TARASHTAKAM

                                                              ताराष्टकम्
मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे
प्रत्यालीढपदस्थिते शिवहृदि स्मेराननांभोरुहे।
फुल्लेन्दीवरलोचनत्रययुते कर्त्री कपालोत्पले
खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१॥
वाचामीश्वरि भक्तकल्पलतिके सर्वाथसिद्धिप्रदे
गद्यप्राकृतपद्यजातरचनासर्वस्वसिद्धिप्रदे।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे
सौभाग्यामृतवर्षणेनकृपया सिञ्च त्वमस्मादृशम्॥२॥
सर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्ज्वले
व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते।
सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्धज-
ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥३॥
मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके
हुंफट्कारमयी त्वमेव शरणं मन्त्रात्मिके मादृशाम्।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा
वेदानाम् न हि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥४॥
यत्पादांबुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां
तस्य स्त्री परमेश्वरि त्रिनयना ब्रह्मादिसाम्यात्मनः।
संसारांबुधिमज्जने पटुतनू देवेन्द्रमुख्यान् सुरान्
मातस्त्वत्पदसेवने हि विमुखो यो मन्दधीः सेवते॥५॥
मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण-
स्ते देवा जयसंगरे विजयिनो निश्शङ्कमङ्के गताः।
देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परे
तत्तुल्यं नियतं यथासुभिरमी नाशं व्रजन्ति स्वयम् ॥६॥
त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते
भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः।
दैत्या दानवपुङ्गवाशच खचरा व्याघ्रादिका जन्तवो
डाकिन्यः कुपितान्तकाश्च मनुजं मातः क्षणं भूतले ॥७॥ 
लक्ष्मीः सिद्धिगणाश्च पादुकमुखा सिद्धिस्तथा वारिणः
स्तंभाश्चापि रणाङ्गणॆ गजघटा स्तंभस्तथा मोहनम्।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः
कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः ॥८॥
ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः।
प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥९॥
लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् ।
लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥१०॥
कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्।
विख्यातिं चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् ॥११॥


DURGA STOTRAM-3 (FROM DURGA SAPTASHATI)

                                   देवी स्तुतिः

           (दुर्गासप्तशती एकादशोऽध्यायः)  

देवि प्रपन्नार्तिहरे प्रसीद

प्रसीद मातर्जगतोऽखिलस्य।

प्रसीद विश्वेश्वरि पाहि विश्वम्

त्वमीश्वरी देवि चराचरस्य ॥१॥

आधारभूता जगतस्त्वमेका

महीस्वरूपेण यतः स्थिताऽसि।

अपां स्वरूपस्थितया त्वयैत-

दाप्यायते सर्वमलङ्घ्यवीर्ये॥२॥

त्वं वैष्णवीशक्तिरनन्तवीर्या

विश्वस्य बीजं परमाऽसि माया।

सम्मोहितं देवि समस्तमेतत्

त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥३॥

विद्याः समस्तास्तव देवि भेदाः

स्त्रियः समस्ताः सकला जगत्सु।

त्वयैकया पूरितमम्बयैतत्

का ते स्तुतिः स्तव्यपरा परोक्तिः ॥४॥

सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥५॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥६॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥७॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥८॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥९॥

शरणागतदीनार्तपरित्राणपरायणे॥

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१०॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥११॥

त्रिशूलचन्द्राहिधरे महावृषभवाहने।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥१२॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे॥

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१३॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१४॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१५॥

नृसिंहरूपेणोग्रेण  हन्तुं दैत्यान् क्रुतोद्यमे।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१६॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१७॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥१८॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥१९॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे।

महारात्रि महाविद्ये नारायणि नमोऽस्तु ते ॥२०॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥२१॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२२॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।

पातु  नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२३॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२४॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।

सा घण्टा पातु नो देवी पापेभ्योऽनः सुतानिव ॥२५॥

असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः।

शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥२६॥

रोगानशेषानपहंसि  तुष्टा

रुष्टा तु कामान् सकलानभीष्टान्।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२७॥

एतत्कृतं यत्कदनं त्वयाद्य

धर्मद्विषां देवि महासुराणाम्।

रूपैरनेकैर्बहुधाऽऽत्ममूर्तिं

कृत्वाम्बिके तत्प्रकरोति कान्या ॥२८॥

विद्यासु शास्त्रेषु विवेकदीपे-

ष्वाद्येषु वाक्येषु च का त्वदन्या।

ममत्वगर्तेऽति महान्धकारे

विभ्रामयत्येतदतीव विश्वम्॥२९॥

रक्षांसि यत्रोग्रविषाश्च नागा

यत्रारयो दस्युबलानि यत्र।

दावानलो यत्र तथाब्धिमध्ये

तत्र स्थिता त्वं परिपासि विश्वम्॥३०॥

विश्वेश्वरि त्वं परिपासि विश्वं

विश्वात्मिका धारयसीति विश्वम्।

विश्वेशवन्द्या भवती भवन्ति

विश्वाश्रया ये त्वयि भक्तिनम्राः ॥३१॥

देवि प्रसीद परिपालय नोऽरिभीते-

र्नित्यं यथासुरवधादधुनैव सद्यः।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्च महोपसर्गान् ॥३२॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥३३॥

देव्युवाच-

वरदाहं सुरगणा वरं यन्मनसेच्छथ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३४॥

देवा ऊचुः

सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥३५॥

देव्युवाच-

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे

शुम्भो निशुम्भश्चैवान्यावुत्पस्येते महासुरौ॥३६॥

नन्दगोपगृहे जाता यशोदागर्भसंभवा।

ततस्तौ नाशयिष्यामि विन्ध्याचनिवासिनी ॥३७॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥३८॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान्महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥३९॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥४०॥

भूयश्च शतवार्षक्यामनावृष्ट्यामनम्भसि।

मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥४१॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः॥४२॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥४३॥

शाकम्भरीति विख्यातिं तदा यास्यामहं भुवि।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४४॥

दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति।

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥४५॥

रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥४६॥

भीमा देवीति विख्यातं तन्मे नाम भविष्यति।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥४७॥

तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥४८॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥४९॥

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥५०॥

DURGA STOTRAM-2 (FROM DURGASAPTASHATI)

            देवी स्तुतिः

       (दुर्गासप्तशती – अध्यायः ५)

नमो देव्यै महादेव्यै शिवायै सततं नमः।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥२॥

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः

नैर्‍ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

या देवी सर्वभूतेषु चेतनेत्यभिधीयते

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥

या देवी सर्वभूतेषु छायारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत्

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥

स्तुता सुरैः पूर्वमभीष्टसंश्रया-

त्तथा सुरेन्द्रेण दिनेषु सेविता।

करोतु सा नः शुभहेतुरीश्वरी

शुभानि भद्राण्यभिहन्तु चापदः ॥२९॥

या  साम्प्रतं चोद्धतदैत्यतापितै-

रस्माभिरीशा च सुरैर्नमस्यते।

या च स्मृता तत्क्षणमेव हन्ति नः

सर्वापदो भक्तिविनम्रमूर्तिभिः ॥३०॥


DURGA STOTRAM-1 (FROM DURGASAPTASHATI)

                           इन्द्रादिदेवैः देव्याः स्तुतिः

           (श्रीदुर्गासप्तशती चतुर्थाध्यायः)

ऊँ कालाभ्राभां कटाक्षैररिकुलभयदां  मौलिबद्धेन्दुरेखां

शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥१॥ 

शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन् दुरात्मनि सुरारिबले च देव्या।

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा

वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥

देव्या यया ततमिदं जगदात्मशक्त्या

निश्शेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥

यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ॥४॥

याः श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम्॥५॥

किं वर्णयाम तव रूपमचिन्त्यमेतत्

किं चातिवीर्यमसुरक्षयकारि भूरि।

किं चाहवेषु चरितानि तवाद्भुतानि

सर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥

हेतुः समस्तजगतां त्रिगुणापि दोषै-

र्न ज्ञायसे हरिहरादिभिरप्यपारा ।

सर्वाश्रयाखिलमिदं जगदंशभूत-

मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥

यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-

रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥

या मुक्तिहेतुरविचिन्त्यमहाव्रता त्व-

मभ्यस्यसे सुनियतेन्द्रियसत्त्वसारैः।

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-

र्विद्यासि सा भगवती परमा हि देवि ॥९॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-

