श्रीकृष्णलहरीस्तोत्रम्

कदा बृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।
अहो कृष्ण स्वामिन् मधुरमुरली मोहन विभो
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ १ ॥

कदा कालिन्दीये हरिचरणमुद्राङ्किततटे
स्मरन् गोपीनाथं कमलनयनं सस्मितमुखम् ।
अहो कृष्णानन्दाम्बुजवदन भक्तैकसुलभ
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २ ॥

कदाचित् खेलन्तं व्रजपरिसरे गोपतनयैः
कथञ्चित् संप्राप्तं किमपि भजतं कञ्जनयनम् ।
अये राधे किल हरसि रसिके कञ्चुकयुगं
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ३ ॥

कदाचित् गोपीनां हसितचकितं स्निग्धनयनं
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् ।
सुराधीशैः सर्वैः स्तुतपदममुं श्रीहरिमिति
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ४ ॥

कदाचित् कालिन्द्यां तटतरुकदंबे स्थितममुं
स्मयन्तं साकूतं हृतवसनगोपीस्तनतटम् ।
अहो शक्रानन्दाम्बुजवदन गोवर्द्धनधर
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ५ ॥

कदाचित् कान्तारे विजयसखमिष्टं नृपसुतं
वदन्तं पार्थेन्द्रं नृपसुत सखे बन्धुरिति च ।
भ्रमन्तं विश्रान्तं श्रितमुरसि रम्यं हरिमहो
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ६ ॥
***

HYMNS TO KRISHNA – GOKULESHASHTAKAM

गोकुलेशाष्टकम्
नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभूरिभाग्यभाजनं भयापहम्
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ १ ॥
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम्
पद्मयोनिशंकरादिदेवबृन्दवन्दितं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ २ ॥
गोपराजरत्नराजिमन्दिरानुरिङ्गणं
गोपबालबालिकाकुलानुरुद्धगायिनम्
सुन्दरीमनोजभावभाजनाम्बुजाननं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ३ ॥
कंसकेशिकुञ्जरादि दुष्टदैत्यदारणं
इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम्
कामधेनुकारिताभिधानगानशोभितं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ४ ॥
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम्
धेनुधूलिधूसराङ्गशोभिहारनूपुरं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ५ ॥
वत्सधेनुगोपबालभीषणास्यवह्निपं
केकिपिञ्छकल्पितावतंसशोभिताननम्
वेणुनादमत्तघोषसुन्दरीमनोहरं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ६ ॥
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं
शारदारविन्दबृन्दशोभिहंसजागतम्
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ७ ॥
वासरावसानगोष्ठगामिगोगणानुगं
धेनुदोहदेहगेहमोहविस्मयक्रियम्
स्वीयगोकुलेशदानदत्तभक्तरक्षणं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ८ ॥
          
*** 

HYMNS TO KRISHNA – GOPIKA GEETAM (FROM SRIMADBHAGAVATAM)

 गोपिकागीतम्
    
(श्रीमद्भागवतान्तर्गतम्)
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि
दयित दृश्यतां दिक्षु तावकाः
त्वयि धृतासवः त्वां विचिन्वते
॥ १ ॥
शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्क दासिकाः ॥
२ ॥
वरद निघ्नतो नेह किं वधः
विषजलाप्ययात् व्यालराक्षसात्
वर्षमारुतात् वैद्युतानलात्
वृषमयात्मजात् विश्वतो भयात्
ऋषभ ते वयं रक्षिताः मुहुः
॥ ३ ॥
न खलु गोपिकानन्दनो भवान्
अखिल देहिनां अन्तरात्मदृक्
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान् सात्वतां कुले
॥ ४ ॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदम्
शिरसि धेहि नः श्रीकरग्रहम्
॥ ५ ॥
व्रजजनार्तिहन् वीर योषिताम्
निजजनस्मय ध्वंसनस्मित ।
भज सखे भवत् किङ्करीः स्म नो
जलरुहाननं चारु दर्शय ॥ ६ ॥
प्रणतदेहिनां पापकर्शनम्
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजम्
कृणु कुचेषु नः कृन्धि हृच्छयम्
॥ ७ ॥
मधुरया गिरा वल्गु वाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमाः वीर मुह्यतीः
अधरसीधुनाऽऽप्यायस्व नः ॥ ८
तव कथामृतं तप्तजीवनम्
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततम्
भुवि गृणन्ति ये भूरिदा जनाः
॥ ९ ॥
प्रहसितं प्रिय प्रेम वीक्षणम्
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृहः
कुहक नो मनः क्षोभयन्ति हि
॥ १० ॥
चलसि यद्व्रजात् चारयन् पशून्
नलिन सुन्दरं नाथ ते पदं ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥
११ ॥
दिनपरिक्षये नीलकुन्तलैः
वनरुहाननं बिभ्रदावृतम्  ।
घनरजस्वलं दर्शयन् मुहुः
मनसि नः स्मरं वीर यच्छसि ॥
१२ ॥
प्रणतकामदं पद्मजार्चितम्
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शन्तमं च ते
रमण नः स्तनेष्वर्पयाधिहन्
॥ १३ ॥

