GANESHA BAHYA PUJA

   गणेशबाह्यपूजा
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥
आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित!
सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥
कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥३॥
रत्नसिंहासनं स्वामिन् गृहाण गणनायक।
तत्रोपविश्य विघ्नेश! रक्ष भक्तान् विशेषतः ॥४॥
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!।
शीतोष्णाद्भिः करोमि ते गृहाण पाद्यमुत्तमम्॥५॥
सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः।
आचामं च तु तेनैव कुरुष्व गणनायक! ॥६॥
रत्नप्रवालमुक्ताद्यैरनर्घैस्संस्कृतं प्रभो!।
अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥७॥
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते॥८॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥९॥
चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम्।
अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१०॥
यक्षकर्दमकाद्यैश्च विघ्नेश! भक्तवत्सल!
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो! ॥११॥
    
नानातीर्थजलैर्डुण्ढे! सुखोष्णभवरूपकैः।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः॥१२॥
कामधेनुसमुद्भूतं पयः परमपावनम्।
तेन स्नानं कुरुष्व त्वं हेरंब! परमार्थवित्॥१३॥
पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः।
कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥१४॥
दधिधेनुपयोद्भूतं मलापहरणं परम्।
गृहाण स्नानकार्यार्थं विनायक दयानिधे! ॥१५॥
धेनुसमुद्भवं डुण्ढे! घृतं सन्तोषकारकम्।
महामलापघातार्थं तेन स्नानं कुरु प्रभो!॥१६॥
सारकं संस्कृतं पूर्णं मधुमधुरसोद्भवम्।
गृहाण  स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥१७॥
इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम्।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥१८॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर!।
आद्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥१९॥
ततो गन्धाक्षतादींश्च दूर्वाङ्कुरान् गजानन ।   
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर! ॥२०॥
ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥२१॥
ततः आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२२॥
वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम्।
लोकलज्जाहरं चैव विघ्नराज नमोऽस्तु ते ॥२३॥
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा।
गृहाण सर्वसिद्धीश! मया दत्तं सुभक्तितः ॥२४॥
उपवीतं गणाध्यक्ष गृहाण च ततः परं।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥२५॥
ततः सिन्दूरकं देव गृहाण गणनायक।
अङ्गलेपनभावार्थं सदाऽऽनन्दविवर्धनम् ॥२६॥
नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भोः! ॥२७॥
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन!।
द्वादशाङ्गेषु ते डुण्ढे! लेपयामि सुचित्रवत् ॥२८॥
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान्।
अक्षतान् विघ्नराज! त्वं गृहाण फालमण्डले ॥२९॥
चंपकादिसुवृक्षेभ्यः संभृतानि गजानन!।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३०॥
दशांगगुल्गुलुं धूपं सर्वसौरभकारकम्।
गृहाण त्वं मया दत्तं विनायक महोदर! ॥३१॥
नानाजातिभवं दीपं गृहाण गणनायक।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥३२॥
चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम्।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप! ॥३३॥
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम्।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३४॥
भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष! पिबेत्तोयं सुवासितम् ॥३५॥
दाडिमं खर्ज्जुरं द्राक्षां रंभादीनि फलानि वै।
गृहाण देवदेवेश! नानामधुरकाणि तु॥३६॥
अष्टांगं देव ताम्बूलं गृहाण मुखवासनम्।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥३७॥
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम्।
रत्नाद्यैस्संयुतां डुण्ढे! गृहाण सकलप्रिय ॥३८॥
राजोपचारकादीनि गृहाण गणनायक।
दानानि तु विचित्राणि मया दत्तानि विघ्नप! ॥३९॥
ततः आभरणं तेऽहमर्पयामि विधानकः।
उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥४०॥
ततो दूर्वाङ्कुरान् डुण्ढे! एकविंशतिसंख्यकान्।
गृहाण न्यूनसिध्यर्थं भक्तवात्सल्यकारणात् ॥४१॥
नानादीपसमायुक्तं नीराजनं गजानन।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥४२॥
गणानां त्विति मन्त्रस्य जपं साहस्रकं परम्।
गृहाण गणनाथ! त्वं सर्वसिद्धिप्रदो भव ॥४३॥
आर्तिक्यं च सुकर्पूरं नानादीपमयं यथा।
गृहाण ज्योतिषां नाथ! तथा नीराजनाम्यहम् ॥४४॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो! ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निराजनम् ॥४५॥   
 
