प्रातःस्मरणम्
(ब्रह्मानन्दविरचितम्)
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम्।
वेदैः सहामरगणैरुपगिइयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैः विहितोपहारम्।
उद्दृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
प्रातर्नमामि शरदंबरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम्।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकंबुर्थपादकरं प्रशान्तम् ॥३॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं
यः पठेत्प्रातरुत्थाय सर्वपापैः स मुच्यते ॥४॥
Click here to go to the Master Index from where you can access more than 750 posts