मुद्गीथरम्यपदपाठवतां च साम्नाम्।

देवी त्रयी भगवती भवभावनाय

वार्त्ता च सर्वजगतां परमार्तिहन्त्री ॥१०॥ 

मेधासि देवि विदिताखिलशास्त्रसारा

दुर्गासि दुर्गभवसागरनौरसङ्गा।

श्रीः कैटभारिहृदयैककृताधिवासा

गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥

ईषत्सहासममलं  परिपूर्णचन्द्र-

बिम्बानुकारि कनकोत्तमकान्तिकान्तम्।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण ॥१२॥

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-

मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः।

प्राणान्मुमोच महिषस्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥१३॥

देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि।

विज्ञातमेतदधुनैव यदस्तमेत-

न्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ॥१५॥

धर्म्याणि देवि सकलानि सदैव कर्मा-

ण्यत्यादृतः प्रतिदिनं सुकृती करोति।

स्वर्गं प्रयाति च ततो भवतीप्रसादा-

ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥१७॥

एभिर्हतैर्जगदुपैति सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम्।

संग्राममृत्युमधिगम्य दिवं प्रयान्तु

मत्वेति नूनममहितान् विनिहंसि देवि ॥१८॥

दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु  यत्प्रहिणोषि शस्त्रम् ।

लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी॥१९॥

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशुमदिन्दुखण्ड-

योग्याननं तत्र विलोकयतां तदेतत् ॥२०॥

दुर्वृत्तवृत्तशमनं तव देवि शीलं

रूपं तथैतदविचिन्त्यमतुल्यमन्यैः।

वीर्यं च हन्तृ हृतदेवपराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम्॥२१॥

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र ।

चित्ते कृपा समरनिष्ठुरता च दृष्टा

त्वय्येव देवि वरदे भुवनत्रयेऽपि।२२॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्त-

मस्माकमुन्मदसुरारिभवं नमस्ते॥२३॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥२४॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥

सौम्यानि यानि रूपाणि त्रैलिक्ये विचरन्ति ते।

यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके

करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥२७॥

ANNAPOORNA STOTRAM

२०. अन्नपूर्णास्तोत्रम्

        (श्री शंकराचार्यकृतम्)

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी

निर्धूताखिलघोरपापनिकरी प्रत्यक्षमाहेश्वरी ।

प्रालॆयाचलवंशपावनकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १ ॥

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी

मुक्ताहार-विलम्बमान-विलसद्-वक्षॊजकुम्भान्तरी ।

काश्मीरागरुवासितारुचिकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ २ ॥

         

योगानन्दकरी रिपुक्षयकरी धर्मैकनिष्ठाकरी

चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।

सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ३ ॥

         

कैलासाचलकन्दरालयकरी गौरी ह्युमा शंकरी

कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी ।

मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४ ॥

         

दृश्यादृश्यविभूतिभावनकरी ब्रह्माण्डभाण्डोदरी

लीलानाटकसूत्रखेलनकरी विज्ञानदीपाङ्कुरी ।

श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी  ॥ ५ ॥

         

उर्वी सर्वजनेश्वरी जयकरी माता कृपासगरी

नारी नीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।

सर्वानन्दकरी दशाशुभकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥

         

आदिक्षान्तसमस्तवर्णनिकरी शंभोस्त्रिभावाकरी

काश्मीरा त्रिपुरेश्वरी त्रिलहरी नित्याङ्कुरी शर्वरी ।

कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी   ॥ ७ ॥

         

देवी सर्वविचित्ररत्नरुचिरा दाक्षायणी सुन्दरी

वामा स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी ।

भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥

         

चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी

चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।

मालापुस्तकपाशकाङ्कुशधरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ९ ॥

         

क्षत्रत्राणकरी महाभयकरी माता कृपासागरी

साक्षान्मोक्षकरी सदाशिवकरी विश्वेश्वरी श्रीधरी ।

दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी

भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥

         

अन्नपूर्णे सदापूर्णे

शंकरप्राणवल्लभे ।

ज्ञानवैराग्यसिध्यर्थं

भिक्षां देही च पार्वति ॥ ११ ॥

माता च पर्वती देवी

पिता देवो महेश्वरः ।

बान्धवाः शिवभक्ताश्च

स्वदेशो भुवनत्रयम् ॥ १२ ॥

Click here for sri Ramachander’s English translation

Click here for an audio rendering of this stotra


DEVI KSHAMAPANASTOTRAM

               देवीक्षमापणस्तोत्रम्
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥२॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयस्सुराः ॥४॥
सापराधोस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकंप्योहं यथेच्छसि तथा कुरु ॥५॥
अज्ञानात् विस्मृतेः भ्रान्त्या यन्न्यूनमधिकं कृतम्।
तत्सर्वं क्ष्म्यतां देवि प्रसीद परमेश्वरि ॥६॥
कामेश्वरि जगन्मातःसच्चिदानन्दविग्रहे।
गृहाणार्च्चामि त्वां प्रीत्या प्रसीद परमेश्वरि ॥७॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि ॥८॥

SHYAMALA DANDAKAM (WITH ENGLISH TRANSLATION)

श्यामलादण्डकम्
(कलिदासप्रणीतम्)

माणिक्यवीणामुपलालयन्तीं
मदालासां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातंगकन्यां सततं स्मरामि ॥१॥

I always meditate on the daughter of Matanga Maharshi who playfully holds a Veena made of Mankikya, who is lazy by intoxication, whose speech is picturesque and beautiful and whose body is resplendent like the dark blue gemstone. 

चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
हस्ते नमस्ते जगदेकमातः ॥२॥

O The Mother of the Worlds who has four hands, whose head is adorned with the crescent moon, who has a full bosom, who has a complexion red as kukum and who carries in her hands a bow of sugarcane, arrows of flowers, the rope and the ankusa (goad), my prostrations before you.

माता मरकतश्यामा
मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी
कदंबवनवासिनी ॥३॥

May the Mother, who is dark as the marakata gemstone, who is the daughter of Matanga maharshi, who is exuberant, who is auspicious and who abides in the kadamba forest, cast on me the glances from her eye-corners. 

जय मातंगतनये
जय नीलोत्पलद्युते ।
जय संगीतरसिके
जय लीलाशुकप्रिये ॥४॥

Victory to the daughter of Matanga. Victory to the one who has the complexion of the dark blue lily. Victory to the one who enjoys and appreciates music. Victory to the one who is fond of the playful parrot.

जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्य-
कल्पद्रुमाकल्प-कादम्बकान्तार-वासप्रिये, कृत्तिवासप्रिये,
सर्वलोकप्रिये !

(Victory to the Divine Mother) who is the darling of Siva and the whole world and who likes to live in the forest of kalpavriksha-like kadamba trees surrounding which is a forest of bilwa trees on the island of Manidweep in the midst of the ocean of nectar.

सादरारब्ध-संगीत-संभावना-संभ्रमालोल-नीपस्रगाबद्ध-चूलीसनाथत्रिके, सानुमत्पुत्रिके !

(Victory to the Divine Mother) who is the daughter of Himavan, whose locks, around which are tied garlands of nipa which oscillate when she nods in appreciation of the melodious music started in her honour.

शेखरीभूत-शीतांशुरेखा-मयूखावलीबद्ध-सुस्निग्ध-नीलालकश्रेणि-शृंगारिते, लोकसंभाविते !

(Victory to the Divine Mother) who is worshipped by the people and whose beauty is enhanced by the dark blue locks which are smooth and which are illumined by the rays from the crescent moon adorning her forehead. 

कामलीला-धनुस्सन्निभ-भ्रूलतापुष्प-सन्दोह-सन्देहकृल्लोचने,
वाक्सुधासेचने, चारुगोरचनापङ्क-केलीललामाभिरामे, सुरामे! रमे!

(Victory to the Divine Mother) who is the embodiment of beauty, who is Lakshmi herself, whose eye-brows give the impression of the bow of Cupid, whose eyes lead one to doubt that they are the flowers of the eye-brow creepers, who showers sweet words and who is adorned with a pretty bindi (a round mark on the forehead) of gorochana 

प्रोल्लसद्बालिका-मौक्तिकश्रेणिका-चन्द्रिकामण्डलोद्भासि-लावण्य-गण्डस्थलन्यस्त-कस्तूरिकापत्ररेखा-समुद्भूत-सौरभ्य-संभ्रान्त-भृङ्गांगनागीत-सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे! भास्वरे!

(Victory to the Divine Mother) whose beautiful cheeks are lighted up by the moonlight-like lustre from the string of pearls adorning the short curly hair (playing on her forehead) and the melody from the Veena is made denser by the humming of honey-bees which are attracted by the fragrance arising from the patterns of kasturi made on her cheeks. Victory to the Mother who has a melodious voice and who has a resplendent form. 

