HYMNS TO THE DIVINE MOTHER (SANSKRIT)

१. श्रीललितापञ्चरत्नम्(

प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशॊभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदॊज्ज्वलफालदॆशम् ॥ १ ॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं
रत्नाङ्गुलीयलसदङ्गुळिपल्लवाढ्याम् ।
माणिक्यहॆमवलयाङ्गदशॊभमानां
पुण्ड्रेक्षुचापकुसुमॆषुसृणीदधानाम् ॥ २ ॥

प्रातर्नमामि ललिताचरणारविन्दं
भक्तॆष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादि सुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥

प्रातस्तुवॆ परशिवां ललितां भवानीं
त्रय्यन्तवॆद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहॆतुभूतां
विश्वॆश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥

प्रातर्वदामि ललितॆ तव पुण्यनाम
कामॆश्वरॆति कमलॆति महॆश्वरीति ।
श्री शांभवीति जगतां जननी परॆति
वाग्दॆवतॆति वचसा त्रिपुरॆश्वरीति ॥ ५ ॥

यः श्लॊकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभातॆ ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥
***

२. श्रीभवान्यष्टकम्श्री शंकराचार्यकृतम्)न तातॊ न माता न बन्धुर्न दाता
न पुत्रॊ न पुत्री न भृत्यॊ न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ १ ॥

भवाब्धावपारे महादुःखभीरुः
पपात प्रकामी प्रलॊभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ २ ॥

न जानामि दानं न च ध्यानयॊगं
न जानामि तन्त्रं न च स्तॊत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयॊगं
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ३ ॥

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मातः
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ४ ॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ५ ॥

प्रजॆशं रमॆशं महॆशं सुरॆशं
दिनॆशं निशीथॆश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्यॆ
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ६ ॥

विवादॆ विषादॆ प्रमादॆ प्रवासॆ
जलॆ चानलॆ पर्वतॆ शत्रुमध्ये ।
अरण्यॆ शरण्यॆ सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ७ ॥

अनाथॊ दरिद्रॊ जरारॊगयुक्तॊ
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रणष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ८ ॥
***
३. श्रीमीनाक्षीस्तॊत्रम्(श्री शंकराचार्यकृतं)

श्रीविद्यॆ शिववामभागनिलयॆ श्रीराजराजार्चितॆ
श्रीनाथादिगुरुस्वरूपविभवॆ चिन्तामणीपीठिकॆ ।
श्रीवाणीगिरिजानुताङ्घ्रिकमलॆ श्रीशांभवि श्रीशिवॆ
मध्याह्नॆ मलयध्वजाधिपसुतॆ मां पाहि मीनाम्बिकॆ ॥ १ ॥

चक्रस्थॆऽचपलॆ चराचरजगन्नाथॆ जगत्पूजितॆ
आर्तालीवरदॆ नताभयकरे वक्षॊजभारान्वितॆ ।
विद्यॆ वेदकलापमौलिविदितॆ विद्युल्लताविग्रहॆ
मातः पूर्णसुधारसार्द्रहृदयॆ मां पाहि मीनाम्बिकॆ ॥ २ ॥

कॊटीराङ्गदरत्नकुण्डलधरॆ कोदण्डबाणाञ्चितॆ
कॊकाकारकुचद्वयॊपरिलसत्प्रालम्बिहारान्वितॆ ।
शिञ्जन्नूपुरपादसारसमणिश्रीपादुकालंकृतॆ
मद्दारिद्‌र्यभुजंगगारुडखगॆ मां पाहि मीनाम्बिकॆ ॥ ३ ॥

ब्रह्मॆशाच्युतगीयमानचरितॆ प्रॆतासनान्तःस्थितॆ
पाशॊदङ्कुशचापबाणकलितॆ बालॆन्दुचूडाञ्चितॆ ।
बालॆ बालकुरङ्गलॊलनयनॆ बालार्ककॊट्युज्ज्वलॆ
मुद्राराधितदैवते मुनिनुतॆ मां पाहि मीनाम्बिकॆ ॥ ४ ॥

गन्धर्वामरयक्षपन्नगनुतॆ गङ्गाधरालिङ्गितॆ
गायत्रीगरुडासनॆ कमलजॆ सुश्यामलॆ सुस्थितॆ ।
खातीतॆ खलदारुपावकशिखॆ खद्यॊतकॊट्युज्ज्वलॆ
मन्त्राराधितदैवतॆ मुनिनुतॆ मां पाहि मीनाम्बिकॆ ॥ ५ ॥

नादॆ नारदतुम्बुराद्यविनुतॆ नादान्तनादात्मिकॆ
नित्यॆ नीललतात्मिकॆ निरुपमॆ नीवारशूकोपमॆ ।
कान्तॆ कामकलॆ कदम्बनिलयॆ कामॆश्वराङ्कस्थितॆ
मद्विद्यॆ मदभीष्टकल्पलतिकॆ मां पाहि मीनाम्बिकॆ ॥ ६ ॥

वीणानादनिमीलितार्धनयनॆ विस्रस्तचूलीभरॆ
ताम्बूलारुणपल्लवाधरयुतॆ ताटङ्कहारान्वितॆ ।
श्यामॆ चन्द्रकलावतंसकलितॆ कस्तूरिकाफालकॆ
पूर्णॆ पूर्णकलाभिरामवदनॆ मां पाहि मीनाम्बिकॆ ॥ ७ ॥

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिकॆ ॥ ८ ॥
***

४. आनन्दलहरी(

भवानि स्तॊतुं त्वां प्रभवति चतुर्भिर्नवदनैः
प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सॆनानीः दशशतमुखैरप्यहिपतिः
तदान्येषां कॆषां कथय कथमस्मिन्नवसरः ॥ १ ॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपिपदैः
विशिष्यानाख्यॆयॊ भवति रसनामात्रविषयः ।
तथा तॆ सौन्दर्यं परमशिवदृङ्मात्र विषयः
कथङ्कारं ब्रूमः सकलनिगमागॊचरगुणॆ ॥ २ ॥

