HYMNS TO SHIVA – SANKARASHTAKAM ( BY BRAHMANANDA)

शंकराष्टकम्
          
(श्री ब्रह्मानन्दविरचितम्)
शीर्षजटागणभारं गरलाहारं
समस्तसंहारं ।
कैलासाद्रिविहारं पारं
भववारिधेरहं वन्दे ॥ १ ॥
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालं
कृतनरमस्तकमालं कालं
कालस्य मोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं
नगेन्द्रजावामं ।
संसृतिशोकविरामं श्यामं कण्ठेन
कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं
महाद्भुतत्यागं ।
विगतविषयरसरागं भागं
यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं
सदैवसंशान्तम् ।
लीलाविजितकृतान्तं भान्तं
स्वान्तेषु देहिनां वन्दे ॥ ५ ॥
सुरसरिदाप्लुतकेशं
त्रिदशकुलेशं हृदयालयावेशम् ।
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥ ६
करतलकलितपिनाकं विगतजराकं
सुकर्मणां पाकम् ।
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे
॥ ७ ॥
भूतिविभूषितकायं दुस्तरमायं
विवर्जितापायम् ।
प्रमथसमूहसहायं सायं
प्रातर्निरन्तरं वन्दे ॥ ८
यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन
निर्मितं नित्यम् ।

पठति समाहितचेताः प्राप्नोत्यन्ते
स शैवमेवपदम् ॥
९ ॥            

       ***

HYMNS TO SHIVA – APARADHASHTAKAM ( FROM HALASYA MAHATMYAM)

अपराधाष्टकम्
      (हालास्यमाहात्म्यान्तर्गतम्)
परिपूर्ण परानन्द
परचित् सत्यविग्रह ।
सुन्दरेश्वर सर्वज्ञ त्राहि मामपराधिनम्
॥ १ ॥
फालाक्षिजातज्वलनलेलिहानमनोभव ।
जीवन्मुक्तिपुरीनाथ त्राहि
मामपराधिनम् ॥ २ ॥
पारिजातगुणातीतपादपङ्कजवैभव ।
कदंबकाननाध्यक्ष त्राहि
मामपराधिनम् ॥ ३ ॥
भक्तप्रार्थितसर्वार्थकामधेनो पुरान्तक ।
करुणावरुणावास त्राहि
मामपराधिनम् ॥ ४ ॥
कैवल्यदाननिरत कालकूटभयापह
कन्यकानगरीनाथ त्राहि
मामपराधिनम् ॥ ५ ॥
कमलापतिवागीशशचीशप्रमुखामरैः ।
परिपूजितपादाब्ज त्राहि
मामपराधिनम् ॥ ६ ॥
पञ्चास्यपन्नगाकार परानन्दप्रदायक ।
पर्वताधीशजामतः त्राहि
मामपराधिनम् ॥ ७ ॥
परात्पर पदांभोजपरिध्यानरतात्मनां ।
काङ्क्षितार्थप्रद स्वामिन्
त्राहि मामपराधिनम् ॥
८ ॥
सुन्दरेश्वर सर्वेश स्मरसौभाग्यसिद्धिद ।
श्रीमन् सुन्दरपाण्ड्येश त्राहि मामपराधिनम्
॥ ९ ॥
अपराधाष्टकस्तोत्रं यः पठेत्तव सन्निधौ ।
तस्यानन्तापराधं च
क्षमस्व करुणाम्बुधे ॥ १०

HYMNS TO SHIVA – SIVA STOTRAM (AGASTYA KRITAM)

शिवस्तोत्रम्
   
(अगस्त्यकृतम्)
अद्य मे सफलं जन्म
चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं
शंभो
त्वत्पाददर्शनात् ॥ १
कृतार्थोऽहं कृतार्थोऽहं
कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात्
भक्तवत्सल ॥ २ ॥
शिवः शंभुः
शिवः शंभुः शिवः शंभुः
शिवः शिवः ।
इति व्याहरतो
नित्यं दिनान्यायान्तु यान्तु
मे ॥
३ ॥
शिवे भक्तिः शिवे
भक्तिः शिवे भक्तिर्भिवे भवे ।
सदा भूयात्
सदा भूयात् सदा भूयात्
सुनिश्चला ॥ ४ ॥
वयं धन्या
वयं धन्या वयं धन्या
जगत्त्रये ।
आदिदेवो महादेवो यदस्मत् कुलदैवतम्
॥ ५ ॥
हर शंभो
महादेव विश्वेशामरवत्सल ।
शिवशंकर सर्वात्मन्
नीलकण्ठ नमोऽस्तु ते
॥ ६ ॥
               ***