वल्लकीवादन-प्रक्रियालोल-तालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते,
सिद्धसम्मानिते !

(Victory to the Divine Mother) who is honoured by the siddhas and who is adorned with tatankas (ear-ornaments) crafted from palm leaves which oscillate in the process of her playing the veena.

दिव्यहाला-मदोद्वेल-हेलालसच्चक्षुरान्दोलनश्री-समाक्षिप्त-कर्णैकनीलोत्पले ! श्यामले, पूरिताशेषलोकाभिवाञ्छाफले ! निर्मले श्रीफले!

(Victory to the Divine Mother) the beauty of whose eyes, undulating because of the inebriation caused by imbibing somarasa, surpasses the beauty of the blue lily worn on her ears, who is of dark blue complexion, who fulfils the desires of all the people, who is without blemish and who gives riches as the fruit (of worshiping her)

स्वेदबिन्दूल्लसत्-फाललावण्य-निष्यन्द-सन्दोह-सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके! सर्वसिद्ध्यात्मिके !

(Victory to the Divine Mother) who is Kali, who is the soul of all mantras and all psychic powers and the pearl on whose nose-stud gives the impression that it is a drop oozing from the beauty of her forehead with beads of perspiration glistening on it. 

मुग्धमन्दस्मितोदार-वक्त्रस्फुरत्-पूगतांबूलकर्पुरखण्डोत्करे !
ज्ञानमुद्राकरे ! श्रीकरे! पद्मभास्वत्करे !

(Victory to the Divine Mother) whose face is lighted up by a beautiful smile, whose mouth is fragrant with betel leaf areca nut and camphor pieces, who sports the gnana mudra on her hand, who showers riches (on her devotees) and whose hands are beautiful and soft like the lotus 

कुन्द्पुष्पद्युति-स्निग्धदन्तावली-निर्मलालोलकल्लोल-सम्मेलन-स्मेर-शोणाधरे ! 

चारुवीणाधरे ! पक्वबिंबाधरे !

(Victory to the Divine Mother) who carries the beautiful veena, whose lips are red like the ripe bimba fruit and whose teeth shine like jasmine buds and the red of her lips mixes with the pure white of her teeth when she smiles. .

सुललित-नवयौवनारंभ-चन्द्रोदयोद्वेल-लावण्य-दुग्धार्णवाविर्भवत्-
कंबुबिंबोकभृत्-कन्धरे ! सत्कलामन्दिरे ! मन्थरे!

(Victory to the Divine Mother) whose gait is leisurely, who is the repository of all fine arts, whose neck is like the conch emerging from the milky ocean of the high tide of beauty caused by the rising moon of freshness of youth, delicate and beautiful.

दिव्यरत्नप्रभा-बंधुरछन्न-हारादिभूषा-समुद्योतमानानवद्यांगशोभे, शुभे !

(Victory to the Divine Mother) who is the embodiment of auspiciousness and whose blemishless beauty is lighted up by ornaments like necklaces studded with divine diamonds and gems

रत्नकेयूर-रश्मिच्छटा-पल्लव-प्रोल्लसत्-दोर्लताराजिते ! योगिभिः पूजिते!

(Victory to the Divine Mother) who is worshipped by the yogis and whose hands shine with the rays from the diamond-studded keyura, the rays giving the impression of tender leaf buds

विश्वदिङ्मण्डलव्यापि-माणिक्य-तेजस्फुरत्-कङ्कणालंकृते-
विभ्रमालंकृते- साधुभिस्सत्कृते!

(Victory to the Divine Mother) who is worshipped by sadhus, the splendour of the manikya in whose bangles spreads in all directions of the world and who is splendidly adorned.

वासरारंभवेला-समुज्जृंभमाणारविन्द-प्रतिद्वन्द्वि-पाणिद्वये ! संततोद्यद्दये! अद्वये !

(Victory to the Divine Mother) who is one without a second, whose compassion is always ascendant and whose both hands surpass the beauty of the blooming lotus in the early morning

दिव्य्ररत्नोर्मिका-दीधितिस्तोम-संध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दु-
प्रभामण्डले ! सन्नताखण्डले ! चित्प्रभामण्डले ! प्रोल्लसद्कुण्डले!

(Victory to the Divine Mother) before whom bows Indra, who is effulgent consciousness, whose ear-globes shine and whose nails give the impression of the orb of the rising moon, the diamond-studded rings on her fingers giving out bright red rays creating the impression of evening twilight period (sayam sandhya). 
तारकाराजि-नीकाश-हारावलि-स्मेर-चारुस्तनाभोग-भारानमन्मध्यवल्ली-वलिच्छेद-वीचीसमुल्लास-सन्दर्शिताकार-सौन्दर्य-रत्नाकरे, किङ्कर श्रीकरे!

(Victory to the Divine Mother) who showers wealth on those serving her, whose bosom is adorned by several gold chains studded with diamonds resembling a cluster of stars and who is slightly bent (because of the weight of the breasts) and who has wave-like folds in the middle which further enhance the beauty of what is already an diamond mine (or ocean) of beauty. 

हेमकुंभोपमोत्तुङ्गवक्षोजभारावनम्रे ! त्रिलोकावनम्रे!

(Victory to the Divine Mother) whose full breasts resemble pots of gold causing her to bend slightly and to whom the three worlds bow down (as the Divine Mother)`

लसद्वृत्त-गम्भीर-नाभीसरस्तीर-शैवाल-शङ्काकर-
श्यामरोमावली-भूषणे ! मञ्जुसंभाषणे!

(Victory to the Divine Mother) whose speech is sweet and who is adorned with dark hair around the deep and round navel which makes one think of a lake with moss on its banks

चारुशिञ्जत्-कटीसूत्र-निर्भर्त्सितानंग-लीलाधनु-श्शिञ्जिनीडंबरे !
दिव्यरत्नांबरे !

(Victory to the Divine Mother) who is clothed in divine gem-studded raiment and the tinkling sound from whose waist-belt competes with that from the sporty bow of Kama (Cupid) (in arousing passionate love)

पद्मरागोल्लसन्मेखला-भास्वर-श्रोणिशोभाजित-स्वर्णभूभृत्तले! चन्द्रिकाशीतले !

(Victory to the Divine Mother) who is as cool as the moonlight and the expanse and beauty of whose hip, adorned with a mekhala which shines with red stones, surpasses the expanse and beauty of the plateau of the golden mountain (Meru)

विकसित-नवकिंशुकाताम्र-दिव्यांशुकच्छन्न-चारूरुशोभा-पराभूत-
सिन्दूर-शोणायमानेन्द्रमातंग-हस्तार्गले ! वैभवानर्गले ! श्यामले !

(Victory to the Divine Mother) whose beautiful thighs, covered with divine clothes with the colour of new blooming kimshuka flowers, compete with Indra’s elephant’s trunk smeared with sindur, who is a dark beauty and whose grace flows unimpeded.

कोमलस्निग्ध-नीलोत्पलोत्पादितानंगतूणीर-शङ्काकरोदारजंघालते चारुलीलागते !

(Victory to the Divine Mother) whose lower leg is pretty and smooth giving the impression of Kama’s quiver made of blue lilies and whose gait is pretty and playful

नम्रदिक्पाल-सीमन्तिनी-कुन्तल-स्निग्ध-नीलप्रभापुञ्ज-सञ्जात-
दूर्वाङ्कुराशंकि-सारंग-संयोग-रिंखन्नखेन्दूज्ज्वले. प्रोज्ज्वले! निर्मले !

(Victory to the Divine Mother) who is resplendent and pure and whose toe nails are brilliant and who is surrounded by deer which are attracted by the dark smooth locks of the consorts of the presiding deities of the eight quarters who bow down at her feet. The deer are deluded into thinking, by the texture and colour of the hair, that it is green durva grass.

प्रह्व-देवेश-लक्ष्मीश-भूतेश-लोकेश-वाणीश-कीनाश-दैत्येश-यक्षेश-वाय्वग्नि-कोटीरमाणिक्य-संघृष्ट-बालातपोद्दाम-लाक्षारसारुण्य-तारुण्य-लक्ष्मीगृहीतांघ्रिपद्मे ! सुपद्मे उमे!