मुखॆ तॆ ताम्बूलं नयनयुगलॆ कज्जलकला
ललाटॆ काश्मीरं विलसति गलॆ मौक्तिकलता ।
स्फुरत् काञ्ची शाटी पृथुकटितटॆ हाटकमयी
भजामि त्वां गौरीं नगपतिकिशॊरीमविरतं ॥ ३ ॥

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातन्ङ्गी रुचिरगतिभङ्गी भगवती
सती शंभॊरंभॊरुहचटुलचक्षुर्विजयतॆ ॥ ४ ॥

नवीनार्कभ्राजन्मणिकनकभूषापरिकरैः
वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तडित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥

हिमाद्रॆः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिताचालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्यॆ वल्लीं मम तु मतिरॆवं विलसति ।
अपर्णैका सॆव्या जगति सकलैर्यत्परिवृतः
पुराणॊऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमलॆ ।
त्वमादिः कामानां जननि कृतकन्दर्पविजयॆ
सतां मुक्तॆर्बीजं त्वमसि परब्रह्ममहिषी ॥ ८ ॥

प्रभूता भक्तिस्तॆ यदपि न ममालॊलमनसः
त्वयातु श्रीमत्या सदयमवलॊक्यॊऽहमधुना ।
पयॊदः पानीयं दिशति मधुरं चातकमुखॆ
भृशं शङ्कॆ कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥

कृपापाङ्गालॊकं वितर तरसा साधुचरितॆ
न तॆ युक्तॊपॆक्षा मयि शरणदीक्षामुपगतॆ ।
न चॆदिष्टं दद्यादनुपदमहॊ कल्पलतिका
विशॆषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥

महान्तं विश्वासं तवचरणपङ्कॆरुहयुगॆ
निधायन्यन्नैवाश्रितमिह मया दैवतमुमॆ ।
तथापि त्वच्चॆतॊ यदि मयि न जायॆत सदयं
निरालम्बॊ लम्बॊदरजननि कं यामि शरणम् ॥ ११ ॥

अयः स्पर्शॆ लग्नं सपदि लभतॆ हॆमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितं ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रॆम्णासक्तं कथमिव न जायॆत विमलम् ॥ १२ ॥

त्वदन्यस्मादिच्छाविषयफललाभॆ न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणॆ ।
इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥

स्फुरन्नानारत्न स्फटिकमयभित्तिप्रतिफल-
त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।
मुकुन्दब्रह्मॆन्द्रप्रभृतिपरिवारं विजयतॆ
तवागारं रम्यं त्रिभुवन महाराजगृहिणि ॥ १४ ॥

निवासः कैलासॆ विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलॊक्यं कृतकरपुटः सिद्धिनिकरः ।
महॆशः प्राणॆशस्तदवनिधराधीशतनयॆ
न तॆ सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥

वृषॊ वृद्धॊ यानं विषमशनमाशानिवसनं
श्मशानं क्रीडाभूर्भुजगनिवहॊ भूषणविधिः ।
समग्रा सामग्री जगति विदितैवं स्मररिपॊः
यदॆतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥

अशॆषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
श्मशानॆष्वासीनः कृतभसितलॆपः पशुपतिः ।
दधौ कण्ठॆ हालाहलमखिलभूगॊलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलयॆ ॥ १७ ॥

त्वदीयं सौंदर्यं निरतिशयमालॊक्य परया
भियैवासीद्गङ्गा जलमयतनुः शैलतनयॆ ।
तदॆतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसि वासॆन गिरिशः ॥ १८ ॥

विशालश्रीखण्डद्रवमृगमदाकीर्नघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्तॆ सृष्टिं विबुधपुरपङ्कॆरुहदृशाम् ॥ १९ ॥

वसन्तॆ सानन्दॆ कुसुमितलताभिः परिवृतॆ
स्फुरन्नानापद्मॆ सरसि कलहंसालिसुभगॆ ।
सखीभिः खॆलन्तीं मलयपवनान्दॊलितजलॆ
स्मरॆद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥
***

५. दॆव्यपराधक्षमापणस्तॊत्रम्श्री शंकराचार्यकृतं)(

न मन्त्रं नॊ यन्त्रं तदपि च न जानॆ स्तुतिमहॊ
न चाह्वानं ध्यानं तदपि च न जानॆ स्तुतिकथाः ।
न जानॆ मुद्रास्तॆ तदपि न जानॆ विलपनं
परं जानॆ मातस्त्वदनुसरणं क्लॆशहरणम् ॥ १ ॥
विधॆरज्ञानॆन द्रविणविरहॆणालसतया
विधॆयाशक्यत्वात्तव चरणयॊर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलॊद्धारिणि शिवॆ
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ २ ॥

पृथिव्यां पुत्रास्तॆ जननि बहवस्सन्ति सरलाः
परं तॆषां मध्यॆ विरलतरलॊऽहं तव सुतः ।
मदीयॊऽयं त्यागः समुचितमिदं नॊ तव शिवॆ
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ ३ ॥

जगन्मातर्मातस्तवचरणसॆवा न रचिता
न वा दत्तं दॆवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नॆहं मयि निरुपमं यत्प्रकुरुषॆ
कुपुत्रॊ जायॆत क्वचिदपि कुमाता न भवति ॥ ४ ॥

परित्यक्ता दॆवाः विविधविधिसॆवाकुलतया
मया पञ्चाशीतॆरधिकमपनीतॆ तु वयसि ।
इदानीं चॆन्मातस्तव यदि कृपा नापि भविता
निरालम्बॊ लम्बॊदरजननि कं यामि शरणम् ॥ ५ ॥

श्वपाकॊ जल्पाकॊ भवति मधुपाकॊपमगिरा
निरातङ्कॊ रङ्कॊ विहरति चिरं कॊटिकनकैः ।
तवापर्णॆ कर्णॆ विशति मनुवर्णॆ फलमिदं
जनः कॊ जानीतॆ जननि जपनीयं जपविधौ ॥ ६ ॥

