श्रीसत्यसायिभुजङ्गम्
श्रीसत्यसायिभगवन्, नरकान्तक, त्वत्-
पादाग्रसीम्नि
मम चेतनयाऽर्प्यमाणा।
मम चेतनयाऽर्प्यमाणा।
दीपावलीस्तुतिरियं ललितप्रकाशा
नीराजनं भवतु विश्वगुरो
नमस्ते ॥१॥
नमस्ते ॥१॥
स्मितामृतलसन्मुखं सदयशान्तनेत्राञ्चलं
सदाऽभयसमुद्यताद्भुतविभूतिहस्ताञ्चलम्।
अनन्तवदनोच्चरत्प्रणववैखरीनिर्वृतं
प्रशान्तिनिलयस्थितं
हृदि भजामि सायीश्वरम्॥२॥
हृदि भजामि सायीश्वरम्॥२॥
नमः सायिबाबेति संशुद्धनाम्ने
नमः साधुसेव्याय
कारुण्यभूम्ने।
कारुण्यभूम्ने।
नमः सत्यसङ्कल्पसुव्यक्तधाम्ने
नमः सर्वसर्वार्थसर्वस्वधाम्ने
॥३॥
॥३॥
अजं धर्मसंस्थापनायावतीर्णं
परं पूरुषं सत्यनारायणं
तम् ।
तम् ।
शिवं शक्तियुक्तं प्रशान्तस्वरूपं
सदासायिनाथं भजेऽहं
भजेऽहम्॥४॥
भजेऽहम्॥४॥
शिरस्यद्भुतोद्भासिकेशाभिरामं
मुखे शान्तभावोल्लसन्मन्दहासम्।
दृशोरुन्मिषद्दिव्यकारुण्यलीलं
वचस्यञ्चितानुग्रहास्रारवर्षम्
॥५॥
॥५॥
करे दक्षिणे भूतिभूषाविशुद्धे
दधानं प्रपन्नाय
नित्याभयाङ्कम्।
नित्याभयाङ्कम्।
समारक्तकौशेयभास्वन्निचोलं
सदा भावयेऽहं गुरुं
सायिदेवम्॥६॥
सायिदेवम्॥६॥
महादेव, देशान्तरेषु त्वदीयं
विभूतिप्रकाशं
समासाद्य सायिन्।
समासाद्य सायिन्।
भवद्ध्यानपूजानतिस्तोत्रपूता
जनाः शान्तिमानन्दसान्द्रां
भजन्ते ॥७॥
भजन्ते ॥७॥
जनक्षेमकृत्येषु सक्तं निरीहं
प्रबुद्धात्मतत्त्वं
हृदा ध्यानमग्नम्।
हृदा ध्यानमग्नम्।
स्वयं भक्तिगानेषु नित्यं निलीनं
भजे सर्वयोगेश्वरं
सायिकृष्णम्॥८॥
सायिकृष्णम्॥८॥
हिते ज्ञानकर्मोपसृष्टे विशिष्टे
गुरुं भक्तिमार्गे
महान्तं भवन्तम्।
महान्तं भवन्तम्।
समासाद्य दुःखानि निर्धूय शान्तिं
लभेय; प्रसीद
प्रभो सत्यसायिन् ॥९॥
प्रभो सत्यसायिन् ॥९॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)
Who is Satya Sai? Who is Asatya Sai?