 

HYMNS TO SHIVA – PRADOSHA STOTRAM

प्रदोषस्तोत्रम्
   
(स्कान्दपुराणान्तर्गतम्)
सत्यं ब्रवीमि
परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १
ये नार्चयन्ति गिरिशं
समये
प्रदोषे
ये नार्चितं शिवमपि
प्रणमन्ति चान्ये ।
ये तत्कथां श्रुतिपुटैः
न पिबन्ति मूढाः
ते जन्मजन्मसु भवन्ति
नराः दरिद्राः ॥
२ ॥
ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोऽङ्घ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसंपदधिकास्त इहैव
लोके ॥
३ ॥
कैलासशैलभवने त्रिजगज्जनित्रीम्
गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोष समये नु भजन्ति
सर्वे ॥ ४ ॥
वाग्देवी
धृतवल्लकी शतमखो वेणुं दधत्
पद्मजः
तालोन्निद्रकरा रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदङ्गवादनपटुः देवाः समन्तात् स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्
॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्य-
विद्याधरामरवराप्सरसां गणाश्च
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः
प्राप्ते प्रदोषसमये
हरपार्श्वसंस्थाः ॥ ६
अतः प्रदोषे शिव एक एव
पूज्योऽथ
नान्ये हरिपद्मजाद्याः ।
तस्मिन् महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः
॥ ७ ॥

         ***

HYMNS TO SHIVA – SIVARAKSHA STOTRAM (YAGNAVALKYA KRITAM)

शिवरक्षास्तोत्रम्
         
(याज्ञवल्क्यकृतम्)
 
चरितं देवदेवस्य
महादेवस्य पावनम् ।
अपारं परमोदारं
चतुर्वर्गस्यसाधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं
त्रिनेत्रकम् ।
शिवं ध्यात्वा
दशभुजं शिवरक्षांपठेन्नरः ॥
२ ॥
गंगाधरः शिरः
पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी
कर्णौ सर्पविभूषणः ॥
३ ॥
घ्राणं पातु
पुरारातिः मुखं पातु जगत्पतिः
जिह्वां वागीश्वरः
पातु कन्धरं शितिकन्धरः ॥
४ ॥
श्रीकण्ठः पातु
मे कण्ठं स्कन्धौ विश्वधुरन्धरः
भुजौ भूभारसंहर्ता
करौ पातु पिनाकधृक् ॥
५ ॥
हृदयं शंकरः
पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः
पातु कटिं व्याघ्राजिनाम्बरः ॥
६ ॥
सक्थिनी पातु
दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः
पातु जानुनी जगदीश्वरः ॥
७ ॥
जङ्घे पातु
जगत्कर्ता गुल्फौ पातु गणाधिपः
चरणौ करुणासिन्धुः
सर्वांगानि सदाशिवः ॥ ८
एतां शिवबलोपेतां
रक्षां यः सुकृती पठेत्
स भुक्त्वा
सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥
९ ॥
ग्रहभूतपिशाचाद्याः त्रैलोक्ये
विचरन्ति ये ।
दूरादाशु पलायन्ते
शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं
पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११ ॥                ***

HYMNS TO SHIVA – SIVAJAYAJAYAKARA DHYANA STOTRAM

शिवजयजयकारध्यानस्तोत्रम्
 
स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ १ ॥
गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ २ ॥
बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ३ ॥
पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥४ ॥
मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ५ ॥
सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ६ ॥
लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ७ ॥
सच्चिद्घनसुखसार लीलापीतमहागर
शिव शंकर
शिव शंकर जय कैलासपते
॥ ८ ॥
गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर
शिव शंकर जय कैलासपते
॥ ९ ॥

                ***

  

