CHAMAKA PRASHNA

                                                       CHAMAKA PRASHNA
Traditionally, the chanting of Srirudram is followed by the chanting of chamakam.  There are five modes of chanting Srirudram.  The most common mode chanting Srirudram once and then chanting chamakam.  The second mode is to chant, in the first round,  the eleven anuvakas of srirudram once and chant the first anuvaka of chamakam. In the second round, the eleven anuvakas of srirudram are chanted followed by the second anuvaka of chamakam.  In this way by the time srirudram is chanted eleven times all the eleven anuvakas of chamakam would have been chanted. This will complete one Rudraikadasini.    Eleven Rudraikadasinis  will make one Laghu Rudram. Eleven laghu rudrams will make one Maha rudram.  Eleven Maha rudrams will constitute one Ati Rudram the completion of which, it is believed, will bring peace and prosperity to the whole region, nay the country.  
                                                                   चमकप्रश्नः
ऊँ अग्नाविष्णू सजोषसेमावर्धन्तु वां गिरः। द्युम्नैर्वाजेभिरागतम्। वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मे परूँषि च मे शरीराणि च मे ॥१॥ 
 ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥२॥
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥३॥
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मेऽन्नं च मेऽक्षुश्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे ॥४॥ 
  अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥५॥
   अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे॥६॥
   अँशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपाँशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऋतुग्रहाश्च मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ॥७॥        
   इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे ॥८॥  
 अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च  मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥९॥
 गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहच्च मेऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणॊ यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां  चक्षुर्यज्ञेन कल्पताँ श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां ॥१०॥
एका च मे तिस्रश्च मे पंच च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविँशतिश्च मे त्रयोविँशतिश्च मे पञ्चविँशतिश्च मे सप्तविँशतिश्च मे नवविँशतिश्च मे एकत्रिँशच्च मे त्रयस्त्रिँशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विँशतिश्च मे चतुर्विँशतिश्च मेऽष्टाविँशतिश्च मे द्वात्रिँशच्च मे षट्त्रिँशच्च मे चत्वारिँशच्च मे चतुश्चत्वारिँशच्च मेऽष्टाचत्वारिँशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च  भौवनशच भुवनश्चाधिपतिश्च ॥११॥   
  ऊँ  इडादेहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शँसिषद्विश्वेदेवाः सूक्तवाचः पृथिविमातर्मा मा हिँसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥
                  ऊँ शान्तिः शान्तिः शान्तिः  


  

 

SRI RUDRAM

                                                      SRI RUDRA PRASHNA
Shri Rudram is aVedic Hymn addressed to Rudra,  an aspect of Lord Shiva. It is right in the centre of the Taithiriya Samhita of Yajurveda in the Fourth Kanda. It is also known as sri Rudraprashna, Satarudriya and   Rudropanishad.  The Panchakshara mantra (Om Namah Shivaya) is in the heart of Srirudram.  This is one of the hymns prescribed  for daily chanting according to the following couplet:
            स्वशाखोपनिषद्गीता विष्नोर्नामसहस्रकम् ।
      रुद्रं पुरषसूक्तं च नित्यमावर्तयेत् बुधः ॥
The wise should chant daily the Unpanishad in his own Vedic shakha, Bhagavadgita, Vishnu Sahasranama, Srirudram and Purusha Suktam.
Suta Samhita says:
            वृक्षस्य मूलसेचेन शाखाः पुष्यन्ति वै यथा।
      शिवे रुद्रजपात् प्रीते प्रीता एवास्य देवताः।
      अतो रुद्रजपादेव भुक्तिमुक्ती प्रसिद्ध्यत:॥
Just as by watering the root of a tree its branches are also nourished, so also by propitiating Rudra by chanting Srirudram all other deities are pleased. Therefore by chanting Srirudram alone one can get everything in this world and also liberation from this world.
Rudra is the very first Cause, the physician for this disease of samsara.  He ignores the failings of his devotees and only considers what is good in them.  He is the very Sun whom we see daily rising.  He takes countless forms.  Whatever we see in this world is his form only.  Srirudram offers prostrations to those who are sitting, lying, sleeping, waking, standing or running and who are members of assembly, heads of  assembly, carpenters, potters, hunters, fishermen, thieves, robbers, those who make chariots, those who drive the chariots, horses, trees and whatever is moving or non-moving etc. etc since everything is his His form only.  It is believed that wherever this hymn is chanted regularly there will prevail peace and prosperity always.  
      
