HYMNS TO SRIRAM – SRI SITARAMASTOTRAM

श्रीसीतारामस्तोत्रम्
अयोध्यापुरनेतारं मिथिलापुरनायिकाम्
रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम्
॥ १ ॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम्
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम्
॥ २ ॥
पुत्रं दशरथस्याद्यं पुत्रीं
जनकभूपतेः ।
वसिष्ठानुमताचारं शतानन्दमतानुगाम्
॥ ३ ॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां
स्वयम् ।
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम्
॥ ४ ॥
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम्
मत्तमातङ्गगमनं मत्तहंसवधूगताम्
॥ ५ ॥
चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम्
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम्
॥ ६ ॥
शरणागतगोप्तारं प्रणिपातप्रसादिकाम्  ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम्
॥ ७ ॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम्
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ
॥ ८ ॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती
इमौ युवां प्रणम्याहं भजाम्यद्य
कृतार्थताम् ॥ ९ ॥
अनेन स्तौति यः स्तुत्यं रामं
सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्संपदः
सकलार्थदाः ॥ १० ॥

         

HYMNS TO SRIRAM – SRI RAMA BHUJANGAPRAYATA STOTRAM

. श्रीरामभुजङ्गप्रयातस्तोत्रम्
    
(श्री शंकराचार्यकृतम्)
विशुद्धं परं सच्चिदानन्दरूपं
गुणाधारमाधारहीनं वरेण्यम्
महान्तं विभान्तं गुहान्तं
गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये
॥ १ ॥
शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकारशून्यं सुमान्यम्
महेशं कलेशं सुरेशं परेशम्
नरेशं निरीशं महीशं प्रपद्ये
॥ २ ॥
यदावर्णयत्कर्णमूलेऽन्तकाले
शिवो रामरामेति रामेति काश्याम्
तदेकं परं तारकब्रह्मरूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहं
॥ ३ ॥
महारत्नपीठे शुभे कल्पमूले
सुखासीनमादित्यकोटिप्रकाशम्
सदा जानकीलक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहं
॥ ४ ॥
क्वणद्रत्नमञ्जीरपादारविन्दं
लसन्मेखलाचारुपीताम्बराढ्यम्
महारत्नहारोल्लसत्कौस्तुभाङ्गं
नदच्चञ्चरीमन्ञ्जरीलोलमालम्
॥ ५ ॥
लसच्चन्द्रिकास्मेरशोणाधराभं
समुद्यत्पतङ्गेन्दुकोटिप्रकाशम्  ।
नमद्ब्रह्मरुद्रादिकोटीररत्न-
स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम्
॥ ६ ॥
पुरः प्राञ्जलीनाञ्जनेयादिभक्तान्
स्वचिन्मुद्रया भद्रया बोधयन्तम्
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न
मन्ये ॥ ७ ॥
यदा मत्समीपं कृतान्तः समेत्य
प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम्
तदाविष्करोषि त्व्दीयं स्वरूपं
सदापत्प्रणाशं सकोदण्डबाणम्
॥ ८ ॥
निजे मानसे मन्दिरे सन्निधेहि
प्रसीद प्रसीद प्रभो रामचन्द्र
ससौमित्रिणा कैकयीनन्दनेन
स्वशक्त्यानुभक्त्या च संसेव्यमान
॥ ९ ॥
स्वभक्ताग्रगण्यैः कपीशैर्महीशै-
रनीकैरनेकैश्च राम प्रसीद ।