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन!।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप! ॥४६॥
पञ्चप्रकारकैस्स्तोत्रैर्गाणपत्यैर्गणाधिप!।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक!॥४७॥
एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन!।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन!॥४८॥
साष्टांगां प्रणतिं नाथ एकविंशतिसम्मिताम्।
हेरंब! सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥४९॥
न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान् प्रभो!।
समर्पयामि तेन त्वं सांग्यं पूजां कुरुष्व ताम् ॥५०॥
त्वया दानं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम्।
शिखायां धारयाम्येव सदा सर्वपदञ्च तत् ॥५१॥
अपराधानसंख्यातान् क्षमस्व गणनायक!।
भक्तं कुरु च मां डुण्ढे! तव पादप्रियं सदा ॥५२॥
त्वं माता त्वं पिता मे वै सुहृत्संबन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५३॥
जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम्।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५४॥
बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत्।
गणेशपादतीर्थस्य मस्तके धारणात् किल ॥५५॥
पादोदकं गणेशस्य पीतं नारेण तत्क्षणात्।
सर्वान्तर्गतजं पापं नश्यतिग्गणनातिगम् ॥५६॥
गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चार्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥५७॥
यदि गणेशपूजादौ गन्धभस्मादिकं चरेत्।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत्॥५८॥
द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत्।
तेन सोऽपि गणेशेन समो भवति भूतले ॥५९॥
 
    
मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकं।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चये ॥६०॥
वामे कर्णस्य मूले वै चैकदन्तं समर्चये।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥६१॥
बाहौ दक्षिणके चैव हेरम्बं वामबाहुके।
विकटं नाभिदेशे तु विनायक! समर्चये ॥६२॥
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चये।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६३॥
सर्वांगलेपनं शस्तं चित्रितं अष्टगन्धकैः।
गणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६४॥
ततोच्छिष्टन्तु नैवेद्यं गणेशस्य भुनज्म्यहम्।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम्॥६५॥
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदास्तु मे गजानन! ॥६६॥  

GANESHA MAHIMA STOTRAM

गणेशमहिमस्तोत्रम्
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
  स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि च सदा यत्र विलयः
   स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः
   रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां
   न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥२॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
   स मीमांसा वेदान्तिन इति परं ब्रह्म सकलम्।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं
   प्रकर्तारं न्याय्यास्त्वथ जगति बौद्धा धियमिति ॥३॥
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
  र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
  द्ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
  स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये
  त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥५॥
न यस्यान्तो मध्यो न च भवति चादिः सुमहतो-
  प्यलिप्तः कृत्वेत्थं सकलमपि खं वत्स च पृथक्।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियंकरो
   नमस्तस्मै देवाय सकलसुवन्द्याय महते ॥६॥
गणेशाद्यं बीजं दहनवनितापल्लवयुतं
  मनुश्चैकार्णोयं प्रणवसहितोभीष्टफलदः।
स बिन्दुश्चांगाद्यां गणक ऋषिछन्दोस्य च निचृत्
  स देवः प्राग्बीजं विपदधि च शक्तिर्जपकृताम् ॥७॥
गकारो हेरंबः सगुण इति पुनर्निर्गुणमयो
  द्विधाप्येको जातः प्रकृतिपुरुषौ ब्रह्म हि गणः ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको
   यतो भूतं भव्यं भवति पतिरीशे गणपतिः॥८॥
गकारः कण्ठोर्ध्वं गजमुखसदृशो मर्त्यसदृशो
  णकारः कण्ठाधो जठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोस्य च तनु-
  र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥९॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
   सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम्।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं
   न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥ 
गणेशेत्याह्वां यः प्रवदति मुहुस्तस्यपुरतः
  प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा।
स्वरूपस्य ज्ञानन्त्वमुक इति नाम्नाऽस्य भवति
  प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥
गणेशो विश्वेस्मिन् स्थित इह च विश्वं गणपतौ
  गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम्।
समुक्तं नामैकं गणपतिपदं मंगलमयं
   तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम्॥१२॥
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये  
   क्षणात् क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत्।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने
    प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥१३॥
गणाध्यक्षः ज्येष्ठः कपिल अपरो मंगलनिधि-
  र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो डुण्ढिर्गजवदननारः शिवसुतो
   मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
  क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो
   यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
    रविर्नेत्रे चन्द्रो हृदयमपि कामोस्य मदनः।
करौ शक्रः कट्यामवनिरुदरं भानि दशनं
     गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥१६॥
अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः
   करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट्।
स्मितास्या तन्मध्येप्युदितरविबिम्बोपमरुचि
   स्थिता सिद्धिर्वामे मतिरितरे चामरकरा ॥१७॥
समन्तात्तस्यासन् प्रवरमुनिसिद्धास्सुरगणाः
   प्रशंसन्त्यग्रे विविधनुतिभिः साञ्जलिपुटाः।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
   र्गणाक्रीडामोदप्रमुदविकटाद्यैस्सहचरैः ॥१८॥
वशित्वाद्यष्टाष्टा दशदिगखिलोल्लोलमनुवाग्-
   धृतिः पाद्मः खड्गोऽञ्जनरसबलाः सिद्धय इमाः।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया
    गणेशं सेवन्तेप्यतिनिकटसूपायनकराः ॥१९॥  
   