सुरतवर्धनं शोकनाशनम्
स्वरितवेणुना सुष्ठुचुम्बितम्
इतररागविस्मारणं नृणाम्
वितर वीर नस्तेऽधरामृतम् ॥
१४ ॥
अटति यत् भवान् अह्नि काननम्
त्रुटिर्युगायते त्वामपश्यताम्
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृत् दृशाम्
॥ १५ ॥
पतिसुतान्वय भ्रातृबान्धवान्
अतिविलङ्घ्य तेऽन्त्यच्युतागताः
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि
॥ १६ ॥
रहसि संविदं हृच्छयोदयम्
प्रहसिताननं प्रेमवीक्षणम्
बृहदुरः श्रियो वीक्ष्य धाम
ते
मुहुरतिस्पृहा मुह्यते मनः
॥ १७ ॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम्
त्यज मनाक् च नः त्वत्स्पृहात्मनाम्
स्वजनहृत्रुजां यन्निषूदनम्
॥ १८ ॥
यस्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु
तेनाटवीमटसि तत् व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां
नः ॥ १९ ॥
             ***

HYMNS TO KRISHNA – SHRI RADHAKRISHNA STOTRAM

श्री राधाकृष्णस्तोत्रम्
         
(नारदपाञ्चरात्रान्तर्गतम्)
वन्दे नवघनश्यामं पीतकौशेयवाससम्
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं
प्रकृतेः परम् ॥ १ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम्
राधासेवितपादाब्जं राधावक्षस्थलस्थितम्
॥ २ ॥
राधानुगं राधिकेष्टं राधापहृतमानसम्
राधाधारं भवाधारं सर्वाधारं
नमामि तम् ॥ ३ ॥
राधाहृत्पद्ममध्ये च वसन्तं
सन्ततं शुभम् ।
राधासहचरं शश्वत् राधाज्ञापरिपालकम्
॥ ४ ॥
ध्यायन्ते योगिनो योगान् सिद्धाः
सिद्धेश्वराश्च यम् ।
तं ध्यायेत् सततं शुद्धं भगवन्तं
सनातनम् ॥ ५ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम्
नित्यं सत्यं च परमं भगवन्तं
सनातनम् ॥ ६ ॥
यः सृष्टेरादिभूतं च सर्वबीजं
परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं
सनातनम् ॥ ७ ॥
बीजं नानावताराणां सर्वकारणकारणम्
वेदवेद्यं वेदबीजं वेदकारणकारणम्
॥ ८ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं
सनातनम् ।
गन्धर्वेण कृतं स्तोत्रं यः
पठेत् प्रयतः शुचिः ।
इहैव जीवन्मुक्तश्च परं याति
परां गतिम् ॥ ९ ॥
हरिभक्तिं हरेर्दास्यं गोलोकं
च निरामयम् ।
पार्षदप्रवरत्वं च लभते नात्र
संशयः ॥ १० ॥
             ***

HYMNS TO KRISHNA – SRIKRISHNA STOTRAM (VIPRAPATNI KRITAM)