चिताभस्मालॆपॊ गरलमशनं दिक्पटधरॊ
जटाधारी कण्ठॆ भुजगपतिहारी पशुपतिः ।
कपाली भूतेशॊ भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥

न मॊक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मॆ
न विज्ञानापॆक्षा शशिमुखि सुखॆच्छापि न पुनः ।
अतस्त्वां संयाचॆ जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥

नाराधितासि विधिना विविधॊपचारैः
किं रूक्षचिन्तनपरैर्न कृतं वचॊभिः ।
श्यामॆ त्वमॆव यदि किञ्चन मय्यनाथॆ
धत्सॆ कृपामुचितमम्ब परं तवैव ॥ ९ ॥

आपत्सुमग्नः स्मरणं त्वदीयं
करॊमि दुर्गॆ करुणार्णवॆशि ।
नैतच्छठत्वं मम भावयॆथाः
क्षुधातृषार्ताः जननीं स्मरन्ति ॥ १० ॥

जगदंब विचित्रमत्र किं परिपूर्णा करुणास्तिचेन्मयि ।
अपराधपरम्परावृतं नहि माता समुपॆक्षतॆ सुतम् ॥ ११ ॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादॆवि यथा यॊग्यं तथा कुरु ॥ १२ ॥
***
६. त्रिपुरसुन्दर्यष्टकम्श्री शंकराचार्यकृतं)(
कदम्बवनचारिणीम् मुनिकदम्बकादम्बिनीम्
नितम्बजितभूधराम् सुरनितम्बिनीसॆविताम् ।
नवाम्बुरुहलॊचनामभिनवाम्बुदश्यामलाम्
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रयॆ ॥ १ ॥

कदम्बवनवासिनीम् कनकवल्ल्कीधारिणीम्
महार्हमणिहारिणीम् मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीम् विशदरॊचनाचारिणीं
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रयॆ ॥ २ ॥

कदम्बवनशालया कुचभरॊल्लसन्मालया
कुचॊपमितशैलया गुरुकृपालसद्वॆलया ।
मदारुणकपॊलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयम् लीलया ॥ ३ ॥

कदम्बवनमध्यगां कनकमण्डलॊपस्थितां
षडम्बुरुहवासिनीम् सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिम्
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रयॆ ॥ ४ ॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशॆशयनिवासिनीम् कुटिलचित्तविद्वॆषिणीम् ।
मदारुणविलॊचनाम् मनसिजारिसम्मॊहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रयॆ ॥ ५ ॥

स्मरॆत्प्रथमपुष्पिणीम् रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपत्रिकाम् मदविघूर्णनॆत्राञ्चलाम् ।
घनस्तनभरॊन्नतां गलितचूलिकां श्यामलां
त्रिलॊचनकुटुम्बिनीम् त्रिपुरसुन्दरीमाश्रयॆ ॥ ६ ॥

सकुङ्कुमविलॆपनामलकचुम्बिकस्तूरिकां
समन्दहसितॆक्षणां सशरचापपाशाङ्कुशाम् ।
अशॆषजनमॊहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥

पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचॆटिकाम् ॥ ८ ॥
***

७. कल्याणवृष्टिस्तवःश्री शंकराचार्यकृतं) (

कल्याणवृष्टिभिरिवामृतपूरिताभिः
लक्ष्मीस्वयंवरण मंगलदीपिकाभिः ।
सॆवाभिरम्ब तव पादसरॊजमूलॆ
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥

एतावदेव जननि स्पृहणीयमास्तॆ
त्वद्वन्दनॆषु सलिलस्थगितॆ च नॆत्रॆ ।
सान्निद्ध्यमुद्यदरुणायुतसॊदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥

ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्तॆ
यः पादयॊस्तव सकृत्प्रणतिं करॊति ॥ ३ ॥

लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलित कान्तिभरं कटाक्षम् ।
कन्दर्पकॊटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयॆऽपि ॥ ४ ॥

ह्रींकारमॆव तव नाम गृणन्ति वॆदाः
मातस्त्रिकॊणनिलयॆ त्रिपुरॆ त्रिनॆत्रॆ ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवनॆ सह लॊकपालैः ॥ ५ ॥

हन्तुः पुरमधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वॆगः ।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूतॆ
दॆवि त्वदङ्घ्रि सरसीरुहयॊः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वॆ चामरॆ च महतीं वसुधां ददाति ॥ ७ ॥

कल्पद्रुमैरभिमतप्रतिपादनॆषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलॊकय त्रिपुरसुन्दरि ममनाथम्
त्वय्यॆव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥

हन्तॆतरॆष्वपि मनांसि निधाय चान्यॆ
भक्तिं वहन्ति किल पामरदैवतॆषु ।
त्वामॆव दॆवि मनसा समनुस्मरामि
त्वामॆव नौमि शरणं जननि त्वमॆव ॥ ९ ॥

लक्ष्यॆषु सत्स्वपि कटाक्षनिरीक्षणानां
आलॊकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातॊ जनिष्यति जनॊ न च जायतॆ वा ॥ १० ॥

ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासॆ ।
मालाकिरीटमदवारणमाननीया
तान् सॆवतॆ वसुमती स्वयमॆव लक्ष्मीः ॥ ११ ॥
संपत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरॊरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणॊद्यतानि
मामॆव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥

कल्पॊपसंहृतिषु कल्पितताण्डवस्य
दॆवस्य खन्डपरशॊः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयतॆ तव मूर्तिरॆका ॥ १३ ॥

लग्नं सदा भवतु मातरिदं तवार्धं
तॆजः परं बहुलकुङ्कुमपङ्कशॊणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्यॆ त्रिकॊणनिलयं परमामृतार्द्रम् ॥ १४ ॥

ह्रींकारमॆव तव नाम तदॆव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरॆ गृणन्ति ।
त्वत्तॆजसा परिणतं वियदादिभूतं
सौख्यं तनॊति सरसीरुहसंभवादॆः ॥ १५ ॥