नमस्ते नमोऽस्त्वीश राम प्रसीद
प्रशाधि प्रशाधि प्रकाशं प्रभो
माम् ॥ १० ॥
त्वमेवासि दैवं परं मे यदेकं
सुचैतन्यमेतत्त्वदन्यं न मन्ये
यतोऽभूदमेयं वियद्वायुतेजो-
जलोर्व्यादिकार्यं चरं चाचरं
च ॥ ११ ॥
नमः सच्चिदानन्दरूपाय तस्मै
नमो देवदेवाय रामाय तुभ्यम्
नमो जानकीजीवितेशाय तुभ्यं
नमः पुण्डरीकायताक्षाय तुभ्यम्
॥ १२ ॥
नमो भक्तियुक्तानुरक्ताय तुभ्यम्
नमः पुण्यपुञ्जैकलभ्याय तुभ्यम्
नमो वेदवेद्याय चाद्याय पुंसे
नमः सुन्दरायेन्दिरावल्लभाय
॥ १३ ॥
नमो विश्वकर्त्रे नमो विश्वहर्त्रे
नमो विश्वभोक्त्रे नमो विश्वमात्रे
नमो विश्वनेत्रे नमो विश्वजेत्रे
नमो विश्वपित्रे नमो विश्वमात्रे
॥ १४ ॥
नमस्ते नमस्ते समस्तप्रपञ्च-
प्रभोगप्रयोगप्रमाणप्रवीण ।
मदीयं मनः त्वत्पदद्वन्द्वसेवां
विधातुं प्रवृतं सुचैतन्यसिद्ध्यै
॥ १५ ॥
शिलापि त्वदङ्घ्रिक्षमासङ्गिरेणु-
प्रसादाद्धि चैतन्यमाधत्त राम
नरस्त्वत्पदद्वन्द्वसेवाविधाना-
त्सुचैतन्यमेतीति किं चित्रमत्र
॥ १६ ॥
पवित्रं चरित्रं विचित्रं त्वदीयं
नरा ये स्मरन्त्यन्वहं रामचन्द्र
भवन्तं भवान्तं भरन्तं भजन्तो
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते
॥ १७ ॥
स पुण्यः स गण्यः शरण्यो ममायं
नरो वेद यो देवचूडामणिं त्वाम्
सदाकारमेकं चिदानन्दरूपं
मनोवागगम्यं परं धाम राम ॥
१८ ॥
प्रचण्डप्रतापप्रभावाभिभूत-
प्रभूतारिवीर प्रभो रामचन्द्र
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
यतोऽखण्डि चण्डीशकोदण्डदण्डम्
॥ १९ ॥
दशग्रीवमुग्रं सपुत्रं समित्रं
सरिद्दुर्गमध्यस्थरक्षोगणेशम्
भवन्तं विना राम वीरो नरो वाऽ-
सुरो वामरो वा जयेत् कस्त्रिलोक्याम्
॥ २० ॥
सदा राम रामेति रामामृतं ते
सदा राममानन्दनिष्यन्दकन्दम्
पिबन्तं नमन्तं सुदन्तं हसन्तं
हनुमन्तमन्तर्भजे तं नितान्तम्
॥ २१ ॥
सदा राम रामेति रामामृतं ते
सदा राममानन्दनिष्यन्दकन्दम्
पिबन्नन्वहं नन्वहं नैव मृत्योर्-
बिभेमि प्रसादादसादात्तवैव
॥ २२ ॥
असीतासमेतैरकोदण्डभूषै-
रसौमित्रिवन्द्यैरचण्डप्रतापैः
अलङ्केशकालैरसुग्रीवमित्रै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२३ ॥
अवीरासनस्थैरचिन्मुद्रिकाढ्यै-
रभक्ताञ्जनेयादितत्वप्रकाशैः
अमन्दारमूलैरमन्दारमालै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२४ ॥
असिन्धुप्रकोपैरवन्द्यप्रतापै-
रबन्धुप्रयाणैरमन्दस्मिताढ्यैः
अदण्डप्रवासैरखण्डप्रबोधै-
ररामाभिधेयैरलं दैवतैर्नः ॥
२५ ॥
हरे राम सीतापते रावणारे
खरारे मुरारेऽसुरारे परेति
लपन्तं नयन्तं सदाकालमेवं
समालोकयालोकयाशेषबन्धो ॥ २६
नमस्ते सुमित्रासुपुत्राभिवन्द्य
नमस्ते सदा कैकयीनन्दनेड्य
नमस्ते सदा वानराधीशवन्द्य
नमस्ते नमस्ते सदा रामचन्द्र
॥ २७ ॥
प्रसीद प्रसीद प्रचण्डप्रताप
प्रसीद प्रसीद प्रचण्डारिकाल
प्रसीद प्रसीद प्रपन्नानुकंपिन्
प्रसीद प्रसीद प्रभो रामचन्द्र  ॥ २८ ॥
भुजन्ङ्गप्रयातं परं वेदसारं
मुदा रामचन्द्रस्य भक्त्या
च नित्यम् ।
पठन् सन्ततं चिन्तयन् स्वान्तरङ्गे
स एव स्वयं रामचन्द्रः स धन्यः
॥ २९ ॥