             श्री कृष्णस्तोत्रम्

             (विप्रपत्नीकृतम्)
त्वं ब्रह्म परमं धाम निरीहो
निरहंकृतिः ।
निर्गुणश्च निराकारः साकारस्सगुणः
स्वयम् ॥ १ ॥
साक्षिरूपश्च निर्लिप्तः परमात्मा
निराकृतिः ।
प्रकृतिः पुरुषस्त्वं च कारणं
च तयोः परम् ॥ २ ॥
सृष्टिस्थित्यन्तविषये ये च
देवास्त्रयः स्मृताः ।
ते त्वदंशास्सर्वबीजाः ब्रह्मविष्णुमहेश्वराः
॥ ३ ॥
यस्य लोम्नां च विवरे चाखिलं
विश्वमीश्वर ।
महाविराण् महाविष्णुः त्वं
तस्य जनको विभो ॥ ४ ॥
तेजस्त्वं चापि तेजस्वी ज्ञानं
ज्ञानी च तत्परः ।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां
स्तोतुमिहेश्वरः ॥ ५ ॥
महदादेस्सृष्टिसूत्रं पञ्चतन्मात्रमेव
च ।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः
॥ ६ ॥
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयस्सदा
त्वमनीहः स्वयंज्योतिः सर्वानन्दस्सनातनः
॥ ७ ॥
अहो आकारहीनस्त्वं सर्वविग्रहवानपि
सर्वेन्द्रियाणां विषयं जानासि
नेन्द्रियी भवान् ॥ ८ ॥
सरस्वती जडीभूता यत्स्तोत्रे
यन्निरूपणे ।
जडीभूतो महेशश्च शेषो धर्मो
विधिः स्वयम् ॥ ९ ॥
पार्वती कमला राधा सावित्री
वेदसूरपि ।
वेदश्च जडतां याति को वा शक्ता
विपश्चितः ॥ १० ॥
वयं किं स्तवनं कुर्मः स्त्रियः
प्राणेश्वरेश्वर ।
प्रसन्नो भव नो देव दीनबन्धो
कृपां कुरु ॥ ११ ॥
विप्रपत्नीकृतं स्तोत्रं पूजाकाले
च यः पठेत् ।
स गतिं विप्रपत्नीनां लभते
नात्र संशयः ॥ १२ ॥
                ***

HYMNSS TO KRISHNA – SRIKRISHNA STOTRAM ( BY BRAHMADEVA )

श्रीकृष्णस्तोत्रम्
          
(ब्रह्मदेवकृतम्)
रक्ष रक्ष हरे मां च निमग्नं
कामसागरे ।
दुष्कीर्तिजलपूर्णे च दुष्पारे
बहुसङ्कटे ॥ १ ॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे
॥ २ ॥
जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले
रतिस्रोतसमायुक्ते गंभीरे घोर
एव च ॥ ३ ॥
प्रथमामृतरूपे च परिणामविषालये
यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ
॥ ४ ॥
बुद्ध्या तरण्या विज्ञानैः
उद्धरास्मानतः स्वयं ।
स्वयं च त्वं कर्णधार प्रसीद
मधुसूदन ॥ ५ ॥
मद्विधा कतिचिन्नाथ नियोज्या
भवकर्मणि ।
सन्ति विश्वेश विधयो हि विश्वेश्वर
माधव ॥ ६ ॥
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः
तथापि च स्पृहा कामे त्वद्भक्तिव्यवधायके
॥ ७ ॥
हे नाथ करुणासिन्धो दीनबन्धो
कृपां कुरु ।
त्वं महेश महाज्ञाता दुःस्वप्नं
मां न दर्शय ॥ ८ ॥
ब्रह्मणा निर्मितं स्तोत्रं
भक्तियुक्तश्च यः पठेत् ।
स चैवाकर्मविषये न निमग्नो
भवेत् ध्रुवम् ॥ ९ ॥
                 ***

       


                 ***

HYMNS TO KRISHNA – CHATUHSLOKI

चतुःश्लोकी
      
(श्री विट्ठलेश्वरप्रोक्तम्) 
सदा सर्वात्मभावेन भजनीयो व्रजेश्वरः
करिष्यति स एवास्मदैहिकं पारलौकिकम्
॥ १ ॥
अन्याश्रयो न कर्तव्यः सर्वथा
बाधकस्तु सः ।
स्वकीये स्वात्मभावश्च कर्तव्यः
सर्वथा सदा ॥ २ ॥
सदा सर्वात्मना कृष्णः सेव्यः
कालादिदोषनुत् ।
तद्भक्तेषु च निर्दोषभावेन
स्थेयमादरात् ॥ ३ ॥
भगवत्येव सततं स्थापनीयं मनः
स्वयम् ।
कालोऽयं कठिनोऽपि श्रीकृष्णभक्तान्न
बाधते ॥ ४ ॥
               ***
 

          

 

HYMNS TO KRISHNA – NANDAKUMARASHTAKAM

 श्रीनन्दकुमाराष्टकम्
          
(वल्लभाचार्यकृतं)
 