ह्रींकारत्रयसंपुटॆन महता मन्त्रॆण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरॊ मातर्जपॆन्मन्त्रवित् ।
तस्य क्षॊणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥
***

८. श्री अम्बाष्टकम्श्री शंकराचार्यकृतं) (

चाञ्चल्यारुणलॊचनाञ्चितकृपां चन्द्रार्धचूडामणिं
चारुस्मॆरमुखां चराचरजगत्संरक्षणॆ तत्पराम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ १ ॥

कस्तूरीतिलकाञ्चितॆन्दुविलसत्प्रॊद्भासिफालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामॊदॊल्लसद्वीटिकाम् ।
लॊलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ २ ॥

राजन्मत्तमरालमन्दगमनां राजीवपत्रॆक्षणां
राजीवप्रभवादिदेवमकुटाराजत्पदांभॊरुहाम् ।
राजीवायतपत्रमण्डितकुचां राजाधिराजॆश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ३ ॥

षट्कॊणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां
षट्चक्रान्तरसंस्थितां वरसुतां षड्यॊगिनीवॆष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षॊडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ४ ॥

श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनॊजयौवनलसत् गन्धर्वकन्यावृताम् ।
दीनानामतिवॆलभाग्यकलनीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ५ ॥

लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सॆवायातसमस्तदॆववनितां सीमन्तभूषान्विताम् ।
भावॊल्लासवशीकृतप्रियतमां भण्डासुरच्छॆदिनीम्
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ६ ॥

धन्यां सॊमविभावनीयचरितां धाराधरश्यामलां
मान्याराधनमॆदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ७ ॥

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टॊत्कृष्टसुकृष्टकर्मदहनां कामॆश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ८ ॥

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गंगागौतमगर्गसन्नुतपदां गां गौतमीं गॊमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ९ ॥
***
९. अम्बास्तोत्रंश्री शंकराचार्यकृतम्)(

का त्वं शुभॆ शिवकरॆ सुखदुःखहस्तॆ
आघूर्णितं भवजलं प्रबलॊर्मिभङ्गैः ।
शान्तिं विधातुमिह किं बहुधा विभग्नाम्
मातः प्रयत्नपरमासि सदैव विश्वॆ ॥ १ ॥

संपादयन्त्यविरतं त्वविरामवृत्ता
या वै स्थिता कृतफलं त्वकृतस्य नॆत्री ।
सा मॆ भवत्वनुदिनं वरदा भवानी
जानाम्यहं ध्रुवमियं धृतकर्मपाशा ॥ २ ॥

किं वा कृतं किमकृतं क्व कपाललॆखः
किं कर्म वा फलमिहास्ति हि यां विना भॊः ।
इच्छागुणैर्नियमिता नियमः स्वतन्त्रैः
यस्याः सदा भवतु सा शरणं ममाद्या ॥ ३ ॥

सन्तानयन्ति जलधिं जनिमृत्युजालं
संभावयन्त्यविकृतं विकृतं विभग्नम् ।
यस्याः विभूतयः इहामितशक्तिपालाः
नाश्रित्य तां वद कुतः शरणं व्रजामः ॥ ४ ॥

मित्रॆ रिपौ त्वविषमं तव पद्मनॆत्रम्
स्वस्थेऽसुखॆ त्ववितथस्तव हस्तपातः ।
छाया मृतॆस्तव दयात्वमृतं च मातः
मुञ्चन्तु मां न परमॆ शुभदृष्टयस्तॆ ॥ ५ ॥

क्वाम्बा शिवा क्व गृणनं मम हीनबुद्धॆः
दॊर्भ्यां विधर्तुमिव यामि जगद्विधात्रीम् ।
चिन्त्यं श्रिया सुचरणं त्वभयप्रतिष्ठं
सॆवापरैरभिनुतं शरणं प्रपद्यॆ ॥ ६ ॥

या मा चिराय विनयत्यतिदुःखमार्गैः
आसिद्धितः स्वकलितैर्ललितैर्विलासैः ।
या मॆ मतिं सुविदधॆ सततं धरण्याम्
साम्बा शिवा मम गतिः सफलॆऽफलॆ वा ॥ ७ ॥
***

१०. मीनाक्षीपञ्चरत्नम्

(श्री शंकराचार्यकृतम्)

उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां
बिम्बॊष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ १ ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ २ ॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रॊज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मॊहिनीं
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ३ ॥

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानाप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावॆणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ४ ॥

नानायॊगिमुनीन्द्रहृत्सुवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणॆनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतॊस्मि सन्ततमहं कारुण्य वारांनिधिम् ॥ ५ ॥
***
११. श्रीमीनाक्षीमणिमालाष्टकम्स्वामि विवॆकानन्दकृतं)मधुरापुरि नायिकॆ नमस्तॆ मधुरालापिशुकाभिरामहस्तॆ ।
मलयध्वजपाण्ड्यराजकन्यॆ मयि मीनाक्षि कृपां विधॆहि धन्यॆ ॥ १ ॥

कचनिर्जितकालमॆघकान्तॆ कमलासॆवितपादपङ्कजान्तॆ ।
मधुरापुरवल्लभॆष्टकान्तॆ मयि मीनाक्षि दयां विधॆहि शान्तॆ ॥ २ ॥

कुचयुग्मविधूतचक्रवाकॆ कृपयापालितसर्वजीवलॊकॆ ।
मलयध्वजसन्ततॆः पताकॆ मयि मीनाक्षि कृपां निधॆहि पाकॆ ॥ ३ ॥

विधिवाहनजॆतृकॆलियानॆ विमतामॊटनपूजितापदानॆ ।
मधुरॆक्षणभावभूतमीनॆ मयि मीनाक्षि कृपां विधॆहि दीनॆ ॥ ४ ॥