(Victory to the Divine Mother) before whom bow down Indra, Vishnu, Siva, the lokapalas, Brahma, Yama, the Asura King, Kubera, Vayu, Agni and whose feet, adorned with red laksharasa and caressed by Lakshmi, shine like the light of the rising sun by the rays of manikya in the crowns of the celestials bowing down. 

सुरुचिर-नवरत्न-पीठस्थिते, रत्नपद्मासने, रत्नसिंहासने, शंखपद्मद्वयोपाश्रिते, विश्रुते, तत्र विघ्नेशदुर्गावटुक्षेत्र्पालैर्युते !
मत्तमातंगकन्यासमूहान्विते, भैरवैरष्टभिर्वेष्टिते, मञ्जुलामेनकाद्यंगनामानिते, देवि वामादिभि: शक्तिभिः सेविते ! धात्रिलक्ष्म्यादि-शक्त्यष्टकैर्सेविते ! मातृकामण्डलैर्मण्डिते !
यक्षगन्धर्व-सिद्धांगनामण्डलैरर्चिते ! भैरवीसंवृते ! पंचबाणात्मिके ! पंचबाणेन रत्या च संभाविते ! प्रीतिभाजा वसन्तेन चानन्दिते !

(Victory to the Divine Mother) who is seated on the dais of pretty nine jewels, whose throne is of diamonds, who is served by the shamkha and padma nidhis, who is famous, who is accompanied by Ganesha, Durga, Vatu and Kshetrapala, who has the company of intoxicated matanga kanyas, who is surrounded by the eight bhairavas, who is honoured by Manjula, Menaka and other celestial damsels, who is served by saktis like Vama, eight saktis of Dhatri ,Lakshmi and others, who is worshipped by the seven mothers, yakshas, gandharvas and the siddhanganas, who is surrounded by bhairavies, who is the very soul of Kama, who is honoured by Kama and Rati and who is propitiated by Vasanta who enjoys her affection.

भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे। गीतविद्याविनोदातितृष्णेन कृष्णेनसंपूज्यसे भक्तिमच्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।

O Mother! You bless your devotees with material and spiritual welfare. You shine in the hearts of yogis. You shine by the powerful Vedic chants. You are worshipped by Krishna who very much likes gitavidya( the fine art of music). Brahma sings your praises with deep devotion. Vidyadharas sing your glories with instruments which captivate the hearts of all. 
श्रवणहरण-दक्षिणक्वाणया वीणया किन्नरैर्गीयसे, यक्षगन्धर्वसिद्धांगनामण्डलैरर्च्यसे, सर्वसौभाग्यवाञ्छावतीभिर्वधूभिस्सुराणां समाराध्यसे
Your glories are sung by Kinnaras by playing the melodious Veena which captivates the ears. You are worshipped by groups of yakshas, gandharvas and shiddhas. You are propitiated by the wives of devas who desire for themselves all the good things in life.

सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं
कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ।

You mollycoddle and play with the parrot which is the personification of all knowledge, which keeps telling interesting stories, which has on its neck three lines of different colours, which has two pretty dark green wings and whose beak surpasses the kimshuka flower in its red colour. 

पाणिपद्मद्वयेनाक्षमालामपिस्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् । येन वा यावकाभाकृतिर्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुंभद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते ।

If a devotee meditates on you as holding in your hands the crystal akshamala, the book of supreme knowledge, the goad and the rope, from his mouth will emerge all knowledge in the form of poetry and prose. If he meditates on you as having a red complexion, all men and women will be under his spell. If he meditates on you as having golden complexion, he will sport with thousands of Lakshmis (i.e. he will have immeasurable wealth). 

किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः
तस्य लीलासरोवारिधिः तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य वाग्देवता किङ्करी, तस्य चाज्ञाकरी श्री स्वयम्

What is not accessible or achievable to the devotee who meditates on your beautiful dark blue form sporting the crescent moon on the head? For him the ocean is the pool for water sports, the Nandana vana is the forest where he can play, his seat is the entire earth, the Goddess of speech is his handmaid and Goddess Lakshmi waits for his orders. 

सर्वतीर्थात्मिके ! सर्वतन्त्रात्मिके! सर्वमन्त्रात्मिके, सर्वचक्रात्मिके, सर्वशक्त्यात्मिके ! सर्वपीठात्मिके! सर्वतत्त्वात्मिके! सर्वविद्यात्मिके! सर्वयोगात्मिके! सर्वनादात्मिके! सर्ववेदात्मिके ! सर्वशब्दात्मिके ! सर्वविश्वात्मिके ! सर्ववर्गात्मिके ! सर्वदीक्षात्मिके! सर्वगे ! सर्वरूपे! जगन्मातृके! पाहि मां, पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः 
O Devi!, the soul or essence of all holy waters, all tantras, all mantras, all chakras (symbols), all psychic powers, all seats of power, all philosophy, all knowledge, all yogas, all musical sounds, all vedas, all speech, all worlds, all divisions and all austerities, who is everywhere, who is all forms, who is the Mother of all the worlds please save me, save me, I prostrate before you, I prostrate before you, I prostrate before you. 

Click here to get tothe Master Index from where you can access more than 600 posts