 मृगाङ्कास्या रंभाप्रभृति गणिका यस्य
पुरतः
    सुसंगीतं कुर्वन्त्यतिकुतुकगन्धर्वसहिताः
मुदः पारो नात्रेत्यनुपमपदे द्योर्विगलिता
    स्थिरं जातं चित्तं चरणमवलोक्यास्य
विमलम् ॥२०॥
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे
   गणेशः पार्वत्या बलिविजयकालेपि हरिणा।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
   नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा
॥२१॥
अयं सुप्रासादे सुर इव निजानन्दभुवने
  महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
  स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः
॥२२॥
अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे
  ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः।
दयालुर्हेरंबो न भवति यस्मिंश्च पुरुषे
   वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि
॥२३॥
वरेण्योभ्रूशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
  ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः।
गणेशोयं भक्तप्रिय इति सर्वत्र गतयो
   विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः
   स्मृता व्याजा मूर्तिः पथि यदि बहिर्येन
सहसा।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
    श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय
इति ॥२५॥
बहिर्द्वारस्याध्वं गजवदनवर्ष्मेन्धनमयं
   प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र
निहितं ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं
   विलोक्यानन्दस्तां भवति जगतो विस्मय
इति ॥२६॥
सिते भाद्रे मासे प्रतिशरदि  मध्याह्नसमये
  मृदो मूर्तिं कृत्वा गणपतितिथौ डुण्ढिसदृशीम्।
समर्चन्नुत्साहः प्रभवति महान् सर्वसदने
  विलोक्यानन्दस्तां प्रभवति नृणां विस्मय
इति ॥२७॥
तथाह्येकःश्लोको वरयति महिम्नो गणपतेः
   कथं स श्लोकेस्मिन् स्तुत इति भये
संप्रति तते।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
    यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम्
॥२८॥
गजवदनविभो यद्वर्णितं वैभवं ते
   त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु।
त्वमसि च करुणायास्सागरः कृत्स्नदाता-
   प्यपि तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि
॥२९॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव
  स्वानन्दं प्रतिगमनेप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविन्दं
   स्थाप्याग्रे स्तवनफलं नतिः करिष्ये
॥३०॥
गणेशदेवस्य महात्म्यमेत-
  द्यः श्रावयेद्वापि पठेच्च तस्य।
क्लेशा लयं यान्ति लभेच्च शीघ्रं
   स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥३१॥
 ॥इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिमस्तोत्रं
संपूर्णम्॥   
  
   

Ganesha Manasa Puja

         गणेशमानसपूजा
विघ्नेशवीर्याणि विचित्रकानि
वन्दीजनैर्मागधकैः स्मृतानि।
श्रुत्वा समुत्थिष्ठ गजानन! त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥
एवं मया प्रार्थितविघ्नराज-
श्चित्तेन चोत्थाय बहिर्गणेशं ।
तं निर्गतं वीक्ष्य नमन्ति देवा-
श्शंभ्वादयो योगिमुखास्तथाहम् ॥२॥
शौचादिकं ते परिकल्पयामि
हेरंब! वै  दन्तविशुद्धिमेवम्।
वस्त्रेण संप्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥३॥
द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः।
संभाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥४॥
रत्नैः सुदीप्तैः प्रतिबिंबितं तं
पश्यामि चित्तेन विनायकं च।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज!
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥६॥
ततः सुवस्त्रेण गणेशपादौ
संप्रोक्ष्य दूर्वादिभिरर्चयामि।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरुते पदाब्जे॥७॥
कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥८॥
प्रवालमुक्ताफलहाटकाद्यै-
स्सुसंस्कृतं ह्यान्तरभावकेन।
अनर्घमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज डुण्ढे ॥९॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
संकल्पितं भावयुतं गृहाण।
पुनस्तथाचम्य विनायक! त्वं
भक्तांश्च भक्तेश सुरक्षयाशु॥१०॥
सुवासितं चंपकजातिकाद्यै-
स्तैलं मया कल्पितमेव डुण्ढे!।
गृहाण तेन प्रविमर्द्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥११॥
ततः सुखोष्णेन जलेन चाह-
मनेकतीर्थाहृतकेन डुण्ढिम्।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥१२॥
ततः पयःस्नानमचिन्त्यभाव!
गृहाण तोयस्य तथा गणेश।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥१३॥
ततो घृतस्नानमपारवन्द्य!
सुतीर्थजं विघ्नहर! प्रसीद।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥१४॥
सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव डुण्ढे!।
ततो जलस्नानमघापहन्त्रे
विघ्नेश! मायाभ्रम वारयाशु ॥१५॥
सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते! ततश्च।
कौमण्डलीसंभवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु॥१६॥

