१२. श्रीकालटिक्षॆत्रॆ श्रीशारदादशकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)
करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करॊम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १ ॥
गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तॆर्निश्चलतां पाणिपङ्कजॆ धत्सॆ ॥ २ ॥
विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तॆषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३ ॥
गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रॆभ्यः ।
यतिनाथसॆवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४ ॥
जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलॆन्दीवरनयनां बालॆन्दुकचां नमामि विधिजायाम् ॥ ५ ॥
भारॊ भारति न स्याद्वसुधायास्तद्वदंब कुरु शीघ्रम् ।
नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशॆ ॥ ६ ॥
निकटॆवसन्तमनिशं पक्षिणमपि पालयामि करतॊऽहं ।
किमु भक्तियुक्तलॊकानिति बॊधार्थं करॆ शुकं धत्सॆ ॥ ७ ॥
शृङ्गाद्रिस्थितजनतामनॆकरॊगैरुपद्रुतां वाणि ।
विनिवार्य सकलरॊगान्पालय करुणार्द्रदृष्टिपातॆन ॥ ८ ॥
मद्विरहादतिभीतान्मदॆकशरणानतीव दुःखार्तान् ।
मयि यदि करुणा तव भॊ पालय शृङ्गाद्रिवासिनॊ लॊकान् ॥ ९ ॥
सदनमहॆतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् ।
मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलयॆ ॥ १० ॥