तपनीयपयॊजिनीतटस्थॆ तुहिनप्रायमहीधरॊदरस्थॆ ।
मदनारिपरिग्रहॆ कृतार्थॆ मयि मीनाक्षि कृपां निधॆहि सार्थॆ ॥ ५ ॥

कलकीरकलॊक्तिनाददक्षॆ कलितानॆकजगन्निवासिरक्षॆ ।
मदनाशुगहल्लकान्तपाणे मयि मीनाक्षि कृपां कुरु प्रवीणॆ ॥ ६ ॥

मधुवैरिविरिञ्चिमुख्यसॆव्यॆ मनसा भावितचन्द्रमौलिसव्यॆ ।
तरसा परिपूरितयज्ञहव्यॆ मयि मीनाक्षि कृपां विधॆहि भव्यॆ ॥ ७ ॥

जगदम्ब कदम्बमूलवासॆ कमलामॊदमुखॆन्दुमन्दहासॆ ।
मदमन्दिरहारिदृग्विलासॆ मयि मीनाक्षि कृपां विधॆहि दासॆ ॥ ८ ॥

पठतामनिशं प्रभातकालॆ मणिमालाष्टकमष्टभूतिदायी ।
घटिकाशतचातुरीं प्रदद्यात् करुणापूर्णकटाक्षसन्निवॆशात् ॥ ९ ॥
***
१२. श्रीकामाक्षीस्तॊत्रम्कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

कामारिकान्तॆ कुमारि कालकालस्य भर्तुः करॆ दत्तहस्तॆ ।
कामाय कामप्रदात्रि कामकॊटिस्थपूज्यॆ गिरं दॆहि मह्यम् ॥ १ ॥
कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

श्रीचक्रमध्यॆवसन्तीं भूतरक्षः पिशाचातिदुष्टान् हरन्तीम् ।
श्रीकामकॊट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजॆ देहि वाचं ॥ २ ॥
कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

इन्द्रादिमान्यॆ सुधन्यॆ ब्रह्मविष्ण्वादिवन्द्यॆ गिरीन्द्रस्य कन्यॆ ।
मान्यां न मन्यॆ त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैः भजॆ मातरं त्वाम् ॥ ३ ॥
कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

सिंहाधिरूढॆ नमस्तॆ साधुहृत्पद्मगूढॆ हताशॆषमूढॆ ।
रूढं हर त्वं गदं मॆ कण्ठशब्दं दृढं दॆहि वाग्वादिनि त्वं ॥ ४ ॥
कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

कल्याणदात्रीं जनित्रीं कञ्जपत्राभनॆत्रां कलानाथवक्त्रां ।
श्री स्कन्दपुत्रां सुवस्त्रां सच्चरित्रां शिवॆ त्वां भजॆ देहि वाचम् ॥ ५ ॥
कामाक्षिमातर्नमस्तॆ कामदानैकदक्षॆ स्थिते भक्तपक्षॆ

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मॆरां कुचभरनतां कुन्तलॊद्धूतभृंगाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासॆ ॥ ६ ॥
***

१३. आपदुन्मूलनदुर्गास्तोत्रम्लक्ष्मीशॆ यॊगनिद्रां प्रभजति भुजगाधीशतल्पॆ सदर्पा-
दुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ १ ॥

युद्धॆ निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीय धिष्ण्ये-
ष्वास्थाप्य स्वान् विधॆयान् स्वयमगमदसौ शक्रतां विक्रमॆण ।
तं सामात्याप्तमित्रं महिषमभिनिहत्यास्यमूर्धाधिरूढां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ २ ॥

विश्वॊत्पत्तिप्रणाशस्थितिविहृतिपरॆ दॆवि घॊरामरारि-
त्रासात् त्रातुं कुलं नः पुनरपि च महासङ्कटॆष्वीदृशॆषु ।
आविर्भूयाः पुरस्तादिति चरणनमत् सर्वगीर्वाण वर्गां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ३ ॥

हन्तुं शुंभं निशुंभं विबुधगणनुतां हॆमडॊलां हिमाद्रा-
वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक् चण्डमुण्डान् ।
चामुण्डाख्यां दधानां उपशमितमहारक्तबीजॊपसर्गां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ४ ॥

ब्रह्मॆशस्कन्दनारायणकिटिनरसिंहॆन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुंभं जितविबुधगणं त्रासिताशॆषलॊकम् ।
एकीभूयाथ शुंभं रणशिरसि निहत्यास्थितां आत्तखड्गां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ५ ॥

उत्पन्ना नन्दजॆति स्वयमवनितलॆ शुंभमन्यं निशुंभं
भ्रामर्याख्याऽरुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।
भीमा शाकंभरीति त्रुटितरिपुभटां रक्तदन्तॆति जातां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ६ ॥

त्रैगुण्यानां गुणानां अनुसरणकलाकॆलि नानावतारैः
त्रैलॊक्यत्राणशीलां दनुजकुलवनी वह्निलीलां सलीलाम् ।
दॆवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ७ ॥

सिंहारूढां त्रिनॆत्रां करतलविलसत् शंखचक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलॊकैकवन्द्याम् ।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ८ ॥

त्रायस्वस्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तॆऽभ्यर्थनायां भगवति शिशवः किन्न्वनन्याः जनन्या ।
तत्तुभ्यं स्यान्नमस्यॆत्यवनतविबुधाह्लादिवीक्षाविसर्गां
दुर्गां दॆवीं प्रपद्यॆ शरणमहमशॆषापदुन्मूलनाय ॥ ९ ॥

एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं
हृन्मॊहध्वान्तभानुप्रतिममखिलसङ्कल्पकल्पद्रुकल्पम् ।
दौर्गं दौर्गत्यघॊरातपतुहिनकरप्रख्यमंहॊगजॆन्द्र-
श्रॆणीपञ्चास्यदॆश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥ १० ॥
***

१४. श्रीदॆवीमङ्गलाष्टकम्कनत्कनकताटङ्कविलसन्मुखपङ्कजॆ ।
कारुण्यवारिधॆ त्वं मॆ सन्ततं मङ्गलं कुरु ॥ १ ॥