ततस्तु सूक्तैर्मनसा गणेशं
संपूज्य दूर्वादिभिरल्पभावैः।
अपारकैर्मण्डलभूतब्रह्म-
णस्पत्यकैस्तं ह्यभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन डुण्ढे!
ह्याचान्तमेवं कुरु विघ्नराज! ॥१८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घमौल्ये मनसा मया ते।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय॥१९॥
आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो तथा तारकसंयुतन्तु॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम्।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥२१॥
आचाममेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन डुण्ढे!
पुनश्च कौमण्डलकेन पाहि
विश्वं प्रभो खेलकरं सदा ते ॥२२॥
उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तं।
सर्वांगसंलेपनमादराद्वै
कुरुष्व हेरंब! च तेन पूर्णम् ॥२३॥
सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥२४॥
विचित्ररत्नैः कनकेन डुण्ढे!
युतानि चित्तेन मया परेश!
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणानि॥२५॥
शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण।
रत्नैश्च युक्तं मनसा मया य-
द्दत्तं प्रभो! तत्सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्चयुतानि डुण्ढे!
सदैकदन्ताभरणानि कल्प्य
गृहाण चूडाकृतये परेश!
दत्तानि दन्तस्य च शोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य।
संभूषय त्वं कटकानि नाथ!
चतुर्भुजेषु ह्यज! विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्ण-
संभूतकं गृह्य मया प्रदत्तं
तथांगुलीष्वंगुलिकं गणेश
चित्तेन संशोभय तत् परेश ॥२९॥
विचित्ररत्नैः खचितानि डुण्ढे!
केयूरकाणि ह्यथ कल्पितानि।
सुवर्णजानि प्रमथाधिनाथ!
गृहाण दत्तानि तु बाहुषु त्वं ॥३०॥
प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला
उरूदरे शोभय विघ्नराज! ॥३१॥
चन्द्रं ललाटे गणनाथ! पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम्।
संशोभय त्वं वरसंयुतं ते
भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिन्तामणिं चिन्तितदं परेश!
हृद्देशगं ज्योतिर्मयं कुरुष्व।
मणिं सदानन्दसुखप्रदं च
विघ्नेश! दीनार्थद! पालयस्व ॥३३॥
नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ!
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश! ॥३४॥
कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुरत्नेन च धारयामि।
विघ्नेश! ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥
हेरंब! ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जरिके तथैव।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥३६॥
इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि।
संभूषयाम्येव त्वदंगकेषु
विचित्रधातुप्रभवाणि डुण्ढे! ॥३७॥
सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टक गन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त!
गृहाण ते त्वंगविलेपनार्थम् ॥३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
रंगेषु तेऽहं प्रकरोमि चित्रम्।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥३९॥
घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि।
फाले गणाध्यक्ष! गृहाण पाहि
भक्तान् सुभक्तप्रिय दीनबन्धो! ॥४०॥
गृहाण चंपकमालतीनि
जलपंकजानि स्थलपंकजानि।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥४१॥
पुष्पोपरि त्वं मनसा गृहाण
हेरंब! मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि
ह्यपारकाणि प्रणवाकृते! ते ॥४२॥
दूर्वांकुरान् वै मनसा प्रदत्तां-
स्त्रिपंचपत्रैर्यतकांश्च स्निग्धान्।
गृहाण विघ्नेश्वर! संख्यया त्वं
हीनांश्च 
सर्वोपरि वक्रतुण्ड! ॥४३॥
दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज डुण्ढे! ।
गृहाण सौरभ्यकरं परेश!
सिध्या च बुध्या सह भक्तपाल! ॥४४॥
   