HYMNS TO SRIRAM – SRI RAGHAVASHTAKAM

श्रीराघवाष्टकम्
राम राम नमोऽस्तु ते जय रामभद्र
नमोऽस्तु ते
रामचन्द्र नमोऽस्तु ते जय राघवाय
नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज
नमोऽस्तु ते
वासुदेव नमोऽस्तु ते जय वीरराज
नमोऽस्तु ते ॥ १ ॥
राघवं करुणाकरं मुनिसेवितं
सुरवन्दितं
जानकीवदनारविन्ददिवाकरं गुणभाजनम्
वालिसूनुभृदीक्षणं हनुमत्प्रियं
कमलेक्षणं
यातुधानभयंकरं प्रणमामि राघवकुञ्जरम्
॥ २ ॥
मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
रावणानुजपालनं रघुपुङ्गवं मम
दैवतम् ।
मेदिनीतनयामुखाम्बुजबोधकारिदिवाकरं
सूर्यवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ३ ॥
हेमकुण्डलमण्डितामलगण्डदेशमरिन्दमं
शातकुंभमयूरनेत्रविभूषणेन विभूषितम्
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
भानुवंशविवर्द्धनं प्रणमामि
राघवकुञ्जरम् ॥ ४ ॥
दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं
शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम्
कुंभकर्णभुजाभुजङ्गविकर्तने
सुविशारदं
लक्ष्मणानुजवत्सलं प्रणमामि
राघवकुञ्जरम् ॥ ५ ॥
केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं
श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसं
देवदेवमशेषभूतमनोहरं जगतां
पतिं
दासभूतजनावनं प्रणमामि राघवकुञ्जरम्
॥ ६ ॥
यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
वेदपारगतैरहर्निशमादरेण सुपूजितं
ताटकावधधीरमङ्गदनाथवालिनिषूदनं
पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम्
॥ ७ ॥
लीलया खरदूषणादिनिशाचरासुविनाशिनं
रावणान्तकमच्युतं हरियूथकोटिसमावृतं
नीरजाननमम्बुजाङ्घ्रियुगं हरिं
भुवनाश्रयं
देवकार्यविचक्षणं प्रणमामि
राघवकुञ्जरम् ॥ ८ ॥
कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
चारुहासमनाथबन्धुमशेषलोकनिवासिनं
वासवादिसुरारिरावणशासनं च परां
गतिं
नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम्
॥ ९ ॥
राघवाष्टकमिष्टसिद्धिदमच्युतालयसाधकं
भुक्तिमुक्तिफलप्रदं धनधान्यपुत्रविवर्धनम्
रामचन्द्रकृपाकटाक्षदमादरेण
सदा पठेत्
रामचन्द्रपदाम्बुजद्वयसन्ततार्पितमानसः
॥ १० ॥
निगमसरसिरत्नं नित्यमासक्तरत्नं
निखिलसुकृतिरत्नं जानकीरूपरत्नम्
भुवनवलयरत्नं भूभृतामेकरत्नं

प्रकृतिसुलभरत्नं मैथिलीप्राणरत्नम्
॥ ११ ॥       

HYMNS TO SRIRAM – SRI RAMASHTAKAM (VYASA VIRACHITAM)