सुन्दरगोपालं उरवनमालं नयनविशालं
दुःखहरम्
वृन्दावनचन्द्रमानन्दकन्दं
परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं
प्रीतिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ १ ॥
सुन्दरवारिजवदनं निर्जितमदनं
आनन्दसदनं मुकुटधरम्
गुञ्जाकृतिहारं विपिनविहारं
परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत‌उपवीतं करनवनीतं
विबुधवरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ २ ॥
शोभितमुखधूलं यमुनाकूलं निपट‌अतूलं सुखदतरम्
मुखमण्डितरेणुं चारितधेनुं
वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि‌अमलं तिमिरहरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ३ ॥
शिरमुकुटसुदेशं कुञ्चितकेशं
नटवरवेषं कामवरम्
मायाकृतमनुजं हलधर‌अनुजं प्रतिहतदनुजं
भारहरम् ।
वल्लभव्रज्पालं सुभगसुचालं
हितमनुकालं भाववरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ४ ॥
इन्दीवरभासं प्रकटसुरासं कुसुमविकासं
वंशिधरम्
हृतमन्मथमानं रूपनिधानं कृतकलगानं
चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं
विविधविलासं केलिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ५ ॥
परमप्रवीणं पालितदीनं भक्ताधीनं
कर्मकरम्
मोहनमतिधीरं फणिबलवीरं हतपरवीरं
तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं
शैलधरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ६ ॥
जलधरद्युति‌अङ्गं ललितत्रिभङ्गं
बहुकृतरङ्गं रसिकवरम्
गोकुलपरिवारं मदनाकारं कुञ्जविहारं
गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं
कृत‌आनन्दं भ्रान्तिहरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ७ ॥
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं
विमलधरम्
कालियशिरगमनं कृतफणिनमनं घातितयमनं
मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणम्
अशरणशरणम् मुक्तिकरम्
भज नन्दकुमारं सर्वसुखसारं
तत्वविचारं ब्रह्मपरम् ॥ ८ ॥
                 ***
 

click here for sri Ramachander’s English translation

HYMNS TO KRISHNA – MADHURASHTAKAM

मधुराष्टकम्
        
(वल्लभाचार्यकृतम्)
अधरं मधुरं वदनं मधुरं नयनं
मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ १ ॥
वचनं मधुरं चरितं मधुरं वसनं
मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मथुराधिपतेरखिलं मधुरम् ॥ २ ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः
पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ३ ॥
गीतं मधुरं पीतं मधुरं भुक्तं
मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ४ ॥
करणं मधुरं तरणं मधुरं हरणं
मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ५ ॥
गुञ्जा मधुरा माला मधुरा यमुना
मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ६ ॥
गोपी मधुरा लीला मधुरा युक्तं
मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराथुपतेरखिलं मधुरम् ॥ ७ ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा
सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मथुराधिपतेरखिलं
मधुरम् ॥ ८ ॥

             

          

HYMNS TO KRISHNA – GOVINDASHTAKAM

 गोविन्दाष्टकम्
 (श्री शंकराचार्यकृतम्)
चिदानन्दाकारं श्रुतिसरससारं
समरसं
निराधाराधारं भवजलधिपारं परगुणम्
रमाग्रीवाहारं व्रजवनविहारं
हरनुतं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ १ ॥
महांभोधिस्थानं स्थिरचरनिदानं
दिविजपं
सुधाधारापानं विहगपतियानं यमरतम्
मनोज्ञं सुज्ञानं मुनिजननिधानं
ध्रुवपदं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ २ ॥
धिया धीरैर्ध्येयं श्रवणपुटपेयं
यतिवरै-
र्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं
विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं
नवतनुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ३ ॥
महामायाजालं विमलवनमालं मलहरं
सुभालं गोपालं निहतशिशुपालं
शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ४ ॥
नभोबिम्बस्फीतं निगमगणगीतं
समगतिं
सुरौघैः संप्रीतं दितिजविपरीतं
पुरिशयम् ।
गिरां मार्गातीतं स्वदितनवनीतं
नयकरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ५ ॥
परेशं पद्मेशं शिवकमलजेशं शिवकरं
द्विजेशं देवेशं तनुकुटिलकेशं
कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं
नगधरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ६ ॥
रमाकान्तं कान्तं भवमयभयान्तं
भवसुखं
दुराशान्तं दान्तं निखिलहृदिभान्तं
भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं
सुचरितं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ७ ॥
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं
क्रतुपतिं
बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं
वरवहम् ।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं
गुरुवरं
सदा तं गोविन्दं परमसुखकन्दं
भजत रे ॥ ८ ॥
गदापाणेरेतद्दुरितदलनं दुःखशमनं
विशुद्धात्मा स्तोत्रं पठति
मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनः
परं विष्णोः स्थानं व्रजति
खलु वैकुण्टभुवनम् ॥ ९ ॥