दीपं सुवर्त्यायुतमादरात्ते
दत्तं मया मानसकं गणेश!
गृहाण नानाविधजं घृतादि
तैलादिसंभूतममोघदृष्टे! ॥४५॥
भोज्यं तु लेह्यं गणराज! पेयं
चोष्यं च नानाविधषड्रसाढ्यम्।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥४६॥
सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण।
कमण्डलुस्थं मनसा गणेश!
पिबस्व विश्वादिक तृप्तिकारिन् ॥४७॥
ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण डुण्ढे!॥४८॥
पुनस्तथाचम्य सुवासितञ्च
दत्तं मया तीर्थजलं पिबस्व।
प्रकल्प्य विघ्नेश! ततः परं ते
संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥
द्राक्षादिरंभाफलचूतकानि
खर्जूरकार्कन्धुकदाडिमानि।
सुस्वादुयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि डुण्ढे! ॥५०॥
पुनर्जलेनैव करादिकं ते
संक्षालयेऽहं मनसा गणेश!।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश! ॥५१॥
अष्टांगयुक्तं गणनाथ! दत्तं
तांबूलकं ते मनसा मया वै।
गृहाण विघ्नेश्वर! भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थं ॥५२॥
ततो मया कल्पितके गणेश!
महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
रनर्घ्यसंछादितके प्रसीद ॥५३॥
ततस्त्वदीयं चरणं परेश!
संपूजयामि मनसा यथावत्।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामोऽहमनाथबन्धो॥५४॥
गृहाण लंबोदर! दक्षिणां ते
ह्यसंख्यभूतां मनसा प्रदत्ताम्।
सौवर्णमुद्रादिकमुख्य भावां
पाहि प्रभो विश्वमिदं गणेश!॥५५॥
राजोपचारान् विविधान् गृहाण
हस्त्यश्वछत्रादिकमादराद्वै।
चित्तेन दत्तान् गणनाथ! डुण्ढे!
ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥
दानाय नानाविधरूपकांस्ते
गृहाण दत्तान् मनसा मया वै।
पदार्थभूतां स्थिरजंगमांश्च
हेरंब!  मां तारय मोहभावात्॥५७॥
मन्दारपुष्पाणि शमीदलानि
दुर्वांकुरांस्ते मनसा ददामि।
हेरंब! लंबोदर दीनपाल! 
गृहाण भक्तं कुरु मां पदे ते ॥५८॥
ततो हरिद्रामहिरंगुलालं
सिन्दूरकं ते परिकल्पयामि।
सुवासितं वस्तु सुवासभूतै-
र्गृहाण ब्रह्मेश्वर शोभनार्थम्॥५९॥
ततश्शुकाद्याश्शिवविष्णुमुख्या
इन्द्रादयश्शेषमुखास्तथान्ये।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभाशिवस्थं प्रणमन्ति डुण्ढे!॥६०॥
वामांगके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तं।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपं परमार्थभूता॥६१॥
गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः।
विद्याभिरेवं भजते परेशं
मायासु सांख्यप्रदचित्तरूपा ॥६२॥
प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते।
भक्तेश्वरा मुद्गलशंभुमुख्याः
शुकादयस्तं स्म पुरे भजन्ते॥६३॥
गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपं।
नृत्यं कलायुक्तमथो पुरस्ता-
च्चक्रुस्तथाह्यप्सरसो विचित्रम्॥६४॥
इत्यादि नानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥६५॥
चतुर्भुजं पाशधरं गणेशं
धृतांकुशं दन्तयुतं तमेवम्।
त्रिनेत्रयुक्तं त्वभयंकरं तं
महोदरं चैकरदं गजास्यम् ॥६६॥
सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम्।
ध्याये गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम्  ॥६७॥
ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम्।
असंख्यभूतं गणराजहस्ते
समर्पयाम्येव गृहाण डुण्ढे! ॥६८॥
आरात्रिकां कर्पुरकादिभूता-
मपारदीपां प्रकरोमि पूर्णाम्।
चित्तेन लंबोदर्! तां गृहाण-
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥६९॥
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः
सम्मन्त्रितं पुष्पदलं प्रभूतं
गृहाण चित्तेन मया प्रदत्त-
मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥
अपारवृत्त्या स्तुतिमेकदन्त!
गृहाण चित्तेन कृतां गणेश!।
युक्तां श्रुतिस्मार्त्तभवैः पुराणैः
स्तवैः परेशाधिपते मया ते ॥७१॥
प्रदक्षिणा मानसकल्पितास्ता
गृहाण लंबोदर भावयुक्ताः।
संख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥७२॥
नतिं ततो विघ्नपते गृहाण
साष्टांगकाद्यां विविधस्वरूपाम्।
संख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु॥७३॥
न्यूनातिरिक्ता तु मया कृतं चे-
त्तदर्थमन्ते मनसा गृहाण।
दूर्वांकुरान् विघ्नपते प्रदत्तान्
संपूर्णमेवं कुरु पूजनं मे ॥७४॥
क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान्।
भक्तिं मदीयां सफलां कुरुष्व
संप्रार्थयामि मनसा गणेश ॥७५॥
ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
उत्थाय विघ्नेश्वर एवमस्माद्-
गतस्ततस्त्वन्तरधात्स्वशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥७७॥
सर्वान् नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तं।
स्वस्थानमागत्य महानुभावै-
र्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
  
एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि।
तेनैव तुष्टः प्रददातु भावं
विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥
गणेशपादोदकपानकञ्च
उच्छिष्टगन्धस्य सुलेपनं तु।
निर्माल्य सन्धारणकं सुभोज्यं
लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश!।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
ततस्तु शय्यां परिकल्पयामि
मन्दारकूर्पासकवस्त्रयुक्ताम्।
सुवासपुष्पादिभिरर्चितां ते
गृहाण निद्रां कुरु विघ्नराज ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥
एतादृशं सौख्यममोघशक्तं
देहि प्रभो मानसजं गणेश!।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तीरसलालसोऽहम् ॥८४॥
य एतां मानसीपूजां
करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि
गाणपत्यो भविष्यति ॥८५॥
श्रावयिष्यति यो मर्त्यः
श्रोष्यते भावसंयुतः।
संक्रमेण महीपाल
ब्रह्मभूतो भविष्यति ॥८६॥
यं यमिच्छति तं तं वै
सफलं तस्य जायते।
अन्ते स्वानन्दगः सोऽपि
योगिवन्द्यो भविष्यति ॥८७॥

SRI VINAYAKA STUTIH

               श्रीकालटिक्षेत्रे    
                              श्रीविनायकस्तुतिः
                  (शृङ्गेरि
श्रीसच्चिदानन्दशिवाभिनव-
 
                    नृसिंहभारतीस्वामिभिः
विरचिता)
अश्वत्थोऽयं
प्रपञ्चो न हि खलु सुखलेशोऽप्यत्र  तस्माज्जिहास्यो
   लोका इत्यादरेण प्रणतभयहरो वारणाग्र्यास्य एषः।
बोधायैव स्वयं
किं वसति दृढतराश्वत्थमूले  कृपालु-
    र्नाहं जानामि यूयं वदत बुधवराः किं तथा वाऽन्यथा
वा॥
            
