NRISIMHAKAVACHAM (BRAHMANDAPURANANTARGATAM)

ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचम्
 नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं
पुरा।
सर्वरक्षाकरं
पुण्यं सर्वोपद्रवनाशनम्॥१॥
सर्वसम्पत्करं
चैव स्वर्गमोक्षप्रदायकम्।
ध्यात्वा
नृसिंहं देवेशं हेमसिंहासनस्थितम्॥२॥ 
विवृतास्यं
त्रिनयनं शरदिन्दुसमप्रभम्।
लक्ष्म्यालिङ्गितवामाङ्गं
विभूतिभिरुपाश्रितम्॥३॥
चतुर्भुजं
कोमलाङ्गं स्वर्णकुण्डलशोभितम्।
सरोजशोभितोरस्कं
रत्नकेयूरशोभितम् ॥४॥
तप्तकाञ्चनसङ्काशं
पीतनिर्मलवाससम्।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः॥५॥ 
विराजितपदद्वन्द्वं
शङ्खचक्रादि हेतिभिः।
गरुत्मता
सविनयं स्तूयमानं मुदान्वितम्॥६॥,
स्वहृत्कमलसंवासम्
कृत्वा तु कवचं पठेत्।
नृसिंहो
मे शिरः पातु लोकरक्षात्मसंभवः॥७॥ 
सर्वगोऽपि
स्तंभवासः फालं मे रक्षतु ध्वनिं।
नृसिंहो
मे दृशौ पातु सोमसूर्याग्निलोचनः ॥८॥
स्मृतिं
मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः।
नासं
मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥९॥
सर्वविद्याधिपः
पातु नृसिंहो रसनां मम।
वक्त्रं
पात्विन्दुवदनः सदा प्रह्लादवन्दितः॥१०॥
नृसिंहः
पातु मे कण्ठं  स्कन्धौ भूभरान्तकृत्।
दिव्यास्त्रशोभितभुजो
नृसिंहः पातु मे भुजौ॥११॥
करौ
मे देववरदो नृसिंहः पातु सर्वदा।
हृददं
योगिसाध्यश्च निवासं पातु मे हरिः ॥१२॥
मध्यं
पातु हिरण्याक्षवक्षःकुक्षिविदारणः।
नाभिं
मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः॥१३॥
ब्रह्माण्डकोटयः
कट्यां यस्याऽसौ पातु मे कटिम्।
गुह्यं
मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक्॥१४॥
ऊरू
मनोभवः पातु जानुनी नररूपधृक्।
जङ्खे
पातु धराभारहर्ता योऽसौ नृकेसरी॥१५॥
सुरराज्यप्रदः
पातु पादौ मे नृहरीश्वरः।
सहस्रशीर्षा
पुरुषः पातु मे सर्वशस्तनुम्॥१६॥  
महोग्रः
 पूर्वतः पातु महावीराग्रजोऽग्नितः।
महाविष्णुर्दक्षिणे
पातु महाज्वालस्तु नैऋतौ॥१७॥
 पश्चिमे पातु सर्वेशो दिशि
मे सर्वतोमुखः।
नृसिंहः
पातु वायव्यां सौम्यां भूषणविग्रहः॥१८॥
ईशान्ये
पातु भद्रो मे सर्वमङ्गलदायकः।
संसारभयतः
पातु मृत्योर्मृत्युर्नृकेसरी॥१९॥
इदं
नृसिंहकवचं प्रह्लादमुखमण्डितम्।
भक्तिमान्
यः पठेन्नित्यं सर्वपापात्प्रमुच्यते॥२०॥
पुत्रवान्
धनवान् लोके दीर्घायुरुपजायते।
यं यं
कामयते कामान् तं तं प्राप्नोत्यसंशयम् ॥२१॥
सर्वत्र
जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां
ग्रहाणां विनिवारणम् ॥२२॥
वृश्चिकोरगसंभूतविषापहरणं
परम्।
ब्रह्मराक्षसयक्षाणां
दूरोत्सारणकारणम्॥२३॥
भुर्जे
वा तालपत्रे वा कवचं लिखितं शुभम्।
करमूले
धृतं येन सिध्येयुस्तस्य कार्याणि॥२४॥
देवासुरमनुष्येषु
स्वं स्वमेव जयं लभेत्।
एकसन्ध्यं
त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥२५॥
सर्वमङ्गलमाङ्गल्यं
भूतिं मुक्तिं च विन्दति।
द्वात्रिंशत्सहस्राणि
यः पठेत् शुद्धमानसः ॥२६॥
कवचस्यास्य
मन्त्रस्य मन्त्रसिद्धिः प्रजायते।
अनेन
मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम्॥२७॥
तिलकं
विन्यसेद्यस्तु तस्य ग्रहभयं हरेत्।
त्रिवारं
जपमानस्तु दत्तं वारिभ्य मन्त्र्य च॥२८॥
प्राशयेद्यो
नरो मन्त्रं नृसिंहध्यानमाचरेत्
तस्य
रोगा प्रणश्यन्ति ये च स्युः कुक्षिसंभवाः॥२९॥
 किमत्र बहुनोक्तेन नृसिंहसदृशो
भवेत्।
मनसा
चिन्तितं यस्तु स तच्चाप्नोत्यसंशयम्॥३०॥
गर्जन्तं  गर्जयन्तं निजभुजपटलं स्फोटयन्तं
हठन्तं
रूप्यन्तं
तापयन्तं दिवि भुवि दितिजं क्षोभयन्तं क्षिपन्तम्।
क्रन्दन्तं
रोषयन्तं दिशि दिशि सततं संहरन्तं भ्रमन्तं
वीक्षन्तं
घूर्णयन्तं शरनिकरशतैः दिव्यसिंहं नमामि ॥३१॥‘
॥इति
श्री ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचं संपूर्णम्॥