विष्णुसूक्तम्
ऊँ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो
अस्कभायदुत्तरँ सदस्थं विचक्रमाणस्त्रेधोरुगायो विष्णो रराटमसि
विष्णोः पृष्ठमसि विष्णोः श्नप्त्रेस्थो विष्णॊस्स्यूरसि विष्णोर्ध्रुवमसि
वैष्णवमसि विष्णवे त्वा ।
तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देवयवोमदन्ति । उरुक्रमस्य सहिबन्धुरित्था। विष्णोः पदे परमे मध्व उथ्सः । प्रतद्विष्णु स्स्तवते वीर्याय।
मृगो न भीमः कुचरो गरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु। अधिक्षियन्ति भुवनानि विश्वा। परो मात्रया तनुवा वृधान। न ते महित्वमन्वश्नुवन्ति ।
उभेते विद्म रजसी पृथिव्या विष्णो देवत्वम्। परमस्य विथ्से । विचक्रमे पृथिवी मेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः। ऊरुक्षितिँ सुजनिमाचकार। त्रिर्देवः पृथिवीमेष एताम्। विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान्। त्वेषँह्यस्य स्थविरस्य नाम।
अतो देवा अवन्तुनो यतो विष्णु-र्विचक्रमे। पृथिव्यास्सप्तधामभिः। इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्यपाँसुरे । त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततो धर्माणि धारयन् । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यस्सखा॥इन्द्रस्ययुज्यस्सखा॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्। तद्विप्रासो विपन्यवो जागृवाँसस्समिन्धते। विष्णोर्यत्परमं पदम्।।
पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहर्भवति सर्वस्याप्त्यै
सर्वस्यजित्त्यै सर्वमेव तेनाप्नोति सर्वं जयति॥
ऊँ शान्तिः शान्तिः शान्तिः
I was wondering if you had a translation for that last verse that starts with paryAptyA anantarAyAya?
[email protected]