॥ इति श्रीविनायकस्तुतिः संपूर्णा॥

SRI GANESHA STAVAH

                 श्रीमूवात्तुप्पुलाक्षेत्रे
 
                                    
श्रीगणेशस्तवः            
      
                
(शृङ्गेरि श्रीसच्चिदानन्दशिवाभिनव-
 
                    नृसिंहभारतीस्वामिभिः
विरचितम्)
                            जननी मृगयतु
मामि-
             त्याच्छाद्यात्मस्वरूपमीशतनुः।
          भासि गिरिजात्मज
त्वं
              किं करिवरवदन
मे ब्रूहि॥
                         ॥इति श्रीगणेशस्तवः संपूर्णः॥

SRI GANADHIPATI STUTIH

                    श्री
गोकर्णक्षेत्रे  
                                  श्रीगणाधिपतिस्तुतिः  
                
 (शृङ्गेरि
श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचिता)
         कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते।
   इति मत्वा मयूरं किमारूढोऽसि गणाधिप ॥१॥
   मत्कुक्षिसुस्थमखिलं जगदिति सर्वान्प्रबोधयितुम्।
   बृहदुदरतां कृपाब्धे धत्से किं करिवरास्य त्वम्॥२॥
   त्वद्दर्शनकृतहासं
चन्द्रमसं हन्तुमुद्युक्तम्।
   त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥३॥
   यच्चातुर्येणैव
हि लोकानुद्धर्तुमम्बिकानाथः।
   गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि विघ्नेशम्॥४॥
             ॥इति श्रीगणाधिपतिस्तुतिः संपूर्णा॥
        

GAKAARA GANAPATI ASHTOTTARA SATANAMAVALI

       गकार गणपति अष्टोत्तरशतनामावलिः
Chant the names with prefix ’ओं’  and suffix ‘नमः’
गणेश्वराय
गणाध्यक्षाय
गणत्रात्रे
गणञ्जयाय
गणनाथाय
गणक्रीडाय
गणकेलिपरायणाय
गणप्राज्ञाय
गणधाम्ने
गणप्रवणमानसाय                 १०
गणसौख्यप्रदात्रे
गणभूतये
गणेष्टदाय
गणराजाय
गणश्रीदाय
गणगौरवदायकाय
गुणातीताय 
गुणस्रष्ट्रे
गुणत्रयविभागकृते
गुणप्रचारिणे                     २०
गुणवते
गुणहीनपराङ्मुखाय
गुणप्रविष्टाय
गुणपाय   
गुणज्ञाय
गुणबन्धनाय
गजराजाय
गजपतये
गजकर्णाय
गजाननाय                 ३०
गजदन्ताय
गजाधीशाय
गजरूपाय
गजध्वनये
गजमुखाय
गजवन्द्याय
गजदन्तधराय
गजाय
गजराजे
गजयूथस्थाय                    ४०
गर्जितत्रातविष्टपाय
गजदैत्यासुरहराय
गजगञ्जकभञ्जकाय
गानश्लाघिने
गानगम्याय
गानतत्त्वविवेचकाय
गानज्ञाय
गानचतुराय
गानज्ञानपरायणाय
गुरुप्रियाय                       ५०
गुरुगुणाय
गुरुतत्त्वार्थदर्शनाय
गुरुवन्द्याय
गुरुभुजाय
गुरुमायाय
गुरुप्रभाय
गुरुविद्याय
गुरुप्राणाय
गुरुबाहुबलाश्रयाय
गुरुकण्ठाय                 ६०
गुरुस्कन्धाय
गुरुजङ्घाय
गुरुप्रदाय
गुर्वङ्गुलये
गुरुबलाय
गुरुश्रिये
गुरुगर्वनुते
गुरूरसे
गुरुपीनांसाय     
गुरुप्रणयलालसाय                 ७०
गुरुधर्मसदाराध्याय
गुरुमान्यप्रदायकाय
गुरुधर्माग्रगण्याय
गुरुशास्त्रालयाय
गुरुमन्त्राय
गुरुश्रेष्ठाय
गुरुसंसारदुःखभिदे
गुरुपुत्रप्राणदात्रे
गुरुपाषण्डखण्डकाय
गुरुपुत्रार्तिशमनाय                 ८०
गौरभानुपरित्रात्रे
गौरभानुवरप्रदाय
गौरीतेजस्समुत्पन्नाय
गौरीहृदयनन्दनाय
गौरीस्तनन्धयाय
गौरीमनोवाञ्छितसिद्धिकृते
गौतमीतीरसञ्चारिणे
गौतमाभयदायकाय
गोपालाय                       ९०
गोधनाय
गोपाय
गोपगोपीसुखावहाय
गोष्ठप्रियाय
गोलोकाय
गोदोग्ध्रे
गोपयःप्रियाय
ग्रन्थसंशयसंछेदिने
ग्रन्थिभिदे
ग्रन्थविघ्नघ्ने               १००
गयातीर्थफलाध्यक्षाय
गयासुरवरप्रदाय
गकारबीजनिलयाय
गकाराय
ग्रहवन्दिताय
गर्भदाय
गणकश्लाघ्याय
गुरुराज्यसुखप्रदाय                 १०८
    