         श्रीरामाष्टकम्


        (श्री व्यासविरचितम्)
भजे विशेषसुन्दरं समस्तपापखण्डनम्
स्वभक्तचित्तरञ्जनं सदैव राममद्वयम्
॥ १ ॥
जटाकलापशोभितं समस्तपापनाशकं
स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम्
॥ २ ॥
निजस्वरूपबोधकं कृपाकरं भवापहम्
समं शिवं निरञ्जनं भजे ह राममद्वयम्
॥ ३ ॥
सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम्
निराकृतिं निरामयं भजे ह राममद्वयम्
॥ ४ ॥
निष्प्रपञ्चनिर्विकल्पनिर्मलं
निरामयम् ।
चिदेकरूपसन्ततं भजे ह राममद्वयम्
॥ ५ ॥
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम्
गुणाकरं कृपाकरं भजे ह राममद्वयम्
॥ ६ ॥
महावाक्यबोधकैर्विराजमानवाक्पदैः
परं ब्रह्मसद्व्यापकं भजे ह
राममद्वयम् ॥ ७ ॥
शिवप्रदं सुखप्रदं भवच्छिदं
भ्रमापहम् ।
विराजमानदेशिकं भजे ह राममद्वयम्
॥ ८ ॥
रामाष्टकं पठति यस्सुखदं सुपुण्यं
व्यासेन भाषितमिदं शृणुते मनुष्यः
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
संप्राप्य देहविलये लभते च
मोक्षम् ॥ ९ ॥

  

            ***

HYMNS TO SRIRAM – SRI RAMACHANDRASHTAKAM

           श्रीरामचन्द्राष्टकम्  
       
(श्री अमरदासकविकृतम्)
चिदाकारो धाता परमसुखदः पावनतनु-
र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता
सदा सेव्यः पूर्णो जनकतनयाङ्गः
सुरगुरुः
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ १ ॥
मुकुन्दो गोविन्दो जनकतनयालालितपदः
पदं प्राप्ता यस्याधमकुलभवा
चापि शबरी ।
गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ २ ॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः
किरीटी केयूरी कनककपिशः शोभितवपुः
समासीनः पीठे रविशतनिभे शान्तमनसो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ३ ॥
वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो
ललाटे काश्मीरो रुचिरगतिभङ्गः
शशिमुखः ।
नराकारो रामो यतिपतिनुतः संसृतिहरो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ४ ॥
विरूपाक्षः काश्यामुपदिशति
यन्नाम शिवदं
सहस्रं यन्नाम्नां पठति गिरिजा
प्रत्युषसि वै ।
स्वलोकेगायान्तीश्वरविधिमुखा
यस्य चरितं
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ५ ॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः
परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः
अहल्याशापघ्नः शरकर ऋजुः कौशिकसखो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ६ ॥
हृषीकेशः शौरिर्धरणिधरशायी
मधुरिपु-
रुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा
बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ७ ॥
कविः सौमित्रीड्यः कपटमृगधावी
वनचरो
रणश्लाघी दान्तो धरणिभरहर्ता
सुरनुतः ।
अमानी मानज्ञो निखिलजनपूज्यो
हृदिशयो
रमानाथो रामो रमतु मम चित्ते
तु सततम् ॥ ८ ॥
इदं रामस्तोत्रं वरममरदासेन
रचित-
मुषःकाले भक्त्या यदि पठति
यो भावसहितम् ।
मनुष्यः स क्षिप्रं जनिमृतिभयं
तापजनकं
परित्यज्य श्रेष्ठं रघुपतिपदं
याति विशदम् ॥ ९ ॥

             