खण्डिताखिलदैतॆये खर्वशून्यास्त्रवैभवॆ ।
गिरिराजसुतॆ दॆवि सन्ततं मङ्गलं कुरु ॥ २ ॥

घनराजिनिभाखर्वसुगन्धिकुटिलालकॆ ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥ ३ ॥

छत्रीकृतयशॊराशॆ छॆदिताखिलपातकॆ ।
जगदाधारसन्मूर्तॆ सन्ततं मङ्गलं कुरु ॥ ४ ॥

तत्वमस्यादिलक्ष्यार्थॆ तापत्रयविभंजिनि ।
दण्डनीतिस्थितॆ दॆवि सन्ततं मङ्गलं कुरु ॥ ५ ॥

धराधरसुतॆ दॆवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गॆ सन्ततं मङ्गलं कुरु ॥ ६ ॥

पञ्चप्रॆतासनासीनॆ पञ्चसंख्यॊपचारिणि ।
परमानन्दनिलयॆ सन्ततं मङ्गलं कुरु ॥ ७ ॥

अकारादिक्षकारन्त वर्णरूपॆ महॆश्वरि ।
अविद्यामूलविच्छॆत्रि सन्ततं मङ्गलं कुरु ॥ ८ ॥

मंगलाष्टकमेतद्वै यः पठॆत् भक्तिसंयुतः ।
आयुरारॊग्यमैश्वर्यं पुत्रपौत्रादिकं लभॆत् ॥ ९ ॥
***
१५. श्रीमंत्रमातृकापुष्पमालास्तवः(

कल्लॊलॊल्लसितामृताब्धिलहरीमध्यॆविराजन्मणि-
द्वीपॆ कल्पकवाटिका परिवृतॆ कादम्बवाट्युज्ज्वलॆ ।
रत्नस्तंभसहस्रनिर्मितसभामध्यॆ विमानॊत्तमॆ
चिन्तारत्न विनिर्मितं जननि तॆ सिंहासनं भावयॆ ॥ १ ॥

एणाङ्कानलभानुमण्डललसत् श्रीचक्रमध्यॆस्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावयॆ ॥ २ ॥

ईशानादिपदं शिवैकफलकं रत्नासनं तॆ शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधॆ तदखिलं सन्तुष्टयॆ कल्पताम् ॥ ३ ॥

लक्ष्यॆ यॊगिजनस्य रक्षितजगज्जालॆ विशालॆक्षणॆ
प्रालेयांबु पटीरकुङ्कुमलसत् कर्पूरमिश्रॊदकैः ।
गॊक्षीरैरपि नारिकॆलसलिलैः शुद्धॊदकैर्मन्त्रितैः
स्नानं दॆवि धिया मयैतदखिलं सन्तुष्टयॆ कल्पताम् ॥ ४ ॥

ह्रीङ्काराङ्कितमन्त्रलक्षिततनॊ हॆमाचलात्संचितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुंभवर्णांशुकम् ।
मुक्तासन्तति यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं दॆवि धिया मयैतदखिलं सन्तुष्टयॆ कल्पताम् ॥ ६ ॥

हंसैरप्यतिलॊभनीयगमनॆ हारावलीमुज्ज्वलां
हिन्दॊलद्युतिहीरपूरिततरॆ हॆमाङ्गदॆ कङ्कणॆ ।
मंजीरौ मणिकुण्डलॆ मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ कञ्चीमपि स्वीकुरु ॥ ७ ॥

सर्वान्ङ्गॆ घनसारकुङ्कुमलसत् श्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलकॆ गॊरॊचनापत्रकम् ।
गण्डादर्शनमण्डलॆ नयनयॊर्दिव्याञ्जनं तॆऽञ्चितं
कण्ठाब्जॆ मृगनाभिपङ्कममलं त्वत्प्रीतयॆ कल्पताम् ॥ ८ ॥

कल्हारॊत्पलमल्लिकामरुवकैः सौवर्णपङ्कॆरुहैः
जातीचंपकमालतीवकुलकैः मन्दारकुन्दादिभिः ।
कॆतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजॊमालिकाः
सङ्कल्पॆन समर्पयामि वरदॆ संतुष्टयॆ गृह्यताम् ॥ ९ ॥

हन्तारं मदनस्य नन्दयसियैरङ्गैरनंगॊज्ज्वलैः
यैर्भृङ्गावलिनीलकुन्तलभरैः बद्ध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कॊमलतराण्यामॊदलीलागृहा-
ण्यामॊदाय दशाङ्गगुग्गुलुकृतैः धूपैरहं धूपयॆ ॥ १० ॥

लक्षीमुज्ज्वलयामि रत्ननिवहॊद्भास्वत्तरॆ मन्दिरॆ
मालारूपविलम्बितैर्मणिमयस्तम्भॆषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैः गव्यैर्घृतैवर्धितैः
दिव्यैर्दीपगणैर्धिया गिरिसुतॆ संतुष्टयॆ कल्पताम् ॥ ११ ॥

ह्रीङ्कारॆश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभॆदं तथा ।
शाल्यन्नं मधुशर्करादधियुतं माणिक्यपात्रॆस्थितम्
माषापूपसहस्रमम्बसफलं नैवॆद्यमावॆदयॆ ॥ १२ ॥

सच्छायैर्वरकॆतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैर्सुगन्धिमधुरैः कर्पूरखण्डॊज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैः वक्त्राम्बुजामॊदनैः
पूर्णा रत्नकलाचिका तव मुदॆ न्यस्ता पुरस्तादुमॆ ॥ १३ ॥

कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका
पात्रॆ मौक्तिकचित्रपंक्तिविलसत् कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भॊरुहम्
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १४ ॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्तॆ रसात्
इन्द्राणी च रतिश्च चामरवरॆ धत्तॆ स्वयं भारती ।
वीणामॆणविलॊचनाः सुमनसां नृत्यन्ति तद्रागवद्
भावैराङ्गिकसात्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १५ ॥