GANESHA ASHTOTTARA SATANAMAVALI-5

   श्री गणेशाष्टोत्तरशतनामावलिः-5
Chant the names prefixing ‘ओं’ and suffixing ‘नमः
गणेशाय
हेरंबाय
गजाननाय
महोदराय
स्वानुभवप्रकाशिने
वरिष्ठाय
सिद्धिप्रदाय
बुद्धिनाथाय
अनेकविघ्नान्तकाय
वक्रतुण्डाय                      १०
स्वसंज्ञावासिने
चतुर्भुजाय
कवीशाय
देवान्तकनाशकारिणे
महेशसूनवे
गजदैत्यशत्रवे
वरेण्यसूनवे
विकटाय
त्रिनेत्राय
परेशाय                         २०
पृथ्वीधराय
एकदन्ताय
प्रमोदाय
मोदाय
नरान्तकारये
षडूर्मिहन्त्रे
गजकर्णाय
डुण्ढये
द्वन्द्वारिसिन्धवे
स्थिरभावकारिणे                  ३०
विनायकाय
ज्ञानविघातशत्रवे
पराशरस्यात्मजाय
विष्णुपुत्राय
अनादिपूज्याय
आखुगाय
सर्वपूज्याय
वैरिञ्च्याय
लम्बोदराय
धूम्रवर्णाय                       ४०
मयूरपालाय
मयूरवाहिने
सुरासुरैस्सेवितपादपद्माय
करिणे
महाखुध्वजाय
शूर्पकर्णाय
शिवाय
अजसिंहस्थाय
अनन्तवाहाय
दितौजविघ्नेश्वराय            ५०
शेषनाभये
अणोरणीयसे
महतोमहीयसे
रवोर्जाय
योगेशजाय
ज्येष्ठराजाय
निधीशाय
मन्त्रेशाय
शेषपुत्राय
वरप्रदात्रे                        ६०
अदितेस्सूनवे
परात्पराय
ज्ञानदाय
तारवक्त्राय
गुहाग्रजाय
ब्रह्मपाय
पार्श्वपुत्राय
सिन्धोश्शत्रवे
परशुपाणये
शमीशाय                       ७०
पुष्पप्रियाय
विघ्नहारिणे
दूर्वाङ्कुरैरर्चिताय
देवदेवाय
धियःप्रदात्रे
शमीप्रियाय
सुसिद्धिदात्रे
सुशान्तिदात्रे
अमेयमायाय
अमितविक्रमाय              ८०
द्विधाचतुर्थीप्रियाय
कश्यपाज्जाताय
धनप्रदाय
ज्ञानप्रदाय
प्रकाशाय
चिन्तामणये
चित्तविहारकारिणे
यमस्य शत्रवे
अभिमानशत्रवे
विधेर्जहन्त्रे                 ९०  
कपिलस्य सूनवे
विदेहस्वानन्दाय
अयोगयोगाय
गणस्य शत्रवे
कमलस्य शत्रवे
समस्तभावज्ञाय
अनादिमध्यान्ताय
ब्रह्मचारिणे
विभवे
जगद्रूपाय                       १००
गणेशाय
भूम्ने
पुष्टानां पतये
आखुगताय
भोक्त्रे
कर्त्रे
पात्रे
संहराय                    १०८

GANESHA ASHTOTTARA SATANAMAVALI-3

   श्री गणेशाष्टोत्तरशतनामावलिः-३
Chant the names prefixing ‘ओं’ and suffix ‘नमः’
        
विघ्नेशाय
विश्ववदनाय
विश्वचक्षुषे
जगत्पतये
हिरण्यरूपाय
सर्वात्मने
ज्ञानरूपाय
जगन्मयाय
ऊर्ध्वरेतसे
महाबाहवे                       १०
अमेयाय
अमितविक्रमाय
वेदवेद्याय
महाकालाय
विद्यानिधये
अनामयाय
सर्वज्ञाय
सर्वगाय
शान्ताय
गजास्याय                      १०
विगतज्वराय
विश्वमूर्तये
अमेयात्मने
विश्वाधाराय
सनातनाय
सामगानप्रियाय
मन्त्रिणे
सर्वाधाराय
शूराधिपाय
समस्तसाक्षिणे                   ३०
निर्द्वन्द्वाय
निर्लिप्ताय
अमोघविक्रमाय
नियताय
निर्मलाय
पुण्याय
कामदाय
कान्तिदाय
कवये
कामरूपिणे                 ४०
कामवेषाय
कमलाक्षाय
कलाधराय
सुमुखाय
शर्मदाय
शुद्धाय
मूषकाधिपवाहनाय
दीर्घतुण्डधराय
श्रीमते
अनन्ताय                  ५०
    
