HYMNS TO SARASWATI -VAGVADINEE SHATKAM

         १०. श्रीवाग्वादिनीषट्कम्
     (श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वरदाप्यहॆतुकरुणाजन्मावनिरपि पयॊजभवजायॆ ।
किं कुरुषॆ न कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १ ॥
किं वा ममास्ति महती पापततिस्तत्प्रभॆदनॆ तरसा ।
किं वा न तॆऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २ ॥
किं जीवः परमशिवाद्भिन्नॊऽभिन्नॊऽथ भॆदश्च ।
औपाधिकः स्वतॊ वा वद वदवाग्वादिनि स्वाहा ॥ ३ ॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४ ॥
ज्ञानं कर्म च मिलितं हॆतुर्मॊक्षॆऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवॆद्वद वदवाग्वादिनि स्वाहा ॥ ५ ॥
ज्ञानं विचारसाध्यं किं वा यॊगॆन कर्मसाहस्रैः ।
कीदृक्सॊऽपि विचारॊ वद वद वाग्वादिनि स्वाहा ॥ ६ ॥

                   ***


HYMNS TO SARASWATI- SRI VAGDEVI STAVAM

            ९. श्रीवाग्दॆवीस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
वादॆ शक्तिप्रदात्री प्रणतजनततॆः सन्ततं सत्सभायां
प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वॆव वक्तुम् ।
वागीशाद्यैः सुराग्र्‌यैर्विविधफलकृतॆ सन्ततं पूज्यमाना
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ १ ॥
व्याख्यामुद्राक्षमालाकलशसुलिखितैः राजदंभॊजपाणिः
काव्यालंकारमुख्यॆष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् ।
मूकॆभ्यॊऽप्यार्द्रचित्ता दिशति करुणया या जवात्साकृपाब्धिः
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ २ ॥
जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वाऽऽगमानां
शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः ।
कारुण्यापारवारांनिधिरगतनयासिन्धुकन्याभिवाद्या
वाग्दॆवी वाञ्छितं मॆ वितरतु तरसा शृङ्गभूभृन्निवासा ॥ ३ ॥

HYMNS TO SARASWATI – SARASWATI STOTRAM ( PADMA PURANA)

सरस्वतीस्तोत्र
           
(पाद्मपुराणांतर्गतं)
सरस्वतीं नमस्यामि
चेतनानां हृदिस्थितां ।
कण्ठस्थां पद्मयोनेस्तु
हिमाकरप्रियास्पदाम् ॥ १
मतिदां वरदां
शुद्धां वीणाहस्तवरप्रदां ।
ऐं ऐं
मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥
सुप्रकाशां निरालम्बां
अज्ञानतिमिरापहाम् ।
शुक्लां मोक्षप्रदां
रम्यां शुभाङ्गां शोभनप्रदाम्
॥ ३ ॥
पद्मोपविष्टां कुण्डलिनीं
शुक्लवर्णां मनोरमाम् ।
आदित्यमण्डले लीनां
प्रणमामि हरिप्रियाम् ॥
४ ॥
इति मासं
स्तुतानेन  वागीशेन
महात्मना ।
आत्मानं दर्शयामास
शरदिन्दुसमप्रभाम् ॥ ५
              सरस्वत्युवाच
वरं वृणीष्व
भद्रं ते यत्ते मनसि
वर्तते ।
               ब्रुहस्पतिः
वरदा यदि
मे देवि सम्यग्ज्ञानं प्रयच्छ
मे ॥ ६ ॥

            

HYMNS TO SARASWATI – SRI MATRU PADAPANKAJA ASHTAKAM

श्रीमातृपदपङ्कजाष्टकम्
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)         
मातस्त्वत्पदपङ्कजं कलयतां चेतोऽम्बुजे संततं
मानाथांबुजसंभवाद्रितनयाकान्तैः समाराधितम्
वाञ्छापूरणनिर्जितामरमहीरुग्गर्वसर्वस्वकं
वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥
१ ॥
मातस्त्वत्पदपङ्कजं मुनिमनः
कासारवासादरं
मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
द्वन्देऽमन्दतपःफलाप्यनमनःस्तोत्रार्चनाप्रक्रमम् ॥
२ ॥
मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारांनिधे
राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
बृन्दं प्राणभृतां
स्वनामवदतामत्यादरात्सत्वरं
षड्भाषासरिदीश्वरं प्रविदधत्षाण्मातुरार्च्यं भजे ॥ ३
कामं फालतले दुरक्षरततिर्दैवीममास्तां न भीः
मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि
तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवा-
त्कालं
तद्वदहं चतुर्मुखमुखांभोजातसूर्यप्रभे ॥ ४ ॥
पापानि प्रशमं
नयाशु ममतां देहेन्द्रियप्राणगां
कामादीनपिवैरिणो दृढतरान्
मोक्षाध्वविघ्नप्रदान् ।
स्निग्धान्पोषय सन्ततं
शमदमध्यानादिमान्मोदतो
मातस्त्वत्पदपङ्कजं ह्रुदि
सदा कुर्वे गिरां देवते
॥ ५ ॥
मतस्त्वत्पदपङ्कजस्य मनसा
वाचा क्रियातोऽपि वा
ये कुर्वन्ति
मुदान्वहं बहुविधैर्दिव्यैर्सुमैरर्चनां ।
शीघ्रं ते
प्रभवन्ति भूमिपतयो निन्दन्ति
च स्वश्रिया
जंभारातिमपि ध्रुवं
शतमखीकष्टाप्तनाकश्रियं ॥ ६
मातस्त्वत्पदपङ्कजं शिरसि
ये पद्माटवीमध्यत-
श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्वहम् ।
ते मृत्युं
प्रविजित्य रोगरहिताः संयग्दृढाङ्गाश्चिरं
जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि ॥
७ ॥
मातस्त्वत्पदपङ्कजं हृदि
मुदा ध्यायन्ति ये
मानवाः
सच्चिद्रूपमशेषवेदशिरसांतात्पर्यगम्यं मुहुः
अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा
सर्वं विश्वमिदं
विनाशि तरसा पश्यन्ति
ते पूरुषाः
॥ ८ ॥