TRIPURASUNDARI MANASA PUJA STOTRAM

     त्रिपुरसुन्दरीमानसपूजास्तोत्रम्
        (श्रीमच्छंकरभगवत्पादविरचितम्)
मम न भजनशक्तिः पादयोस्ते न भक्ति-
र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः
इति मनसि सदाऽहं चिन्तयन्नाद्यशक्ते
रुचिरवचनपुष्पैरर्चनं संचिनोमि     ॥१॥
व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः
पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-
व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव॥२॥
तस्मिन्नुज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।
उच्चैःशृंगनिषण्णदिव्यवनिताबृन्दाननप्रोल्लसत्
गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥
जातीचंपकपाटलादिसुमनःसौरभ्यसंभावितं
ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम्।
आविर्भूतसुगन्धिचन्दनवनं दिष्टिप्रियं नन्दनं
चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥
परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः॥।५॥
रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते
क्षॊणीमण्डलहेमहारविलसत्संसारपारप्रद
प्रोद्यत्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥६॥
उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥७॥
क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम्।
मध्यालंबिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥८॥
उत्तुंगालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशंकया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
र्वल्गावल्गितहस्तमस्तशिखरं  कष्टैरितः प्राप्यते ॥९॥
मणिसदनसमुद्यत् कान्तिधारानुरक्ते
वियति चरमसन्ध्याशङ्किनो भानुरथ्याः।
शिथिलितगतकुप्यत्सूतहुंकारनादैः
कथमपि मणिगेहादुच्चकैरुच्चलन्ति  ॥१०॥
भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥११॥
विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।
विरिञ्चिविष्णुशंकरादिभिर्मुदा तवांबिके
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥१२॥
ध्वनन्मृदंगकाहलः प्रगीतकिन्नरीगणः
प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो
मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥१३॥
प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
र्बहिःस्थितामरावलीविधीयमानभक्तिभिः।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥१४॥
सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥१५॥
इन्द्रादींश्च दिगीश्वरान् सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान् स्वदिक्षु निहितान् संचिन्त्य हृत्पंकजे ।
शंखे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मरन्
कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥
गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
र्द्वाराभ्यासकृतस्थितीरिहसरस्वत्यादिकाः पूजयन्।
द्वारेनौमि मदनोन्मदं सुरगणाधीशं मदनोन्मदां
मातंगीमसितांबरां परिलसन्मुक्ताविभूषां भजे ॥१७॥
कस्तूरिकाश्यामलकोमलाङ्गीं
कादंबरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
मातंगकन्यां मनसा स्मरामि ॥१८॥
विकीर्णचिकुरोत्करे विगलितांबराडंबरे
मदाकलितलोचने विमलभूषणोद्भासिनि।
तिरस्करणि तावकं चरणपंकजं चिन्तयन्
करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥१९॥
प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः।
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणीः स्तुवे त्वदीय दूतिकाः ॥२०॥
स्फूर्जन्नव्ययवाङ्कुरोपलसिता भोगैः पुरः स्थापितै-
र्दीपोद्भासिशरावशोभितमुखैः कुंभैर्नवैः शोभिना।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥२१॥
आस्तीर्णारुणकंबलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्विमानोत्तमं  ।
धूपोद्गारिसुगन्धिसंभ्रममिलद्भृंगावलीगुंजितम्
कल्य़ाणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥२२॥
कनकरचिते पञ्चप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेतांबरास्तरणोत्तमे ।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥२३॥
सर्वांगस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
जृंभामञ्जुमुखांबुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा
संपश्यन् परदेवतां परमहो मन्ये कृतार्थं जनुः ॥२४॥
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृंभिते
भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥२५॥
पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमंब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गांगेन मत्कल्पितं
साष्टांगं प्रणिपातमीशदेयिते दृष्ट्या कृतार्थी कुरु ।२६॥
मातः पश्य मुखांबुजं सुविमले दत्ते मया दर्पणे
देवि स्वीकुरु दन्तधावनमिदं गंगाजलेनान्वितम्।
सुप्रक्षालितमाननं विरचयन् स्निग्धांबरप्रोञ्छनं
द्रागंगीकुरु तत्वमंब मधुरं तांबूलमास्वादय ॥२७॥
निधेहि मणिपादुकोपरि पदांबुजं मज्जना-
लयं व्रज शनैः सखीकृतकरांबुजालंबनम् ।
महेशि करुणानिधे  तव दृगन्तपातोत्सुकान्
विलोकय मनागमूनुभयसंस्थितान् दैवतान् ॥२८॥
हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितं
सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥२९॥
कनककलशजालस्फाटिकस्नानपीठा-
द्युपकरणविशालं गन्धमत्तालिमालम् ।
स्फुरदरुणवितानं मञ्जुगन्धर्वगानं
परमशिवमहेले मज्जनागारमेहि ॥३०॥
पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्राननाः
रत्नस्वर्णविनिर्मिताः परिलसत् सूक्ष्मांबरप्रावृताः ।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः॥३१॥
तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयांबरा ।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-
क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥३२॥
अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं
काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।
गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते
नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥३३॥
कृतपरिकरबन्धास्तुंगपीनस्तनाढ्या
मणिनिवहनिबद्धा हेमकुंभीर्दधानाः ।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः
सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥३४॥
उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि।
पुष्पांभोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः
स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदंगीकुरु ॥३५॥
प्रत्यंगं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं
कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितं
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
भक्तत्राणपरे महेशगृहिणि स्नानांबरं मुच्यताम् ॥३६॥
मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभासुरम्।
नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥३७॥
विलुलितचिकुरेण च्छादितांसप्रदेशे
मणिनिकरविराजत्पादुकान्यस्तपादे ।
सुललितमवलंब्य द्राक्सखीमंसदेशे
गिरिशगृहिणि भूषामण्डपाय प्रयाहि ॥३८॥
लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-
समुल्लसितकान्तिभिः कलितशक्रचापव्रजे ।
महाभरणमण्डपे निहितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥३९॥
स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं
सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम्।
मुक्ताभिर्ग्रथितालकां मणिचितैर्सौवर्णसूत्रैः स्फुटं
प्रान्ते मौक्तिकगुच्छकापलतिकां ग्रथ्नामि वेणीमिमाम् ॥४०॥
विलंबिवेणीभुजगोत्तमांग-
स्फुरन्मणिभ्रान्तिमुपानयन्तं
स्वरोचिषोल्लासितकेशपाशं
महेशि चूडामणिमर्पयामि ॥४१॥
त्वामाश्रयद्भिः कबरीतमिस्रै-
र्बन्दीकृतं द्रागिव भानुबिम्बम् ।
मृडानि चूडामणिमादधानं
वन्दामहे तावकमुत्तमांगम्॥४२॥   
स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
विलंबिमौक्तिकच्छटाविराजितं समन्ततः।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
समर्पयामि भास्वरं भवानि फालभूषणम् ॥४३॥
मीनांभोरुहखंजरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभां ।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगंभोरुहे
देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधःकुर्वतीम् ।
उत्सिक्ताधरबिंबकान्तिविसरैर्भौमीभवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥
उडुकृतपरिवेषस्पर्धया शीतभानो-
रिव विरचितदेहद्वन्द्वमादित्यबिम्बम्।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम्॥४६॥
मरकतवरपद्मरागहीरो-
त्थितगुलिकात्रितयावनद्धमध्यम्।
विततविमलमौक्तिकं च कण्ठा-
भरणमिदं गिरिजे समर्पयामि ॥४७॥
नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- 
व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृतां
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
व्रातामंब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥४८॥
अन्योन्यं प्लावयन्ती सततपरिलसत्कान्तिकल्लोलजालैः
कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी  ।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां न: ॥४९॥
करसरसिजनाले विस्फुरत्कान्तिजाले
विलसदमलशोभे चञ्चदीशाक्षिलोभे।
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि ॥५०॥
व्यालंबमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणीघटितहारविरोचमानम्।
मातर्महशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि ॥५१॥
विततनिजमयूखैर्निर्मितामिन्द्रनीलैः
जितकमलनालालीनमत्तालिमालां
मणिगणखचिताभ्यां कंकणाभ्यामुपेतां
कलय वलयराजीं हस्तमूले महेशि ॥५२॥
नीलपट्टमृदुगुच्छशोभिता-
बद्धनैकमणिजालमञ्जुलां ।
अर्पयामि वलयात्पुरःसरे
विस्फुरत्कनकतैतृपालिकाम् ॥५३॥
आलवालमिव पुष्पधन्वना
बालविद्रुमलतासु निर्मितं ।
अंगुलीषुविनिधीयतां शनै-
रंगुलीयकमिदं मदर्पितम् ॥५४॥
विजितहरमनोभूमत्तमातंगकुंभ-
स्थलविलुलितकूजत्किङ्किणी जालतुल्याम्
अविरलकलनादैरीशचेतो हरन्तीं
विविधमणिनिबद्धां मेखलामर्पयामि ॥५५॥
व्यालंबमानवरमौक्तिकगुच्छशोभि
विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमणिप्रबन्धं
नीवीनिबन्धनगुणं विनिवेदयामि ॥५६॥
विनिहतनवलाक्षापङ्कबालातपौघे
मरकतमणिराजी मञ्जुमञीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥५७॥
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्वणितमञ्जुलां गिरिशचित्तसंमोहिनीम्।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
निधेहि पदपंकजे कनकघुङ्घुरूमंबिके ॥५८॥
विस्फुरत्सहजरागरञ्जिते
शिञ्जितेन कलितां सखीजनैः ।
पद्मरागमणिनूपुरद्वयी-
मर्पयामि तव पादपंकजे ॥५९॥
पदांबुजमुपासितुं परिगतेन शीतांशुना
कृतां तनुपरंपरामिव दिनान्तरागारुणाम्।
महेशि नवयावकद्रवेण शोणिकृतां
नमामि नखमण्डलीं चरणपंकजस्थां तव ॥६०॥
आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्य धूपैः
उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां
चञ्चत्कल्हारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥६१॥
गृहाण परमामृतं कनकपात्रसंस्थापितं
समर्पयमुखांबुजे विमलवीटिकामंबिके ।
विलोकय मुखांबुजं मुकुरमण्डले विमले
निधेहि मणिपादुकोपरि पदांबुजं सुन्दरि ॥६२॥
आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
कूजन्मञ्जुमरालमञ्जुलगतिप्रोल्लासिभूषांबरा ।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ।६३॥
चलन्त्यामंबायां प्रचलति समस्ते परिजने