ह्रीङ्कारत्रयसंपुटॆन मनुनॊपास्यॆ त्रयीमौलिभिर्-
वाक्यैर्लक्ष्यतनॊ तवस्तुतिविधौ कॊ वा क्षमॆताम्बिकॆ ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तुतॆ
संवॆशॊ नमनः सहस्रमखिलं त्वत्प्रीतयॆ कल्पताम् ॥ १६ ॥

श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयॆच्चॆतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्तांभॊरुहमण्डपॆ गिरिसुता नृत्तं विधत्तॆ रसात्
वाणी वक्त्र सरॊरुहॆ जलधिजा गॆहॆ जगन्मङ्गला ॥ १७ ॥

इति गिरिवरपुत्री पादरजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान् मातृकापुष्पमाला ॥ १८ ॥
***
१६. गौरीदशकम्श्रीशंकराचार्यकृतं)(

लीलालब्धस्थापितलुप्ताखिललॊकां
लॊकातीतैर्यॊगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रॆणिसमानद्युतिपुञ्जां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ १ ॥

अशापाशक्लॆशविनाशं विदधानां
पादांभॊजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ २ ॥

नानाकारैश्शक्तिकदम्बैर्भुवानानि
व्याप्य स्वैरं क्रीडति यॆयं स्वयमॆका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ३ ॥

मूलाधारादुत्थितरीत्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलितांगीम् ।
यॆयं सूक्ष्मात् सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ४ ॥

यस्यामॊतं प्रॊतमशॆषं मणिमाला-
सूत्रॆ यद्वत् क्वापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ५ ॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्तॆ निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुमध्यां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ६ ॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रॊपॆन्द्रार्चितपादांबुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ७ ॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूतॆ भूतॆ भूतकदम्बप्रसवित्रीम् ।

गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ८ ॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयॊ भूयः प्रादुरभूदुत्थितमॆव ।
पत्या सार्धं राजतशैलॆ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ ९ ॥

नित्यः शुद्धॊ निष्कल एकॊ जगदीशः
साक्षी यस्याः सर्गविधौ संहरॆण च ।
विश्वत्राणक्रीडनलॊलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडॆ ॥ १० ॥

प्रातःकालॆ भावविशुद्धिं विदधानॊ
भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमुच्चैश्शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥
***
१७. दॆवीभुजङ्गस्तॊत्रम्श्री शङ्कराचार्यकृतम्)oदब्रह्मा(

विरिञ्च्यादिभिः पञ्चभिर्लॊकपालैः
समूढॆ महानन्दपीठॆ निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रॊतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥

यदन्नादिभिः पञ्चभिः कॊशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढॆ महायॊगपीठॆ निषण्णं
पुरारॆरथान्तःपुरं नौमि नित्यम् ॥ २ ॥

विनॊदाय चैतन्यमॆकं विभज्य
द्विधा दॆवि जीवः शिवश्चॆति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमॆनं शिवं वा करॊषि ॥ ३ ॥

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनॊ भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपॆ पदॆ तॆ
भवत्यंब जीवाः शिवत्वॆन कॆचित् ॥ ४ ॥

शरीरॆऽतिकष्टॆ रिपौ पुत्रवर्गॆ
सदाभीतिमूलॆ कलत्रॆ धनॆ वा ।
न कश्चिद्विरज्यत्यहॊ दॆवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबॊधः ॥ ५ ॥
शरीरॆ धनॆऽपत्यवर्गॆ कलत्रॆ
विरक्तस्य सद्दॆशिकादिष्टबुद्धॆः ।
यदाकस्मिकं ज्यॊतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ६ ॥

मृषान्यॊ मृषान्यः परॊ मिश्रमॆनं
परः प्राकृतं चापरॊ बिद्धिमात्रम् ।
प्रपञ्चं मिमीतॆ मुनीनां गणॊऽयं
तदॆतत्त्वमॆवॆति न त्वां जहीमः ॥ ७ ॥

कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतॆति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मकाभि-
स्त्वमॆकैव सॆव्या शिवाभिन्नरूपा ॥ ८ ॥

अगाधॆऽत्र संसारपङ्कॆ निमग्नं
कलत्रादिभारॆण खिन्नं नितान्तम् ।
महामॊहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमॆकैव शक्ता ॥ ९ ॥

गणॆशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा यॊगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लॊकं
विधत्सॆ कृतिं वा स्थितिं वा महॆशि ॥ १० ॥

लसत्तारहारामतिस्वच्छचॆलां
वहन्तीं करॆ पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकॊटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥ ११ ॥

समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैवसिन्दूरिताजाण्डकॊटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मॊहयॆयुः ॥ १२ ॥

मणिस्यूतताटङ्कशॊणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहॆमप्रभां त्वां
श्रियॊ नाशयत्यम्ब चाञ्चल्यभावम् ॥ १३ ॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतॊ न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षॊजगुह्याभिधानं
स्वरूपं सकृद्भावयॆत्सत्वमॆव ॥ १४ ॥

तथान्यॆ विकल्पॆषु निर्विण्णचित्ताः
तदॆवं समाधाय बिन्दुत्रयं तॆ ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १५ ॥

त्वदुन्मॆषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भॊधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवॆ तावकानां सुसम्भावनॆयम् ॥ १६ ॥

कदा वा भवत्पादपॊतॆन तूर्णं
भवाम्भॊधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमॆनं दुराशाविषाब्धौ
समालॊक्य लॊकं कथं पर्युदास्सॆ ॥ १७ ॥

कदा वा हृषीकाणि साम्यं भजॆयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलॊपः
कदा वा मनॊ मॆ समूलं विनश्यॆत् ॥ १८ ॥

नमॊवाकमाशास्महॆ दॆवि युष्मत्-
पदाम्भॊजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतॊली-
प्रदीपप्रतानप्रभाभास्वराय ॥ १९ ॥