                                                          श्रीरुद्रप्रश्नः
           कृष्णयजुर्वेदीय तैत्तिरीय संहिता
          चतुर्थं वैश्वदेवं काण्डम् प्रथमः प्रपाठकः
ऊँ नमो भगवते रुद्राय। ऊँ नमस्ते रुद्र मन्यव उतोत इषवे नमः। नमस्ते अस्तु धन्वने  बाहुभ्यामुत ते  नमः । या त इषुः शिवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय । या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि। यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे। शिवाँ गिरित्र तां कुरु मा हिँसीः पुरुषं जगत्। शिवेन वचसा त्वा गिरिशाच्छावदामसि । यथा नःसर्वमिज्जगदयक्ष्मँ सुमना असत्। अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीँश्च सर्वाञ्जंभयन्त्सर्वांश्च यातुधान्यः।
असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः। ये चेमाँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाँ हेड ईमहे । असौ योऽवसर्पति नीलग्रीवो  विलोहितः। उतैनं गोपा अदृशन्नदृशन्नुदहार्यः। उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः । नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरन्नमः । प्रमुञ्च धन्वनस्त्वमुभयोरात्नियोर्ज्याम्। याश्च ते हस्त इषवः परा ता भगवो वप। अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव।विज्यं धनु: कपर्दिनो विशल्यो बाणवाँ उत। अनेशन्नस्येषव आभुरस्य निषङ्गथिः।
या ते हेतिर्मीढुष्टम  हस्ते बभूव ते धनुः। तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज। नमस्ते अस्त्वायुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने। परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो  य इषुधिस्तवारे अस्मन्निधेहि तम्॥१॥ शंभवे नमः
   नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥
   नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः
पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ॥२॥
 नमः सहमानाय  निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघाँसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो नक्तंचरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च
वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विध्यद्भ्यश्च
वो नमो नम आसीनेभ्य: शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥३॥
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृँहतीभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो  विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः, क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥४॥
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रिवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च ॥५॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चाऽवसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च॥६॥   
  नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च  नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥७॥
 नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमश्शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥८॥
   नम इरिण्याय च प्रपथ्याय च नमः किँशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्प्याय च नमः पाँसव्याय च
रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभो नम आनिर्‍हतेभ्यो नम आमीवत्केभ्यः ॥९॥   
द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किञ्चनाममत्।या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी। शिवा रुद्रस्य भेषजी तया नो मृड जीवसे । इमाँ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम्। यथा नः शमसद्द्विपदे  चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् । मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते। यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ । मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितं । मा नोऽवधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः। वीरान्मा  नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते । आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।रक्षा च नो अधि च देव ब्रूह्यधा च नः शर्म यच्छ द्विबर्हाः। स्तुहि श्रुतं गर्तसदं  युवानं  मृगन्न भीममुपहन्तुमुग्रम्। मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मिन्निवपन्तु सेनाः । परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मति रघायोः। अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय। मीढुष्टम शिवतम शिवो नः सुमना भव। परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि। विकिरिद विलोहित नमस्ते अस्तु भगवः। यास्ते सहस्रँ हेतयोन्यमस्मन्निवपन्तु ताः । सहस्राणि सहस्रधा बाहुवोस्तव हेतयः। तासामीशानो भगवः पराचीना मुखा कृधि॥१०॥
  सहस्राणि सहस्रशो ये रुद्रा अधि भूम्यां। तेषाँ  सहस्रयोजनेऽवधन्वानि तन्मसि। अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि। नीलग्रीवाः शितिकण्ठाः शर्वा अधः, क्षमाचराः ।  नीलग्रीवाः शितिकण्ठा दिवँ रुद्रा उपश्रिताः। ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः । ये भूतानामधिपतयो विशिखासः कपर्दिनः।ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्। ये पथां पथिरक्षय ऐलबृदायव्युधः।ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः।य एतावन्तश्च भूयाँसश्च दिशो रुद्रा वितस्थिरे। तेषाँ सहस्रयोजनेऽवधन्वानि तन्मसि। नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥११॥
त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्। यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु। तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य। यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य। अयं मे हस्तो भगवानयं मे भगवत्तरः। अयं मे विश्वभेषजोऽयँ  शिवाभिमर्शनः।ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे। म्रुत्यवे स्वाहा मृत्यवे स्वाहा। ऊँ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि।।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः। तेनान्नेनाप्यायस्व॥