HYMNS TO SHIVA – SRI PARVATIPARAMESHWARA DHYANAM

श्री पर्वतीपरमेश्वरध्यानम्
ध्यायेन्निरामयं
वस्तु
सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं
नित्यं मनोवाचामगोचरम् ॥
१ ॥
गंगाधरं शशिधरं
जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥ २ ॥
लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं
मुक्ताहारोपशोभितम् ॥ ३
अक्षमालां सुधाकुम्भं
चिन्मयीं मुद्रिकामपि ।
पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम्
॥ ४ ॥
श्वेताम्बरधरं श्वेतं
रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥ ५ ॥
वामाङ्क्व् संस्थितां
गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥
६ ॥
सुवर्णरत्नखचितमकुटेन विराजितां
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥
७ ॥
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥ ८ ॥
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम्  ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥ ९ ॥
स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां  ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥ १ ०
कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां
भक्तत्राणपरायणाम् ॥ ११
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं  ।
सनातनं परं
ब्रह्म परमात्मानमव्ययम् ॥
१२ ॥
सदा ध्यायामि
जगतामीश्वरं परमेश्वरम् ।

 

HYMNS TO SHIVA – PASUPATYASHTAKAM (BY PRITHIVIPATI SURI)

पशुपत्यष्टकम्

(श्री पृथिवीपतिसूरिविरचितम्)

 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥

पशुपतिं द्युपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं

परं
भजत रे मनुजा गिरिजापतिम् ॥ २ ॥

न जनको जननी न च सोदरो
न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम् ।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम् ।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥

मखविनाशकरं शशिशेखरं
सततमध्वरभाजिफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥

मदमपास्य चिरं हृदिसंस्थितं
मरणजन्मजराभयपीडनम् ।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥

हरिविरिञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं
भजत रे मनुजा गिरिजापतिम् ॥ ९ ॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा ।
पठति संशृणुते मनुजः सदा
शिवपुरीं वसते लभते मुदम् ॥ १० ॥

 
Click here for Ramachandra’s English Translation of this stotra.
॥ इस स्तोत्र का हिन्दी अनुवाद पढें ॥

HYMNS TO SHIVA – SRI DAKSHINAMURTHY STOTRAM

३२ . श्री
दक्षिणामूर्तिस्तोत्रम्

   (श्री शंकराचार्यविरचितम्)
उपासकानां
यदुपासनीयं
उपात्तवासं
वटशाखिमूले ।
तद्धाम
दाक्षिण्यजुषा स्वमूर्त्या
जागर्त्तु
चित्ते मम बोधरूपम् ॥ १ ॥
अद्राक्षमक्षीणदयानिधानं
आचार्यमाद्यं
वटमूलभागे ।
मौनेन
मन्दस्मितभूषितेन
महर्षिलोकस्य
तमो नुदन्तम् ॥ २ ॥
विद्राविताशेषतमोगुणेन
मुद्राविशेषेण
मुहुर्मुनीनाम् ।
निरस्यमायां
दयया विधत्ते
देवो
महांस्तत्वमसीतिबोधम् ॥ ३ ॥
अपारकारुण्यसुधातरङ्गैः
अपाङ्गपातैरवलोकयन्तम्
कठोरसंसारनिदाघतप्तान्
मुनीनहं
नौमि गुरुं गुरूणाम् ॥ ४ ॥
ममाद्य
देवो वटमूलवासी
कृपाविशेषात्
कृतसन्निधानः ।
ओंकाररूपामुपदिश्य
विद्याम्
आविद्यकध्वान्तमपाकरोतु
॥ ५ ॥
कलाभिरिन्दोरिवकल्पिताङ्गं
मुक्ताकलापैरिव
बद्धमूर्तिम् ।
आलोकये
देशिकमप्रमेयं
अनाद्यविद्यातिमिरप्रभातम्
॥ ६ ॥
स्वदक्षजानुस्थितवामपादं
पादोदरालङ्कृतयोगपट्टम्
अपस्मृतेराहितपादमङ्गे
प्रणौमि
देवं प्रणिधानवन्तम् ॥ ७ ॥
तत्वार्थमन्तेवसतामृषीणां
युवाऽपि
यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि
तं प्राक्तनपुण्यजालैः
आचार्यमाश्चर्यगुणाधिवासम्
॥ ८ ॥
एकेन
मुद्रां परशुं करेण
करेण
चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः
पुरस्तात्
आचार्यचूडामणिराविरस्तु
॥ ९ ॥
आलेपवन्तं
मदनाङ्गभूत्या
शार्दूलकृत्त्या
परिधानवन्तम् ।
आलोकये
कञ्चन देशिकेन्द्रं
अज्ञानवाराकरबाडवाग्निम्
॥ १० ॥
चारुस्मितं
सोमकलावतंसं
वीणाधरं
व्यक्तजटाकलापम् ।
उपासते
केचन योगिनस्त्वां
उपात्तनादानुभवप्रमोदम्
॥ ११ ॥
उपासते
यं मुनयः शुकाद्याः
निराशिषो
निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं
महेशं
उपास्महे
मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या
निन्दितकुन्दकन्दलवपुः न्यग्रोधमूले वसन्
कारुण्यामृतवारिभिर्मुनिजनान्
संभावयन् वीक्षितैः ।
मोहध्वान्तविभेदनं
विरचयन् बोधेन तत्तादृशा
देवस्तत्वमसीति
बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरगात्रैरललाटनेत्रैः
अशान्तवेषैरभुजंगभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैः
अपूरकामैरमरैरलं नः ॥ १४ ॥
दैवतानि
कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीक्षितं
जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम ॥ १५ ॥
मुदिताय
मुग्द्धशशिनाऽवतंसिने
भसितावलेपरमणीयमूर्तये
जगदिन्द्रजालरचनापटीयसे
महसे
नमोऽस्तु वटमूलवासिने ॥ १६ ॥
        
