श्री गायत्रीस्तोत्रम् – २
नमस्ते देवि गायत्रि सावित्रि
त्रिपदेऽक्षरे।
अजरे अमरे मातस्त्राहि मां भवसागरात्॥१॥
त्रिपदेऽक्षरे।
अजरे अमरे मातस्त्राहि मां भवसागरात्॥१॥
नमस्ते सूर्यसंकाशे सूर्यसावित्रि कोमले।
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तु
ते ॥२॥
ते ॥२॥
अनन्तकोटिब्रह्माण्डव्यापिनि ब्रह्मचारिणि।
नित्यानन्दे महामाये परेशानि नमोस्तु ते ॥३॥
त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता।
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः॥४॥
पूषार्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः ।
पितरो नागयक्षाश्च गंधर्वाप्सरसां गणाः॥५॥
रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरि।
ऋग्यजुस्सामवेदाश्च अथर्वाङ्गिरसानि च ॥६॥
त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरि।
ब्राह्मी सरस्वती
सन्ध्या तुरीया त्वं महेश्वरि॥७॥
सन्ध्या तुरीया त्वं महेश्वरि॥७॥
त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः।
पुराणानि च मन्त्राणि महागम मतानि च ॥८॥
तत्सद्ब्रह्मस्वरूपा त्वं कंचित्सदसदात्मिका।
परात्परेशि गायत्रि नमस्ते मातरंबिके ॥९॥
चन्द्रे कलात्मिके नित्ये कालरात्रि स्वधे स्वरे।
स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरि॥१०॥
नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम्।
सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणि॥११॥
अपराधसहस्राणि त्वसत्कर्मशतानि च।
मत्तो जातानि देवेशि त्वं क्षमस्व दिने दिने॥१२॥
॥इति वसिष्ठसंहितायां गायत्रीस्तोत्रं संपूर्णम्॥
You must log in to post a comment.