सवेगं संयाते कनकलतिकालंकृतिभरे ।
समन्तादुत्तालस्फुरितपदसंपातजनितै-
र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ॥६४॥
चञ्चद्वेत्रकराभिरंगविलसद्भूषांबराभिः पुरो-
यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते।
रुद्धे निर्ज्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं
वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥६५॥
वेधाः पादतले पतत्ययमसौ विष्णुर्नमन्यग्रतः
शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै  मम॥६६॥
मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया
नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।
वेगादक्षिपथं गतान् सुरगणानालोकयन्ती शनै
र्दित्सन्ती चरणांबुजं पथि जगत् पायान्महेशप्रिया ॥६७॥
अग्रे केचन पार्श्वयो कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे।
संमर्द्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः
कुर्वाणाः कतिचित्सुराः गिरिसुते दृक्पातमिच्छन्ति ते ॥६८॥
अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-
रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्यांगना
गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥६९॥
कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-
देकस्मैभवनिःस्पृहाय परमानन्दस्वरूपां गतिं ।
अन्यस्मैविषयानुरक्तमनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीं ॥७०॥ 
नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने
मन्दं गच्छति सन्निधौ सविनयात्सोत्कण्ठमोघत्रये ।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलम्
व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः ॥७१॥
तव दहनसदृक्षैरीक्षणैरेवचक्षु-
र्निखिलपशुजनानां भीषयद्भीषणास्यं।
कृतवसति परेशप्रेयसि द्वारि नित्यं
शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि॥७२॥
कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां
रत्नस्तंभनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम्।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकां ॥७३॥
स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं
ननारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनं
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं
नित्यानन्दनिदानमम्बसततं वन्दे च सिंहासनम् ॥७४॥
वदद्भिरभितो मुदा जयजयेति बृंदारकैः
कृताञ्जलिपरंपरा विदधती कृतार्था दृशा।
अमन्दमणिमण्डलीखचितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ दाक्षायणि॥७५॥
कर्पूरादिकवस्तुजालमखिलं सौवर्णभृङ्गारकं
तांबूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम्।
विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-
स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥७६॥
त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः
स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम्।
मुहुरपि च विधूते चामरग्राहिणीभिः
सितकरकरशुभ्रे चामरे चालयामि ॥७७॥
प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं
चञ्चन्महामणिविचित्रितहेमदण्डम्।
उद्यत्सहस्रकरमण्डलचारु हेम-
च्छत्रं महेशमहिले विनिवेशयामि ॥७८॥
उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-
शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-
व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥७९॥
संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिधाः
श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥८०॥
आधारशक्त्यादिकमाकलय्य
मध्ये समस्ताधिकयोगिनीं च ।
मित्रेशनाथादिकमत्र नाथ-
चतुष्टयं शैलसुते नतोऽस्मि ॥८१॥
त्रिपुरासुधार्णवासन-
मारभ्य त्रिपुरमालिनीं यावत्
आवरणाष्टकसंस्थित-
मासनषट्कं नमामि परमेशि ॥८२॥
ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं
वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम्।
नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय-
न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥८३॥
उड्याणजालन्धर कामरूप-
पीठानिमान् पूर्णगिरिप्रसक्तान् ।
त्रिकोणदक्षाग्रिमसव्यभाग-
मध्यस्थितान् सिद्धिकरान्नमामि ॥८४॥
लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
नेतांश्चक्रबहिःस्थितान् सुरगणान्वन्दामहे सादरम् ॥८५॥
तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम्।
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
नित्याषोडशकं नमामि  लसितं चक्रात्मनोरन्तरे ॥८६॥
हृदिभावितदैवतं प्रयत्ना-
द्युपदेशानुगृहीतभक्तसंघम्।
स्वगुरुक्रमसंज्ञचक्रराज-
स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥८७॥
हृदयमथ शिरः शिखाखिलाद्ये
कवचमथो नयनत्रयं च देवि ।
मुनिजनपरिचिन्तितं तथास्त्रं
स्फुरतु सदा हृदये षटङ्कमेतत् ॥८८॥
त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
चञ्चद्विभूषणगणत्रिपुराधिवासे ।
रेखात्रये स्थितवतीरणिमादिसिद्धी-
र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥८९॥
सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
विस्फूर्जत्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्यांबरा
योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥९०॥
महेशि वसुभिर्दलैर्लसत् सर्वसंक्षोभणे
विभूषणगणस्फुरत् त्रिपुरसुन्दरीसद्मनि।
अनंगकुसुमादयो विविधभूषणोद्भासिता
दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥९१॥
लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी
मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥
बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः।
कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥९३॥
अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः।
नानारत्नविभूषणं मणिगणभ्राजिष्णुदिव्यांबरं
सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥९४॥
सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते
रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥९५॥
चूताशोकविकासिकेतकरजः प्रोद्भासिनीलांबुज-
प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं
वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥९६॥
त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
युते त्रिपुरयांबया स्थितवती च कामेश्वरी।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
करोतु भगमालिनी स्फुरतु मामके चेतसि ॥९७॥
सर्वानन्दमये समस्तजगतामाकांक्षिते बैन्दवे
भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषांबरा
विस्फूर्ज्जद्वदना परापररहः सा पातु मं योगिनी ॥९८॥
उल्लसत्कनककान्तिभासुरं
सौरभस्फुरणवासितांबरं ।
दूरतः परिहृतं मधुव्रतै
रर्पयामि तव देवि चम्पकम् ॥९९॥
वैरमुद्धतमपास्य शंभुना
मस्तके विनिहितं कलाच्छलात् ।
गन्धलुब्धमधुपाश्रितं सदा
केतकीकुसुममर्पयामि ते ॥१००॥
चूर्णीकृतं द्रागिव पद्मजेन
त्वदाननस्पर्धिसुधांशुबिम्बम्।
समर्पयामि स्फुटमञ्जलिस्थं
विकासिजातीकुसुमोत्करं ते ॥१०१॥
अगरुबहलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभ्याम्।
दिशि विदिशि विसर्पद्गण्डलुब्धालिमालां
वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥१०२॥
ईंकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्द्दं च रेखात्मकं।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
न्नानन्दांबुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥१०३॥
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम्।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥
जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः ।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथक्
पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥१०५॥
शिंबीसुरणशाकबिंबबृहतीकूष्माण्डकोशातकी-
वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-
न्यग्रे ते विनिवेशयामि गिरिजे सौवर्णपात्रव्रजे ॥१०६॥
निंबूकार्द्रकचूतकन्दकदली कौशातकीकर्कटी
धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान् पातये
संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ।१०७॥
सितयाञ्चितलड्डुकव्रजान्
मृदुपूपान्मृदुलाश्च पूरिकाः
परमान्नमिदं च पार्वति
प्रणयेन प्रतिपादयामि ते ॥१०८॥
दुग्धमेतदनले सुसाधितं
चन्द्रमण्डलनिभं तथा दधि।
फाणितं शिखरिणीं सितासितां
सर्वमंब विनिवेदयामि ते ॥१०९॥
अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥११०॥
वामेन स्वर्णपात्रीमनुपदपरमान्नेन पूर्णां दधाना-
मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीं
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकांगीं
तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥१११॥
पंक्त्योपविष्टान् परितस्तु चक्रं
शक्त्या स्वयालिंगितवामभागान्
सर्वोपचारैः परिपूज्य भक्त्या
तवांबिके पारिषदान्नमामि ॥११२॥
परमामृतमत्तसुन्दरी-
गणमध्यस्थितमर्कभासुरम्  ।
परमामृतघूर्णितेक्षणं
किमपि ज्योतिरुपास्महे परम् ॥११३॥
दृश्यते तव मुखांबुजं शिवे
श्रूयते स्फुटमनाहतध्वनिः ।
अर्चने तव गिरामगोचरे
न प्रयाति विषयान्तरं मनः ॥११४॥
त्वन्मुखांबुजविलोकनोल्लसत्-
प्रेमनिश्चलविलोचनद्वयीं
उन्मनीमुपगतां सभामिमां
भावयामि परमेशि तावकीम् ॥११५॥
चक्षुः पश्यतु नेह किञ्चन परं घ्राणं न वा जिघ्रतु
श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालंबताम् ।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥११६॥
यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम्।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥११७॥
गणाधिनाथं वटुकं च योगिनीः
क्षेत्राधिनाथं च विदिक्चतुष्टये।
सर्वोपचारैः परिपूज्य भक्तितो
निवेदयामो बलिमुक्तयुक्तिभिः ॥११८॥
वीणामुपान्ते खलु वादयन्त्यै
निवेद्य शेषं खलु शेषिकायै
सौवर्णभृंगारविनिर्गतेन
जलेन शुद्धाचमनं विधेहि ॥११९॥
तांबूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
जातीपूगलवंगचूर्णखदिरैर्भक्त्या समुल्लासितम्।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं  सौवर्णपात्रेस्थितै-
र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकम् गृह्यताम् ॥१२०॥
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
रंभा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
नित्यानन्दसुधांबुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥१२१॥
तांबूलोल्लासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासंगमाकर्ण्यमानम् ।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
र्वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥१२२॥
अर्चाविधौ ज्ञानलवोऽपि दूरे
दूरे तदापादकवस्तुजातम् ।
प्रदक्षिणिकृत्य ततोऽर्चनं ते
पञ्चोपचारात्मकमर्पयामि ॥१२३॥
यथेप्सितमनोगतप्रकटितोपचारार्चितां
निजावरणदेवतागणवृतां सुरेशस्थिताम्।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टांगकै-
र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥१२४॥
विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु
चित्तं त्वत्पदभावने व्यभिचरेत् दृग्वाक्च मे जातु चे-
त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥१२५॥
क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम्।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥१२६॥
नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥

 

DEVI CHATUHSHASHTI UPACHARA PUJA STOTRAM

              देवीचतुःषष्ट्युपचारपूजास्तोत्रम्
     (श्रीमच्छंकरभगवत्पादविरचितम्)
उषसि मागधमंगलगायनै-
र्झटिति जागृहि जागृहि
अतिकृपार्द्रकटाक्षनिरीक्षणैः
जगदिदं जगदंब सुखीकुरु  ॥१॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुंभयुक्तम् ।
मणिमण्डपमध्यमेहि मात-
र्मयि कृपयाशु समर्चनं गृहीतुम् ॥२॥
कनककलशशोभमानशीर्षं
जलधरलंबि समुल्लसत्पताकम्।
भगवति तव संनिवासहेतोः
मणिमयमन्दिरमेतदर्पयामि  ॥३॥
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा।
नवरत्नविभूषिता मया
शिबिकेयं जगदंब तेऽर्पिता ॥४॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय ॥५॥
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तंभचतुष्टयेन युक्तं
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि ॥६॥
दूर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यं।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥७॥
गन्धपुष्पयवसर्षपदूर्वा-
संयुतं तिलकुशाक्षतमिश्रम्।
हेमपात्रनिहितं सह रत्नै-
रर्घ्यमेतदुररीकुरु मातः ॥८॥
जलजद्युतिना करेण जाती-
फलतक्कोललवंगगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
र्भगवत्याचमनं विधीयताम् ॥९॥
निहितं कनकस्य संपुटे
पिहितं रत्नपिधानकेन यत्
तदिदं जगदंब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥१०॥
एतच्चंपकतैलमंब विविधैर्पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृंगैर्भ्रमद्भिर्वृतम्।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वंगेषु चालिप्यते ॥११॥
मातः कुंकुमपङ्कनिर्मितमिदं  देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः।
केशानामलकैर्विशोध्य विशदान् कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुंभसहितैः संवासितोष्णोदकैः ॥१२॥
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः
स्नपयामि तवाहमादरा-
ज्जननि त्वां पुनरुष्णवारिभिः ॥१३॥
एलोशीरसुवासितैर्सकुसुमैर्गंगादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैर्स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरात्
स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥१४॥
बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमंगीकुरु ॥१५॥
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् ॥१६॥
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान् कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चंपकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥१७॥
सौवीराञ्जनमंब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत्।
तन्न्यूनं मलिनमपि त्वदक्षिसंगात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥१८॥
मञ्जीरे पदयोर्निधानरुचिरां विन्यस्य काञ्चीम् कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले।
केयूराणि भुजेषु रत्नवलयश्रेणीं  करेषु क्रमा-
त्ताटङ्के तव कर्णोयो र्विनिदधे शीर्षे च चूडामणिम् ॥१९॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं  नासापुटे मौक्तिकम्।
मातर्मौक्तिकजालिकाम् च कुचयोः सर्वांगुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥२१॥
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥२२॥
जननि चंपकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम्।
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् ॥२३॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥२४॥
मन्दारकुन्दकरवीरलवंगपुष्पै-
स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचंपककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥२५॥
मालतीवकुलहेमपुष्पिका
काञ्चनारकरवीरकैतकैः
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदंब ते वपुः ॥२६॥
पारिजातशतपत्रपाटलै-
र्मल्लिकावकुलचंपकादिभिः।
अंबुजैः सुकुसुमैश्च सादरं
पूजयामि जगदंब ते वपुः ॥२७॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोटितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमंगीकुरु ॥२८॥
  
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोटितै-
र्दीपैर्दीर्घतरांधकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥२९॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररंभाफलैः ।
एलाजीरकहिंगुनागरनिशाकुस्तुंभरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥३०॥
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदंब मयार्पितानि ॥३१॥
क्षीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
संभ्रमेण परिपीयतां मुहुः ॥३२॥
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुंकुमेन
हस्तौ समुद्वर्तय चन्दनेन ॥३३॥
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम्।
पटपूतमिदं जितामृतं
शुचि गंगाजलमंब पीयताम् ॥३४॥
जंब्वाम्ररंभाफलसंयुतानि
द्राक्षाफलक्षौद्रसमन्वितानि।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥३५॥
कूश्माण्डकोशातकिसंयुतानि
जंबीरनारंगसमन्वितानि ।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि ॥३६॥
कर्पूरेणयुतैर्लवंगसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः।
मातः कैतकपत्रपाण्डुरुचिभिस्तांबूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं तांबूलमंगीकुरु ॥३७॥
एलालवंगादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि।
तांबूलवल्लीदलसंयुतानि
पूगानि ते देवि समर्पयामि ॥३८॥ 
तांबूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तं।
सौवर्णपात्रनिहितं खदिरेण सार्धं
तांबूलमंब वदनांबुरुहे गृहाण ॥३९॥
महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान् बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान् प्रकृष्टान्
भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥४०॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः॥४१॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥४२॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम्।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम्॥४३॥
शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः।
जगदंब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥४४॥
मार्ताण्डमण्डलनिभो जगदंब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते।
पूर्णेन्दुबिंबरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥४५॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम्।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदंब सहस्रदीपैः ॥४६॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगंभीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरंगः ॥४७॥
मधुकरवृतकुंभन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिंकिणीशोभिकण्ठः।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातंग एषः ॥४८॥
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तं ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥४९॥
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तं ।
अतिबहु चतुरंगसैन्यमेतद्-
भगवति भक्तिभरेण तेऽर्पयामि॥५०॥
परिघीकृतसप्तसागरं
बहुसंपत्सहितं मयांब ते विपुलम्।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥५१॥
शतपत्रयुतैः स्वभावशीतै-
रतिसौरभ्ययुतैःपरागपीतैः।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदंब वीजयामि ॥५२॥
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरंगभूमिः।
इयमतिरुचुरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥५३॥
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृंगमालाः।
युवजनसुखकारि चारुलीला
भगवति ते पुरतः नटन्ति बालाः ॥५४॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥५५॥
डमरुण्टिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्रगडादयः ।
झटिति झाङ्कृतझांकृतझांकृतै-
र्बहुदयं हृदयं सुखयन्तु ते ॥५६॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि ॥५७॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि ॥५८॥
तवदेविगुणानुवर्णने
चतुरा नो चतुराननादयः
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तवकर्तुमीश्वरः ॥५९॥
पदे पदे यत्परिपूजकेभ्यः
सद्योऽश्वमेधादिफलं ददाति।
तत्सर्वपापक्षयहेतुभूतं
प्रदक्षिणं ते परितः करोमि ॥६०॥
रक्तोत्पलारक्तलताप्रभाभ्यां
ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम्।
अशेषबृन्दारकवन्दिताभ्यां
नमो भवानीपदपंकजाभ्याम् ॥६१॥
चरणनलिनयुग्मं पंकजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥६२॥
अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्
भगवति भवनेऽस्तु ते निवासः ॥६३॥
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मिन्
पर्यंके कनकमये निषीद मातः ॥६४॥
तव देवि सरोजचिह्नयोः
पदयोर्निर्जितपद्मरागयोः।
अतिरक्ततरैरलक्तकैः
पुनरुक्तां रचयामि रक्तताम् ॥६५॥
अथ मातरुशीरवासितं
निजतांबूलरसेन रञ्जितम्।
तपनीयमये हि पट्टके
मुखगण्डूषजलं विधीयताम् ॥६६॥
क्षणमथ जगदंब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने।
अतिरहसि मुदा शिवेनसार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥६७॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां
अक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणीद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि॥६८॥
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व।
न्य़ूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥६९॥
पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान् पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति ॥७०॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति।
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत्
वाग्वादिन्याः प्रसादेन वत्सरात्स कवीभवेत् ॥