                 ***

HYMNS TO SARASWATI – SRI VANEE SHARANAGATI STOTRAM

श्रीवाणीशरणागतिस्तोत्रम्
वेणीं सितेतरसमीरणभोजितुल्यां
वाणीं च
केकिकुलगर्वहरां वहन्तीम् ।
श्रोणीं गिरिस्मयविभेदचणां दधानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ १ ॥
वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-
द्वाताहताब्धिलहरीमदहारदक्षाः ।
वादेषु यत्करुणया
प्रगलन्ति तां त्वां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ २ ॥
राकाशशाङ्कसदृशाननपङ्कजातां
शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ३ ॥
बालोडुपप्रविलसत्कचमध्यभागां
नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।
कालोन्मिषत्किसलयारुणपादपद्मां
वाणीमनन्यशरणः शरणं
प्रपद्ये ॥ ४ ॥
         
***

Click here for this hymn in Kannada Lipi

HYMNS TO SARASWATI – SRI SHARADA MAHIMA STAVAM

५. श्रीशारदामहिमस्तवः
(श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्)             
शृंगाद्रिवासाय विधिप्रियाय
कारुण्यवारांनिधये नताय ।
विज्ञानदायाखिलभोगदाय
श्री शारदाख्याय नमो महिम्ने ॥ १ ॥
तुंगातटावासकृतादराय
भृङ्गालिविद्वेषिकचोज्ज्वलाय ।
अङ्गाधरीभूत मनोज्ञहेम्ने
शृंगारसीम्नेऽस्तु नमो महिम्ने ॥ २ ॥
वीणालसत्पाणिसरोरुहाय
शोणाधरायाखिलभाग्यदाय ।
काणादशास्त्रप्रमुखेषु चण्ड-
प्रज्ञाप्रदायास्तु नमो महिम्ने॥ ३ ॥

चन्द्रप्रभायेशसहोदराय
चंद्रार्भकालंकृतमस्तकाय ।
इन्द्रादिदेवोत्तमपूजिताय
कारुण्यसान्द्राय नमो महिम्ने ॥ ४ ॥

HYMNS TO SARASWATI -SRI SHARADA BHUJANGA STOTRAM

श्रीशारदाभुजंगस्तोत्रं
   
(श्री शंकराचार्यकृतं)
          
सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलंबाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
१ ॥
कटाक्षे दयार्द्रां
करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः
सुभद्राम् ।
पुरस्त्रीं विनिद्रां
पुरस्तुङ्गभद्रां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
२ ॥
ललामाङ्कफालां लसत्गानलोलां
स्वभक्तैकपालां यशः
श्री कपोलाम् ।
करेत्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
३ ॥
सुसीमन्तवेणीं दृशानिर्जितैणीं
रमत् कीरवाणीं
नमत् वज्रपाणीम् ।
सुधामन्थरास्यां मुदा
चिन्त्यवेणीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
४ ॥
सुशान्तां सुदेहां
दृगन्ते कचान्तां
लसत् सल्लताङ्गीं
अनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
५ ॥
कुरंगे तुरंगे
मृगेन्द्रे खदेन्द्रे
मराले मदेभे
महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां
सदा सामरूपां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
६ ॥
ज्वलत् कान्ति
वह्निं जगन्मोहनाङ्गीं
भजे मानसांभोजसुभ्रांतभृंगीम् ।
निजस्तोत्रसंगीतनृत्यप्रभांगीं
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
७ ॥
भवांभोजनेत्राजसंपूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चंचलोदारताटङ्ककर्णां
भजे शारदाम्बां
अजस्रं मदम्बाम् ॥
८ ॥
   
