवेषोद्भटरुचिरतनो,
भक्तरक्षात्तदीक्ष,
भक्तरक्षात्तदीक्ष,
प्रोच्चण्डारातिदृप्तद्विपनिकरसमुत्सारहर्यक्षवर्य,।
त्वत्पादैकाश्रयोऽहं
निरुपमकरुणावारिधे, भूरितप्त-
निरुपमकरुणावारिधे, भूरितप्त-
स्त्वामद्यैकाग्रभक्त्या
गिरिशसुत, विभो, स्तौमि देव प्रसीद॥१॥
गिरिशसुत, विभो, स्तौमि देव प्रसीद॥१॥
पार्थः प्रत्यर्थिवर्गप्रशमनविधये
दिव्यमुग्रं महास्त्रं
दिव्यमुग्रं महास्त्रं
लिप्सुर्ध्यायन् महेशं व्यतनुत विविधानीष्टसिद्ध्यै
तपांसि।
तपांसि।
दित्सुः कामानमुष्मै
शबरवपुरभूत्प्रीयमाणः पिनाकी
शबरवपुरभूत्प्रीयमाणः पिनाकी
तत्पुत्रात्माऽऽविरासीस्तदनु
च भगवन् विश्वसंरक्षणाय ॥२॥
च भगवन् विश्वसंरक्षणाय ॥२॥
घोरारण्ये
हिमाद्रौ विहरसि मृगयातत्परश्चापधारी
हिमाद्रौ विहरसि मृगयातत्परश्चापधारी
देव श्रीकण्ठसूनो,
विशिखविकिरणैः श्वापदानाशु निघ्नन्।
विशिखविकिरणैः श्वापदानाशु निघ्नन्।
एवं भक्तान्तरङ्गेष्वपि
विविधभयोद्भ्रान्तचेतोविकारान्
विविधभयोद्भ्रान्तचेतोविकारान्
धीरस्मेरार्द्रवीक्षानिकरविसरणैश्चापि
कारुण्यसिन्धो ॥३॥
कारुण्यसिन्धो ॥३॥
विक्रान्तैरुग्रभावैः
प्रतिभटनिवहैः सन्निरुद्धाः समन्ता-
प्रतिभटनिवहैः सन्निरुद्धाः समन्ता-
दाक्रान्ताः
क्षत्रमुख्याः शबरसुत, भवद्ध्यानमग्नान्तरङ्गाः।
क्षत्रमुख्याः शबरसुत, भवद्ध्यानमग्नान्तरङ्गाः।
लब्ध्वा
तेजस्त्रिलोकीविजयपटु समस्तारिवंशप्ररोहान्
तेजस्त्रिलोकीविजयपटु समस्तारिवंशप्ररोहान्
दग्ध्वाऽऽसन् पूर्णकामाः प्रदिशतु स भवान् मह्यमापद्विमोक्षम्
॥४॥
॥४॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)
You must log in to post a comment.