              ***

HYMNS TO SRIRAM – SRI RAMA PREMASHTAKAM

          श्रीरामप्रेमाष्टकम्
         
(यामुनाचार्यकृतम्)
श्यामाम्बुदाभमरविन्दविशालनेत्रं
बन्धूकपुष्पसदृशाधरपाणिपादम्
सीतासहायमुदितं धृतचापबाणं
रामं नमामि शिरसा रमणीयवेषम्
॥ १ ॥
पटुजलधरधीरध्वानमादाय चापं
पवनदमनमेकं बाणमाकृष्य तूणात्
अभयवचनदायी सानुजः सर्वतो मे
रणहतदनुजेन्द्रो रामचन्द्रः
सहायः ॥ २ ॥
दशरथकुलदीपोऽमेयबाहुप्रतापो
दशवदनसकोपः क्षालिताशेषपापः
कृतसुररिपुतापो नन्दितानेकभूपो
विगततिमिरपङ्को रामचन्द्रः
सहायः ॥ ३ ॥
कुवलयदलनीलः कामितार्थप्रदो
मे
कृतमुनिजनरक्षो रक्षसामेकहन्ता
अपहृतदुरितोऽसौ नाममात्रेण
पुंसा-
मखिलसुरनृपेन्द्रो रामचन्द्रः
सहायः ॥ ४ ॥
असुरकुलकृशानुर्मानसाम्भोजभानुः
सुरनरनिकराणामग्रणीर्मे रघूणाम्
अगणितगुणसीमा नीलमेघौघधामा
शमदमितमुनीन्द्रो रामचन्द्रः
सहायः ॥ ५ ॥
कुशिकतनययागं रक्षिता लक्ष्मणाढ्यः
पवनशरनिकायक्षिप्तमारीचमायः
विदलितहरचापो मेदिनीनन्दनाया
नयनकुमुदचन्द्रो रामचन्द्रः
सहायः ॥ ६ ॥
पवनतनयहस्तन्यस्तपादाम्बुजात्मा
कलशभववचोभिः प्राप्तमाहेन्द्रधन्वा
अपरिमितशरौघैः पूर्णतूणीरधीरो
लघुनिहतकपीन्द्रो रामचन्द्रः
सहायः ॥ ७ ॥
कनकविमलकान्त्या सीतयालिङ्गिताङ्गो
मुनिमनुजवरेण्यः सर्ववागीशवन्द्यः
स्वजननिकरबन्धुर्लीलया बद्धसेतुः
सुरमनुजकपीन्द्रो रामचन्द्रः
सहायः ॥ ८ ॥
यामुनाचार्यकृतं दिव्यं रामाष्टकमिदं
शुभम् ।
यः पठेत् प्रयतो भूत्वा स श्रीरामान्तिकं
व्रजेत् ॥ ९ ॥

              

 ***

HYMNS TO SRIRAM – SRI RAMA MANGALASHASANAM

श्रीराममङ्गलाशासनम्  
       
(श्रीवरवरमुनिस्वामिकृतम् )
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये
चक्रवर्ति तनूजाय सार्वभौमाय
मङ्गलम् ॥ १ ॥
वेदवेदान्तवेद्याय मेघश्यामलरूपिणे
पुंसां मोहनरूपाय पुण्यश्लोकाय
मङ्गलम् ॥ २ ॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः
भाग्यानां परिपाकाय भव्यरूपाय
मङ्गलम् ॥ ३ ॥
पितृभक्ताय सततं भ्रातृभिः
सह सीतया ।
नन्दिताखिललोकाय रामभद्राय
मङ्गलम् ॥४ ॥
त्यक्तसाकेतवासाय चित्रकूटविहारिणे
सेव्याय सर्वयमिनां धीरोदात्ताय
मङ्गलम् ॥ ५ ॥
सौमित्रिणा च जानक्या चापबाणासिधारिणे
संसेव्याय सदा भक्त्या स्वामिने
मम मङ्गलम् ॥ ६ ॥
दण्डकारण्यवासाय खरदूषणशत्रवे
गृध्रराजाय भक्ताय मुक्तिदायास्तु
मङ्गलम् ॥ ७ ॥
सादरं शबरीदत्तफलमूलाभिलाषिणे
सौलभ्य परिपूर्णाय सत्त्वोद्रिक्ताय
मङ्गलम् ॥ ८ ॥
हनुमत्समवेताय हरीशाभीष्टदायिने
वालिप्रमथनायास्तु महाधीराय
मङ्गलम् ॥ ९ ॥
श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे
जितराक्षसराजाय रणधीराय मङ्गलम्
॥ १० ॥
विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने
सर्वलोकशरण्याय राघवायाऽस्तु
मङ्गलम् ॥ ११ ॥
असाद्य नगरीं रम्यां अभिषिक्ताय
सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम्
॥ १२ ॥
ब्रह्मादिदेवसेव्याय ब्रह्मण्याय
महात्मने ।
जानकीप्राणनाथाय रघुनाथाय मङ्गलम्
॥ १३ ॥
श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे
महते मम नाथाय रघुनाथाय मङ्गलम्
॥ १४ ॥
मङ्गलाशासनपरैः मदाचार्यपुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु
मङ्गलम् ॥ १५ ॥
रम्यजामातृमुनिना मङ्गलाशासनं
कृतम् ।
त्रैलोक्याधिपतिः श्रीमान्
करोतु मङ्गलं सदा ॥ १६ ॥
               ***