व्यालंबिनीभिः
परितो जटाभिः
कलावशेषेण
कलाधरेण ।
स्फुरल्ललाटेन
मुखेन्दुना च
प्रकाशसे
चेतसि निर्मलानाम् ॥ १७ ॥
उपासकानां
त्वमुमासहायः
पूर्णेन्दुभावं
प्रकटीकरोषि ।
यदद्य
ते दर्शनमात्रतो मे
द्रवत्यहो
मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते
प्रसन्नामनुसंदधानो
मूर्तिं
मुदा मुग्द्धशशाङ्कमौलेः ।
एश्वर्यमायुर्लभते
च विद्यां
अन्ते
च वेदान्तमहारहस्यम् ॥ १९ ॥
        ***

  

HYMNS TO SHIVA – DAKSHINAMURTHY STOTRAM

३१.दक्षिणामूर्तिस्तोत्रम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम्
आताम्रकोमलजटाघटितेन्दुरेखं
आलोकये वटतटीनिलयं दयालुम्
॥ १ ॥
वटविटपिसमीपे भूमिभागेनिषण्णं
सकलमुनिजनानां ज्ञानदातारमारात्
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि
॥ २ ॥
चित्रं वटतरोर्मूले वृद्धाः
शिष्याः गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु
छिन्नसंशयाः ॥ ३ ॥
सुनिर्मलज्ञानसुखैकरूपं प्रज्ञानहेतुं
परमार्थदायिनम् ।
चिदंबुधौ तं विहरन्तमाद्यं
आनन्दमूर्तिं गुरुराजमीडे ॥ ४ ॥
ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये
निर्मलाय प्रशान्ताय दक्षिणामूर्तये
नमः ॥ ५ ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्
निधये सर्वविद्यानां दक्षिणामूर्तये
नमः ॥ ६ ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया
चक्षुरुन्मीलितं येन तस्मै
श्री गुरवे नमः ॥ ७ ॥
अंगुष्ठतर्जनीयोगमुद्राव्याजेन
देहिनाम् ।
श्रुत्यर्थं ब्रह्मजीवैक्यं
बोधयन् नोऽवताच्छिवः ॥ ८ ॥
मुद्रापुस्तकवह्निनागविलसद्
बाहुं प्रसन्नाननं
मुक्ताहारविभूषितं शशिकलाभास्वज्जटामण्डलम्
अज्ञानापहमादिमादिमगिरामर्थं
भवानीपतिं
न्यग्रोधान्तनिवासिनं परगुरुं
ध्यायाम्यभीष्टाप्तये ॥ ९ ॥
                ***