ज्ञानयज्ञः
(महानारायणोपनिषत्)
तस्यैवं विदुषो यज्ञस्यात्मा
यजमान-श्श्रद्धापत्नी शरीर-मिध्ममुरो वेदि-र्लोमानि बर्हि -र्वेदश्शिखा हृदयं यूपः काम आज्यं मन्युः पशु-स्तपोऽग्नि-र्दम-श्शमयिता दक्षिणा
वाग्धोता प्राण उद्गाता चक्षुरध्वर्यु-र्मनो ब्रह्मा श्रोत्रमग्नी-द्यावद्ध्रियते
सा दीक्षा यदश्नाति तद्धवि-र्यत्पिबति तदस्य सोमपानं यद्रमते तदुपसदो यथ्संचरत्युपविशत्युत्तिष्ठते
च सप्रवर्ग्यो यन्मुखं तदाहवनीयो या व्याहृति-राहुति-र्यदस्य विज्ञानं तज्जुहोति यथ्सायं
प्रातरत्ति तथ्समिधं य त्प्रातर्मध्यन्दिनँ सायं च तानि सवनानि ये अहोरात्रे ते दर्शपूर्णमासौ
ये अर्धमासाश्च मासास्श्च ते चातुर्मास्यानि ये ऋतवस्ते पशुबन्धा ये संवथ्सराश्च परिवथ्सराश्च
ऽहर्गणास्सर्ववेदसं वा एतथ्सत्रं यन्मरणं तदवभृथ
एतद्वै जरामर्यमग्निहोत्रँ सत्रं य एवं विद्वा-नुदगयने प्रमीयते देवानामेव महिमानं
गत्वाऽऽदित्यस्य सायुज्यं गच्छत्वथ यो दक्षिणे प्रमीयते पितॄणा-मेव महिमानं गत्वा चन्द्रमसस्सायुज्यँ
सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसौ- महिमानौ ब्राह्मणो विद्वा-नभिजयति तस्माद्-ब्राह्मणो
महिमान माप्नोति तस्माद् ब्राह्मणो महिमानम् ॥

You must log in to post a comment.