HYMNS TO SHIVA – SIVA STOTRAM ( BY SWAMI VIVEKANANDA)

शिवस्तोत्रम्

( स्वामिविवेकानन्दकृतम् )

 

निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ १ ॥

निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥ २ ॥

वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ ३ ॥

जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥ ४ ॥

गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥ ५ ॥

दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥ ६ ॥

HYMNS TO GANESHA – SHRI GANAPATI SHODASHANAMA STOTRAM

६. श्रीगणपतिषोडशनामस्तोत्रम्

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ १ ॥
धूमकेतुर्गणाध्यक्षः फालचंद्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरंबः स्कंदपूर्वजः ॥ २ ॥
षोडशैतानि नामानि यः पठेत् शृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे सर्वकार्ये च विघ्नस्तस्य न जायते ॥ ३ ॥