सदाशिवोम् |

                 ऊँ शान्तिः शान्तिः शान्तिः   

SHANTI MANTRAS – 1

                                                 शान्तिमन्त्राः – १
ऊँ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै॥ तेजस्वि नावधीतमस्तु
मा विद्विषावहै॥ ऊँ शान्तिः शान्तिः शान्तिः॥१॥ 
ऊँ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा । शं नः इन्द्रो बृहस्पतिः।
शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे । नमस्ते वायॊ । त्वमेव प्रत्यक्षं ब्रह्मासि।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु।
तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम् । ऊँ शान्तिः शान्तिः शान्तिः॥२॥
ऊँ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्रा:। स्थिरैरंगैस्तुष्टुवाँसस्तनूभिः। व्यशेम देवहितं यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु  । ऊँ शान्तिः शान्तिः शान्तिः॥३॥

ऊँ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै  नम ऒषधीभ्यः। नमो वाचे नमो वाचस्पतये। नमो विष्णवे बृहते करोमि ॥ ऊँ शान्तिः शान्तिः शान्तिः ॥४॥
ऊँ यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देव धारणॊ भूयासम् । शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्।  ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय ॥ ऊँ शान्तिः शान्तिः शान्तिः ॥५॥

ऊँ तच्छं योरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवी स्वस्तिरस्तु नः ।  स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं। शं नो अस्तु द्विपदे । शं चतुष्पदे॥ ऊँ शान्तिः शान्तिः शान्तिः ॥६॥

ऊँ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माऽहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यासँ
शिवामदस्तांजुष्टां देवेभ्यः शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत्।

शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती। भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरण-मुपस्तृण उपस्तरणं मे प्रजायै पशूनां भुय़ादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मा माहासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु जनिष्यामि मधुमतीं  देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु॥ 
ऊँशान्तिः शान्तिः शान्तिः ॥७॥

ऊँ मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः। माध्वीर्नस्सन्त्वोषधीः। मधुनक्तमुतोषसि मधुमत्पार्थिवँ रजः। मधु द्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः ॥  ऊँ शान्तिः शान्तिः शान्तिः ॥८॥

ऊँ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-माविरावीर्म एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु  मामवतु वक्तारमवतु वक्तारम् ॥  ऊँ शान्तिः शान्तिः शान्तिः ॥९॥

ऊँ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।

॥  ऊँ शान्तिः शान्तिः शान्तिः ॥१०॥

इडादेवहूर्मनुर्यज्ञनीबृहस्पतिरुक्थामदानि शँसिषद्विश्वे देवाः सूक्तवाचः पृथिविमातर्मा मा हिँसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभो वाचमुद्यासँ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥

॥  ऊँ शान्तिः शान्तिः शान्तिः ॥११॥


VEDIC PRAYERS

                                                            प्रार्थना        
ऊँ गणानां त्वा गणपतिँ हवामहे । कविं कवीनामुपमश्रवस्तमम्। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिस्सीद सादनम्॥
ऊँ हंस हंसाय विद्महे परमहंसाय धीमहि। तन्नॊ हंसः प्रचोदयात् ॥
ऊँ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये ऽम्बिकापतये उमापतये पशुपतये नमो नमः ॥
ऋतँ सत्यं परं ब्रह्म पुरषं कृष्णपिङ्गलं ।ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः॥
ईशानस्सर्व विद्यानां  ईश्वरस्सर्वभूतानां ब्रह्माऽधिपतिर्ब्रह्मणॊऽधिपतिर्ब्रह्मा शिवोऽमे अस्तु सदाशिवॊं ॥
ऊँ भूर्भुवस्सुवः । ऊँ नमश्शंभवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
ऊँ निधनपतये नमः। निध्नपतान्तिकाय नमः।  ऊर्ध्वाय नमः। ऊर्ध्वलिङ्गाय नमः । हिरण्याय नमः। हिरण्यलिङ्गाय नमः। सुवर्णाय नमः। सुवर्णलिङ्गाय नमः। दिव्याय नमः। दिव्यलिङ्गाय नमः। भवाय नमः। भवलिङ्गाय नमः। शर्वाय नमः। शर्वलिङ्गाय नमः। शिवाय नमः। शिवलिङ्गाय नमः। ज्वलाय नमः। ज्वललिङ्गाय नमः। आत्माय नमः। आत्मलिङ्गाय नमः। परमाय नमः। परमलिङ्गाय नमः।एतत्सोमस्य सूर्यस्य सर्व लिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम् ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवे नातिभवे भवस्वमाम् । भवोद्भवाय नमः ॥
वामदेवय नमो ज्येष्ठाय नमश्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥ 
अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यस्सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः॥
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु। पुरुषो वै रुद्रस्सन्महो नमो नमः।
विश्वंभूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु॥
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वो चेम शन्तमँ हृदे। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु॥
त्र्यम्बकं यजामहे सुगन्धिं पुष्टि वर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे। तान् यज्ञस्य मायया
सर्वानवयजामहे ॥
मृत्यवे स्वाहा मृत्यवे स्वाहा ।ऊँ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि॥
ऊँ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥
ऊँ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय
त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥
ऊँ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥ सदाशिवोम् ॥
ऊँ असतो मा सद्गमय
  तमसो मा ज्योतिर्गमय
  मृत्योर्माऽमृतं गमय ॥

            ऊँ शान्तिः शान्तिः शान्तिः


DEVI SUKTAM

देवीसूक्तम्

ऋग्वेद-संहिताः

( मण्डलम् – १० अष्टकम् – ८ सूक्तम्-१२५ )

ॐ ॥
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
 
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए यजमानाय सुन्वते ॥२॥
 
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यां वेशयन्तीम् ॥३॥
 
मया सोऽन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवंते वदामि ॥४॥
 
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥५॥
 
अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥६॥
 
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व(अ)न्तः समुद्रे ।
ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोपस्पृशामि ॥७॥
 
अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै तावती महिना संबभूव ॥८॥
 
ॐ शान्तिः शान्तिः शान्तिः

BHAGYA SUKTAM

                                           भाग्यसूक्तम्
ऊँ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥१॥
प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह॥२॥
भग प्रणेतर्भगसत्यराधो भगेमां धियमुदवददन्नः। भगप्रणो जनय गोभि-रश्वैर्भगप्रनृभि-र्नृवन्तस्स्याम ॥३॥
उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदिता मघवन् सूर्यस्य वयं देवानाँ सुमतौ स्याम ॥४॥
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह॥५॥
समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु॥६॥
अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः।घृतं दुहाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः॥७॥  यो माऽग्नेभागिनँ सन्तमथाभागं चिकीर्षति। अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥८॥
              ऊँ शान्तिः शान्तिः शान्तिः

AYUSHYA SUKTAM

आयुष्यसूक्तम्

 

यो ब्रह्मा ब्रह्मण उज्जहार प्राणैः शिरः कृत्तिवासाः पिनाकी ।

ईशानो देवः स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन ॥१॥

 

विभ्राजमानः सरिरस्यमध्याद्रोचमानो घर्मरुचिर्य आगात् ।

स मृत्युपाशानपनुद्य घोरानिहायुषेणो घृतमत्तु देवः ॥२॥

 

ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात् पुरुरूपं जयन्तम् ।

सुवर्णरंभग्रहमर्कमर्च्यं तमायुषे वर्धयामो घृतेन ॥३॥

 

श्रियं लक्ष्मीमौबलामंबिकां गां षष्टीं च यामिन्द्रसेनेत्युदाहुः ।

तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन ॥४॥

 

दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपा विरूपाः ।

ससूनवः सपतयः सयूथ्या आयुषेणो घृतमिदं जुषन्ताम् ॥५॥

 

दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथ्नन्तु वीरान् ।

तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजां रीरिषो मोत वीरान् ॥६॥

 

एकः पुरस्तात् य इदं बभूव यतो बभूव भुवनस्य गोपाः ।

यमप्येति भुवनं सांपराये स नो हविर्घृतमिहायुषेत्तु देवः ॥७॥

 

वसून् रुद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वांश्च पितॄंश्च विश्वान् ।

भृगून् सर्पांश्चाङ्गिरसोऽथ सर्वान् घृतं हुत्वा स्वायुष्या महयाम शश्वत् ॥८॥

 

विष्णो त्वं नो अन्तमश्शर्मयच्छसहन्त्य ।

प्रतेधारा मधुश्च्युत उथ्सं दुह्रते अक्षितम्॥९॥

 

ऊँ शान्तिः शान्तिः शान्तिः

DURGA SUKTAM

                                                          दुर्गासूक्तम्
ऊँ ॥ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः। स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां। दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः॥ अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरितातिपर्षि। अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम्॥पृतनाजितँ सहमानमुग्रमग्निं हुवेम परमात्सधस्थात्। स नः पर्षदतिदुर्गाणि विश्वाक्षामद्देवो अति दुरितात्यग्निः। प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि।  स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णो-रनुसंचरेम। नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् ॥
ऊँ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गि प्रचोदयात्॥
                     ऊँ शान्तिः शान्तिः शान्तिः

SRI SUKTAM

                                                               श्रीसूक्तम्
ऊँ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ तां म अवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ अश्वपूर्वां रथमध्यां हस्तिनाद-प्रबोधिनीम्। श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्। चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः। उपैतु मां देवसखः कीर्तिश्च मणिना सह। प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्।।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीँ सर्वभूतानां तामिहोपह्वये श्रियम् । मनसः काममाकूतिं वाचः सत्यमशीमहि। पशूनाँ रूपमन्नस्य मयि श्रीः श्रयतां यशः। कर्दमेन प्रजाभूता मयि संभव कर्दम। श्रियं वासय मे कुले मातरं पद्ममालिनीं॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे। निच देवीं मातरँ श्रियं वासय मे कुले । आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह। आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम्॥
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि। विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व।
ऊँ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि। तन्नो लक्ष्मीः प्रचोदयात् ॥   
                          ऊँ शान्तिः शान्तिः शान्तिः


BHUSUKTAM

                                                           भूसूक्तम्
ऊँ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे ।   आऽयङ्गौः प्रूश्निरक्रमी दसनन्मातरं पुनः। पितरं च प्रयन्त्सुवः। त्रिंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये। प्रत्यस्य वह द्युभिः। अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन् महिषः सुवः। यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या। सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि । यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे । आदित्या विश्वे- तद्देवा वसवश्च समाभरन् ।
मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी॥ ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः । देवी हिरण्यगर्भिणी देवी प्रसूवरी।  सदने सत्यायने सीद।
समुद्रवती सावित्रीह नो देवी मह्यङ्गी।  महीधरणी महोव्यथिष्ठा श्शृङ्गे
शृङ्गे यज्ञे यज्ञे विभीषिणी। इन्द्रपत्नी व्यापिनी सुरसरिदिह। वायुमती जलशयनीश्रियंधराजा सत्यन्धो परिमेदिनी।  श्वोपरिधत्तम् परिगाय।

विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम्। लक्ष्मीप्रियसखीं देवीं नमाम्यच्युत वल्लभाम् ।

ऊँ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि। तन्नो धरा प्रचोदयात्।
महीं देवीं विष्णुपत्नी मजूर्याम् । प्रतीची मेनां हविषा यजामः । त्रेधा
विष्णुरुरुगायो विचक्रमे। महीं देवीं पृथिवीमन्तरिक्षम्। तच्छ्रोणैति श्रव इच्छमाना। पुण्यं श्लोकं यजमानाय कृण्वती ॥
                       ऊँ शान्तिः शान्तिः शान्तिः