HYMNS TO SRIRAM – SRIRAMACHANDRA STUTI

श्रीरामचन्द्रस्तुतिः
        
(गोस्वामि तुलसीदासकृतम्)
नमामि भक्तवत्सलं कृपालुशीलकोमलं
भजामि ते पदाम्बुजं अकामिनां
स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम्
॥ १ ॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं
निषङ्गचापसायकं धरं त्रिलोकनायकम्
दिनेशवंशमण्डनं महेशचापखण्डनं
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम्
॥ २ ॥
मनोजवैरिवन्दितं अजादिदेवसेवितं
विशुद्धबोधविग्रहं समस्तदूषणापहम्
नमामि इन्दिरापतिं सुखाकरं
सतां गतिं
भजे सशक्तिसानुजं शचीपतिप्रियानुजम्
॥ ३ ॥
त्वदङ्घ्रिमूल ये नरा भजन्ति
हीनमत्सराः
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले
विविक्तवासिनः सदा भजन्ति मुक्तये
मुदा
निरस्य इन्द्रियादिकं प्रयान्ति
ते गतिं स्वकाम् ॥ ४ ॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं
विभुं
जगत्गुरुं च शाश्वतं तुरीयमेव
केवलम् ।
भजामि भाववल्लभं कुयोगिनां
सुदुर्लभं
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम्
॥ ५ ॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं
प्रसीद मे नमामि ते पदाब्जभक्ति
देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण
ते पदं
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम्
॥ ६ ॥
              ***

            

   ***

HYMNS TO SRIRAM – SRI SITARAMASHTAKAM

श्रीसीतारामाष्टकम्
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं
क्षीरसरित्पतितीरमुपेत्य नुतं
हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ १ ॥
पद्मदलायतलोचन हे रघुवंशविभूषण
देव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक
भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर
राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण
रत्नकिरीट
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले
कोटिरविप्रभ चारुचरित्रपवित्र
विचित्रधनुःशरपाणे ।
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ
दुःखनिधौ च चिरं पतितं कृपयाद्य
समुद्धर राम ततो माम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं
दण्डकरोन्मथितं च रजस्तम‌उन्मदमोहपदोज्झितमार्तम्
दीनमनन्यगतिं कृपणं शरणागतमाशु
विमोचय मूढम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
जन्मशतार्जितपापसमन्वितहृत्कमले
पतिते पशुकल्पे
हे रघुवीर महारणधीर दयां कुरु
मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम
तावदसि त्ववितापि कृपालो
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं
राम विहाय कमन्यमनामयमीश जनं
शरणं ननु यायाम् ।
त्वत्पदपद्ममतः श्रितमेव मुदा
खलु देव सदैव ससीत
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं
वै
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम्
॥ ९ ॥
                   ***

                                   

HYMNS TO RAMA – RAMASHTAKAM

रामाष्टकम्
कृतार्तदेववन्दनं दिनेशवंशनन्दनम्
सुशोभिभालचन्दनं नमामि राममीश्वरम्
॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्
महाधनुर्विदारकं नमामि राममीश्वरम्
॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्
करे सुचापधारिणं नमामि राममीश्वरम्
॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्
प्रविद्धकीशनायकं नमामि राममीश्वरम्
॥ ४ ॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्
॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्
॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्
कृतास्तमोहलक्षणं नमामि राममीश्वरम्
॥ ७ ॥
हृताखिलाचलाभरं स्वधामनीतनागरम्
जगत्तमोदिवाकरं नमामि राममीश्वरम्
॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्
पठन्निरन्तरं भयं भवोद्भवं
न विन्दते ॥ ९ ॥
             ***