         ***

HYMNS TO SARASWATI – NEELASARASWATI STOTRAM

नीलसरस्वतीस्तोत्रम्
घोररूपे महारावे
सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे
देवि त्राहि मां शरणागतम्
॥ १ ॥
सुरासुरार्चिते देवि
सिद्धगन्धर्व सेविते ।
जाड्यपापहरे देवि
त्राहि मां शरणागतम् ॥
२ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि ।
द्रुतबुद्धिकरे देवि
त्राहि मां शरणागतम् ॥
३ ॥
सौम्यक्रोधधरे रूपे
चण्डरूपे नमोऽस्तुते ।
सृष्टिरूपे नमस्तुभ्यं
त्राहि मां शरणागतम् ॥
४ ॥
जडानां जडतां
हन्ति भक्तानां भक्तवत्सला
मूढतां हर
मे देवि त्राहि मां
शरणागतम् ॥ ५ ॥
वं ह्रं
ह्रुं कामये देवि बलिहोमप्रिये
नमः ।
उग्रतारे नमो
नित्यं त्राहि मां शरणागतम्
॥ ६ ॥
बुद्धिं देहि
यशो देहि कवित्वं देहि
देहि मे ।
मूढत्वं च
हरेर्देवि त्राहि मां शरणागतम्
॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्
॥ ८ ॥
इदं स्तोत्रं
पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः
क्षयं याति महाप्रज्ञा प्रजायते
॥ ९ ॥

HYMNS TO SARASWATI – SRI SHARADA STOTRAM

श्रीशारदास्तोत्रम्
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदाऽस्माकं
सन्निधिं सन्निधिं क्रियात्
॥ १ ॥
सुरासुरासेवितपादपङ्कजा
करेविराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु
वाचि मे सदा ॥
२ ॥
माणिक्यवीणामुपलालयन्तीं
मदालसां मंजुळ
वाग्विलासाम् ।
माहेन्द्र नीलद्युतिकोमलांगीं
मातङ्गकन्यां मनसा
स्मरामि ॥ ३ ॥
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लांबरा
मल्लिका-
मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभिता ।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे
वसतु मे त्रैलोक्यमाता शुभा
॥ ४ ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा पूजिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ ५ ॥
दोर्भिर्युक्ताश्चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं
सितमपि च शुकं पुस्तकं
चापरेण ।
भासा कुन्देन्दुशंखस्फटिकमणिनिभा भासमानाऽसमाना
सा मे
वाग्देवतेयं निवसतु वदने सर्वदा
सुप्रसन्ना ॥ ६ ॥

          ***

HYMNS TO SARASWATI – SARASWATI STOTRAM

श्रीसरस्वतीस्तोत्रम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिः देवैस्सदा वन्दिता
सा मां
पातु सरस्वती भगवती निःशेष
जाड्यापहा ॥ १ ॥
आशासुराशीभवदङ्गवल्ली भासैवदासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ॥ २
शारदा शारदांभोजवदना
वदनाम्बुजे ।
सर्वदा सर्वदास्माकं
सन्निधिं सन्निधिं क्रियात्
॥ ३ ॥
सरस्वतीं च
तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते
यदनुग्रहतो जनाः ॥ ४
पातु
नो निकषग्रावा
मतिहेम्नः सरस्वती ।
प्राज्ञेतरपरिच्छॆदं वचसैव
करोति या ॥ ५
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने
संस्थितां
वन्दे तां
परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्
॥ ६ ॥
वीणाधरे विपुलमंगलदानशीलो
भक्तार्तिनाशिनि विरिञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ७
श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमंजुलास्ये
विद्याप्रदायिनि सरस्वति
नौमि नित्यम् ॥ ८
मातस्त्वदीयपदपङ्कजभक्तियुक्ताः
ये त्वां
भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह
यान्ति कलेवरेण
भूवह्निवायुगगनाम्बु विनिर्मितेन
॥ ९ ॥
मोहान्धकारभरिते
हृदये
मदीये
मातः सदैव
कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभिः
शीघ्रं विनाशय
मनोगतमन्धकारम् ॥ १० ॥
ब्रह्मा जगत्सृजति
पालयतीन्दिरेशः
शंभुर्विनाशयति देवि
तव प्रभावैः ।
न स्यात्
कृपा यदि तव प्रकटप्रभावे
न स्युः
कथञ्चिदपि ते निजकार्यदक्षाः ॥
११ ॥
लक्ष्मीर्मेधा धरा
पुष्टिर्गौरी तुष्टिः प्रभा धृतिः
एताभिः पाहि
तनुभिरष्टाभिर्मां सरस्वति ॥
१२ ॥
सरस्वत्यै नमो
नित्यं भद्रकाल्यै नमो
नमः ।
वेदवेदान्तवेदाङ्ग विद्यास्थानेभ्य एव च ॥
१३ ॥
सरस्वति महाभागे
विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि
विद्यां देहि नमोऽस्तु ते
॥ १४ ॥
यदक्षरं पदं
भ्रष्टं मात्राहीनं च
यद्भवेत् ।
तत्सर्वं क्षम्यतां
देवि प्रसीद परमेश्वरि ॥
१५ ॥