SRI RAJARAJESHWARI CHURNIKA

श्री राजराजेश्वरी चूर्णिका
श्रीमत् कमलापुर कनकधराधरवर निरुपम परम पावन मनोहर प्रान्ते, सरसिजभवोपम विश्वंभरामरवर्ग निर्गलत्संभ्रम पुंखानुपुंख निरन्तर पठ्यमान निखिल निगमागम शास्त्रपुराणेतिहास कथानिर्मल निनादसमाक्रान्ते    [१]
तत्र प्रवर्द्धित मन्दार-मालूर-कर्णिकार-सिन्धुवार-खर्जुर-कोविदार-जंबीर-जंबू-निंब-कदंबोदुंबर-साल-रसाल-तमाल-तक्कोल-हिन्ताल-नारिकेल-कदली-क्रमुक-मातुलंग-नारंग-लवंग-बदरी-चंपकाशोक-मधूक-पुन्नागागरुचन्दन-नागकुरुवक-मरुवक-एला-द्राक्षा-मल्लिका-मालती-माधवीलता-शोभायमान-पुष्पित-फलित-ललित विविधवनतरुवाटिका मद्ध्यप्रदेशे    [२]
शुक-पिक-शारिका निकर-चकोर-मयूरचक्रवाक-बलाक-भरद्वाज-पिंगल-टिट्टिभ-गरुड-विहंग-कलायन कोलाहलाराव परिपूरिताशे तत्र सुधारसोपमपानीय
परिपूर्णकासार तटाकस्फुटितारविन्द पुण्डरीक कुमुदेन्दीवर-षण्ड सन्ञ्चरन्मराल चक्रवाक कारण्डक प्रमुख जलजाण्डजमण्डली शोभायमाने, नन्दनवनकृतबहुमाने   [३]   
चारुचामीकर रत्नगोपुर प्राकारवलयिते, सुललिते, सुस्निग्धविराजित वज्रस्तंभ सहस्र- पद्मरागोपलफलक जात नूतननिर्मित-प्रथममण्डप-द्वितीयमण्डप –अन्तरालमण्डप मूलमहामण्डपस्थाने, शिल्पिशास्त्रप्रधाने, खचित वज्र-वैडूर्य-माणिक्य-गोमेदक-पद्मराग-मरकत-नील-मुक्ता-प्रवालाख्य नवरत्न तेजोविराजित बिन्दु-त्रिकोण-षट्कोण-वसुकोण
दशारयुग्म मन्वन्तराष्टदल षोडशदल चतुर्द्वारयुत भूपुरत्रय श्रीचक्रस्वरूप भद्रसिंहासनासीने, सकलदेवताप्रधाने !            [४]
चरणांगुलिनखमुखरुचिनिचयपराभूततारके, श्रीमन्माणिक्य मञ्जीर रञ्जित श्रीपदांबुजद्वये,अद्वये,  मीनकेतनमणितूणीरविलासविजयिजंघायुगले, कनकरंभास्तंभजृंभितोरुद्वये, कन्दर्प-स्वर्णस्यन्दनपटुतर शकटसन्निभ  नितंबबिंबे कुचभारनम्रदृष्टावलग्न विभूषित कमनीय काञ्चीकलापे [५] 
दिनकरोदयावसर –अर्धविकसितारविन्द-कुड्मलतुल्यनाभिप्रदेशे, रोमराजीविराजित-वलित्रयी भासुरकरभोदरे, जंभासुररिपु कुंभिकुंभ-
समुज्जृंभित शातकुंभायमान संभावित पयोधरद्वये,
गोप्लूत कुचकलशकक्षद्वयारुणारुणित सूर्यपुटाभिधान परिधान निर्मित मुक्तामणिप्रोत कञ्चुकविराजमाने, कोमलतर कल्पवल्लीसमानपाशांकुश वराभय मुद्रामुद्रित कङ्कण झणझणत्कार विराजित
चतुर्भुजे !    [६]
त्रैलोक्यजैत्रयात्रागमन-समनन्तर- संगत- सुरवर-
कनकगिरीश्वर- करबद्ध- मंगलसूत्र-त्रिरेखाशोभित
कन्धरे, नवप्रवाल-पल्लव-पक्वबिंबफलाधरे,
निरन्तरकर्पूरतांबूलचर्वणारुणित रदनपंक्तिद्वये,
चंपकप्रसूनतिलपुष्पसमान नासापुटाग्रोदन्ञ्चित-
मौक्तिकाभरणे, कर्णावतंसीकृतेन्दीवर-विराजित-
कपोलभागे, अरविन्ददलसदृशदीर्घलोचने  [७]
कुसुमशर-कोदण्डलेखालंकारकारि मनोहारि भ्रूलतायुगले, बालप्रभाकर- शशिकरपद्मरागमणिनिकराकार- सुरुचिर- रुचिमण्डल कर्णकुण्डलमण्डित गण्डभागे, सुललिताष्टमी चन्द्रलावण्य ललाट फलके, कस्तूरिकातिलके,
हरिनीलमणि द्विरेफावलि प्रकाशकेशपाशे,
कनकांगद-हारकेयूर-नानाविधायुध-भूषाविशेषाद्ययुत-
स्थिरीभूतसौदामिनी तुलित ललित नूतन
तनूलते ! [८]
काश्यपात्रि भरद्वाज-व्यास-पराशर-मार्कण्डेय-
विश्वामित्र-कण्व-कपिल-गौतम-गर्ग-पुलस्त्यागस्त्यादि
सकल मुनिध्येय-ब्रह्मतेजोमये, चिन्मये!        [९]
सेवार्थागत अंग-वंग-कलिंग-कांभोज-काश्मीर-
कारूप-सौवीर-सौराष्ट्र-महाराष्ट्र-मागध-विराट-
गुर्ज्जर-मालव-निषध-चोल-चेर-पाण्ड्य-पाञ्चाल-
गौड-बृंहल-द्रवड-द्राविड-घोट-लाट-मराट-वराट-
कर्णाटक-आन्ध्र-हूण-भोज-कुरु-गान्धार-
विदेह-विदर्भ-विजृंभ-बाह्लीक-बर्बर-केरल-
केकय-कोसल-शूरसेन-च्यवन-टंकण-कोंकण-
मत्स्य-माध्व-सैन्धव-बल्हूक-भूचक्रयुग-
गान्धार-काशी-भद्राशी-ऐन्द्रगिरि-नागपुरी-
घंटानगरी-उत्तरगिरि- आख्य षट्पञ्चाशत्
देशाधीशादि गन्धर्वहेषारव सिन्धुसिन्धूर-
हीत्काररव रथांग क्रैंकारभेरी झंकार-
मद्दलध्वनि हुंकारयुक्त चतुरंगसमेत-
जित-राजसुर-रजाधिराज पुंखानुपुंख गमनागमनविशीर्णाभरणाद्ययुत
समुत्पन्नपरागपाटली वालुकायमान
प्रथम मण्डप सन्निधाने !          [१०]
तत्तत् पूजाकालक्रियमाण- पाद्य-
अर्घ्य-आचमनीय-स्नान-वस्त्र-आभरण-
गन्ध-पुष्प-अक्षत-धूप-दीप-नैवेद्य-
तांबूल-मंत्रपुष्प-स्वर्णपुष्प-प्रदक्षिण-
नमस्कार-स्तोत्रपारायण-सन्तोषित-
सन्तत-वरप्रदानशीले, सुशीले !     [११]
रंभोर्वशी-मेनका-तिलोत्तमा-हारिणी-घृताची-
मञ्जुघोषा, अलंबुसाद्ययुताप्सरस्त्री धिमिन्धिमित
चित्रोपचित्रनर्तनोल्लासावलोकनप्रिये, कृत्तिवासप्रिये,
भण्डासुर प्रेषिताखण्डबलदोर्द्दण्डरक्षोमण्डली खण्डने,
निजकरांगुलीयकात् मत्स्य- कूर्म-वराह-नृसिंह-वामन-
परशुराम-श्रीराम-बलराम-श्रीकृष्ण-कल्क्याख्य-नारायण
दशावतार हेतुभूते, हिमवत्कुलाचल राजकन्ये,
सर्वलोकमान्ये, कोटिकन्दर्पलावण्य तारुण्य कनकगिरीश्वर त्यागराजवामपार्श्वद्वये, त्रिभुवनेश्वरि
सर्वप्रदायिनि!                       [१२]   
 श्रीविद्याधीशरचित चूर्णिका श्रवण-पठनानन्दिनां 
संप्रार्थित-आयुरारोग्य-सौन्दर्य-विद्या-बुद्धि-पुत्र-पौत्र-
कलत्रैश्वर्यादि सकल सौख्य प्रदे
त्रिभुवनेश्वरि ! श्रीमत् कमलांबिके पराशक्ते!
मातः ! नमस्ते! नमस्ते! नमस्तॆ!
पाहि मां! पाहि मां!  पाहि मां!
मुक्ताविद्रुमहेमकुण्डलधरा सिंहाधिरूढा शिवा
रक्तांभोजसमानकान्तिवदना श्रीमत्किरीटान्विता।
मुक्ताहेमविचित्रहारकटकैः पीतांबरा शंकरी
भक्ताभीष्टवरप्रदानचतुरा मां पातु हेमांबिका ॥