नमोऽस्तु
सत्यसायिभगवन्, नमोऽस्तु निरवद्यनिस्तुलविभूतिभिः
सत्यमात्मपरमात्मभावमुपदर्शयन् महितलीलया।
स्तुत्यसच्चरित, भक्तलोकसमनुग्रहार्थमिह राजसे
नित्यनिर्वृतिधने
स्वधाम्नि वरपुट्टपर्तिपुरसत्तमे॥१॥
स्वधाम्नि वरपुट्टपर्तिपुरसत्तमे॥१॥
कीर्णमूर्धजविचित्ररम्यपरिवेषशोभितवदनं, जपा-
वर्णसुन्दरसुदीर्घकञ्चुकसमावृतोन्नतकलेबरम्।
स्वर्णरत्नमहितासनस्थितमनन्तशान्तिमयगीतिका-
कर्णनोल्लसितमन्तरङ्गभुवि
सायिदेवमनुचिन्तये॥२॥
सायिदेवमनुचिन्तये॥२॥
सायिबाब, गुरुदेव, दिव्यकरुणातरङ्गितदृगञ्चलं
सान्द्रशान्तिमयमन्दहासमभयाङ्कदक्षिणकराम्बुजम्।
सारवैदिकविशिष्टधर्मपरिभाषणैरघविमोषणैः
साधुभक्तजनतोषणं ननु भवन्तमन्तरनुचिन्तये ॥३॥
नास्तिकान् विविधयुक्तिवादकुशलान् विमूकयसि भूतिभि-
र्नाऽस्ति भौतिकदृशोऽवगन्तुमिह
शक्तिरात्ममयमण्डलम्।
शक्तिरात्ममयमण्डलम्।
आस्तिकास्त्वयि शिवात्मके सकलशक्तिधाम्नि पुरुषोत्तमे
काऽस्ति विस्मयकथेति
भक्तिभरिता भवन्ति विशदान्तराः ॥४॥
भक्तिभरिता भवन्ति विशदान्तराः ॥४॥
नव्यभौतिकविमोहितं
जगदभव्यमार्गपरिमार्गणम्
जगदभव्यमार्गपरिमार्गणम्
दिव्यकर्मनिकरैः
समस्तजनभव्यदाननिरतैस्त्वया।
समस्तजनभव्यदाननिरतैस्त्वया।
भाव्यते भविकसत्यदर्शनविभाव्यशान्तिपरमोत्सुकम्;
दीव्यतात् प्रसरतादियं
तव सुसेव्यदर्शनतरङ्गिणी ॥५॥
तव सुसेव्यदर्शनतरङ्गिणी ॥५॥
भक्तिरस्तु भगवन्, मम त्वयि विभक्तिरप्ययि जगद्गरो,
सक्तिरेतु विषये
विनाशमिह शुक्तिकारजतसन्निभे।
विनाशमिह शुक्तिकारजतसन्निभे।
रक्तिरुन्मिषतु तावकानुपमसूक्तिकामृतनिषेवणे
भुक्तिमुक्तिमयकर्मतत्त्वधृतशक्ति
मे भवतु जीवितम्॥६॥
मे भवतु जीवितम्॥६॥
त्वद्विभूतिचरितामृतश्रवणविस्मयस्तिमितलोचनान्
त्वद्विलोकनरसानुभूतिलवलालसोत्तरलितान्तरान्।
मद्विधाननुगृहाण सायिगुरुदेवदेव, सकृदप्यये
त्वद्विलोलनयनान्तनिःसृतदयोक्षणैर्दुरितमोक्षणैः
॥७॥
॥७॥
सायिबाब, भगवन्, भवच्चरणयोरियं परिसमर्पिता
छायया शबलवर्णया ललितबन्धना कुसुममञ्जरी।
स्थायिभक्तिधनसौरभोल्लसितमानसालिकलनादिनी
भूयसे भवतु भावुकाय
भगवत्प्रसादपरिपाविता ॥८॥
भगवत्प्रसादपरिपाविता ॥८॥
(Source: ‘Bhaktitarangini’
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)
by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit Akademi)