मोहवर्जिताय
वक्रतुण्डाय
शूर्पकर्णाय
पवनाय
पावनाय
वराय
योगीशाय
योगिवन्द्याङ्घ्रये
उमासूनवे
अघापहाय                  ६०
एकदन्ताय
महाग्रीवाय
शरण्याय
सिद्धसेविताय
सिद्धिदाय
करुणासिन्धवे
भगवते
भव्यविग्रहाय
विकटाय
कपिलाय                        ७०
डुण्ढये
उग्राय
भीमाय
हराय
सूपाय
गणाध्यक्षाय
गणाराध्याय
गणेशाय
गणनायकाय
ज्योतिस्वरूपाय                   ८०
पूतात्मने
धूम्रकेतवे
अनाकुलाय
कुमारगुरवे
आनन्दाय
हेरम्बाय
वेदसंस्तुताय
नागोपवीतिने
दुर्धर्षाय
बालदूर्वाङ्कुरप्रियाय                ९०
फालचन्द्राय
विश्वधाम्ने
शिवपुत्राय
विनायकाय
लीलावलम्बितवपुषे
पूर्णाय
परमसुन्दराय
विघ्नान्धकारमार्ताण्डाय
विघ्नारण्यदवानलाय
सिन्दूरवर्णाय                १००
नित्याय
विष्णुप्रथमपूजिताय
शरण्यदिव्यपादाब्जाय
भक्तमन्दारभूरुहाय
रत्नसिंहासनासीनाय
मणिकुण्डलमण्डिताय
भक्तकल्याणदाय
अमेयकल्याणगुणसंश्रयाय      १०८           
     

GANESHA ASHTOTTARA SATANAMAVALI-4

श्री गणेशाष्टोत्तरशतनामावलिः-4
Chant the names prefixing ‘ओं’ and suffixing ‘नमः’
गणेश्वराय
गणक्रीडाय
महागणपतये
विश्वकर्त्रे
विश्वमुखाय
दुर्जयाय
दुर्वहाय
जयाय
सुरूपाय
सर्वनेत्राधिवासाय                  १०
वीरासनाश्रयाय
योगाधिपाय
तारकस्थाय
पुरुषाय
गजकर्णकाय
चित्राङ्गश्यामदशनाय
फालचन्द्राय
चतुर्भुजाय
ब्रह्मतेजसे
यज्ञकायाय                      २०
सर्वात्मने
सामबृंहिताय
कुलाचलांशाय
व्योमनाभये
कल्पद्रुमवनालयाय
निम्ननाभये
स्थूलकुक्षये
पीनवक्षसे
बृहद्भुजाय
पीनस्कन्धाय                    ३०
कंबुकण्ठाय
लम्बोष्ठाय
लम्बनासिकाय
सर्वावयवसंपूर्णाय
सर्वलक्षणलक्षिताय
इक्षुचापधराय
शूलिने
कान्तिकन्दलिताश्रयाय
अक्षमालाधराय
ज्ञानमुद्रावते                     ४०
विजयावहाय
कामिनीकामनाय
काममालिने
केलिलालिताय
अमोघसिद्धये
आधाराय
आधाराधेयवर्जिताय
इन्दीवरदलश्यामाय
इन्दुमण्डलनिर्मलाय
कर्मसाक्षिणे
कर्मकर्त्रे                    ५०
कर्मफलप्रदाय
कमण्डलुधराय
कल्पाय
कपर्दिने
कटिसूत्रभृते
कारुण्यदेहाय
कपिलाय
गुह्यागमनिरूपिताय
गुहाशयाय
गुहाब्धिस्थाय               ६०
घटकुंभाय
घटोदराय
पूर्णानन्दाय
परानन्दाय
धनदाय
धरणीधराय
बृहत्तमाय
ब्राह्मणप्रियाय
ब्रह्मपराय
ब्रहविद्प्रियाय               ७०
भव्याय
भूतालयाय
भोगदात्रे
महामनसे
वरेण्याय
वामदेवाय
वन्द्याय
वज्रनिवारणाय
विश्वकर्त्रे
विश्वचक्षुषे                  ८०
हवनाय
हव्यकव्यभुजे
स्वतन्त्राय
सत्यसंकल्पाय
सौभाग्यवर्धनाय
कीर्तिदाय
शोकहारिणे
त्रिवर्गफलदायकाय
चतुर्बाहवे
चतुर्दन्ताय                      ९०
चतुर्थीतिथिसंभवाय
सहस्रशीर्ष्णे
पुरुषाय
सहस्राक्षाय
सहस्रपदे
कामरूपाय
कामगतये
द्विरदाय
द्वीपरक्षकाय
क्षेत्राधिपाय                 १००
क्षमाभर्त्रे                  
लयस्थाय
लड्डुकप्रियाय
प्रतिवादिमुखस्तंभाय
दुष्टचित्तप्रसादनाय
भगवते
भक्तिसुलभाय
याज्ञिकाय
याजकप्रियाय                    १०८