कचॆ चन्द्ररॆखं कुचॆ तारहारं
करॆ स्वादु चापं शरॆ षट्पदौघम् ।
स्मरामि स्मरारॆरभिप्रायमॆकं
मदाघूर्णनॆत्रं मदीयं निधानम् ॥ २० ॥

शरॆष्वॆव नासा धनुष्वॆव जिह्वा
जपापाटलॆ लॊचनॆ तॆ स्वरूपॆ ।
त्वगॆष भवच्चन्द्रखण्डॆ श्रवॊ मॆ
गुणॆ तॆ मनॊवृतिरम्ब त्वयि स्यात् ॥ २१ ॥

जगत्कर्मधीरान् वचॊधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान ।
भवाम्भॊदिपारान् महापापदूरान्
भजॆ वॆदसारान् शिवप्रॆमदारान् ॥ २२ ॥

सुधासिन्धुसारॆ चिदानन्दनीरॆ
समुत्फुल्लनीपॆ सुरत्नान्तरीप ।
मणिव्यूहसालॆ स्थितॆ हैमशालॆ
मनॊजारिवामॆ निषण्णं मनॊ मॆ ॥ २३ ॥

दृगन्तॆ विलॊला सुगन्धीषुमाला
प्रपञ्चॆन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लॊकपाला
हृदि प्रॆमलॊलाऽमृतस्वादुलीला ॥ २४ ॥

जगज्जालमॆतत्त्वयैवाम्ब सृष्टं
त्वमॆवाददासीन्द्रियैरर्थजालम् ।
त्वमॆकैवकर्त्री त्वमॆकैवभॊक्त्री
न मॆ पुण्यपापॆ न मॆ बन्धमॊक्षौ ॥ २५ ॥

इति प्रॆमभारॆण किञ्चिन्मयॊक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनॊदाय बालस्य मौर्ख्यं हि मातः
तदॆतत् प्रलापस्तुतिं मॆ गृहाण ॥ २६ ॥
***

१८. नवरत्नमालिकाश्री शंकराचार्यकृतम्)(

हारनूपरकिरीटकुण्डलविभूषितावयवशॊभिनीं
कारणॆशवरमौलिकॊटिपरिकल्प्यमानपदपीठिकाम् ।
कालकालफणिपाशबाणधनुरङ्कुशामरुणमॆखलां
फालभूतिलकलॊचनां मनसि भावयामि परदॆवताम् ॥ १ ॥

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलॊचनाममलबालचन्द्रकृतशॆखरीं
इन्दिरारमणसॊदरीं मनसि भावयामि परदॆवताम् ॥ २ ॥
स्मॆरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशॊभमानकुचभारभीरुतनुमध्यमाम् ।
वीरगर्वहरनूपुरां विविधकारणॆशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि परदॆवताम् ॥ ३ ॥

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमॆखलावलयवह्निमण्डलशरीरिणीम् ।
वारिसारवहकुण्डलां गगनशॆखरीं च परात्मिकां
चारुचन्द्रविलॊचनां मनसि भावयामि परदॆवताम् ॥ ४ ॥

कुण्डलत्रिविधकॊणमण्डलविहारषड्दलसमुल्लसत्-
पुण्डरीकमुखभॆदिनीं तरुणचण्डभानुतडिदुज्ज्वलाम् ।
मण्डलॆन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि परदॆवताम् ॥ ५ ॥

वारणाननमयूरवाहमुखदाहवारणपयॊधरां
चारणादिसुरसुन्दरीचिकुरशॆखरीकृतपदांबुजाम् ।
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि परदॆवताम् ॥ ६ ॥

पद्मकान्तिपदपाणिपल्लवपयॊधराननसरॊरुहां
पद्मरागमणिमॆखलावलयनीविशॊभितनितम्बिनीम् ।
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदॆवताम् ॥ ७ ॥

आगमप्रणवपीठिकाममलवर्णमंगलशरीरिणीं
आगमावयवशॊभिनीमखिलवॆदसारकृतशॆखरीम् ।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदॆवताम् ॥ ८ ॥

कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।
वालिकामधुरगण्डमण्डलमनॊहराननसरॊरुहाम्
कालिकामखिलनायिकां मनसि भावयामि परदॆवताम् ॥ ९ ॥

नित्यमॆव नियमॆन जपतां
भुक्तिमुक्तिफलदामभीष्टदाम् ।
शंकरॆण रचितां सदा जपे-
न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥
१९. भवानीभुजङ्गम्श्रीशंकराचार्यकृतम्)षडाधारपङ्कॆरुहान्तर्विराजत्
सुषुम्नान्तरालॆऽतितॆजॊल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडॆ चिदानन्दरूपाम् ॥ १ ॥

ज्वलत्कॊटिबालार्कभासारुणांगीं
सलावण्यशृंगारशॊभाभिरामाम् ।
महापद्मकिञ्जल्कमध्यॆविराजत्
त्रिकॊणॆ निषण्णां भजॆ श्री भवानीम् ॥ २ ॥

क्वणत्किङ्किणीनूपुरॊद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजॆशाच्युताद्यैः सुरैः सॆव्यमानं
महादॆवि मन्मूर्ध्नि तॆ भावयामि ॥ ३ ॥

सुशॊणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रॊ
वलीरम्ब तॆ रॊमराजीं भजॆऽहम् ॥ ४ ॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुंभॊ-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजॆ दुग्धपूर्णाभिरामं तवॆदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥

शिरीषप्रसूनॊल्लसद्बाहुदन्डैर्-
ज्वलद्बाणकॊदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणॊदारकॆयूरभूषॊ-
ज्ज्वलद्भिर्लसन्तीं भजॆ श्री भवानीम् ॥ ६ ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मॆरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशॊभां
महासुप्रसन्नां भजॆ श्री भवानीम् ॥ ७ ॥

सुनासापुटं सुन्दरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटॆ लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भॊजमीड्यॆऽहमम्ब ॥ ८ ॥

चलत्कुन्तलान्तर्भ्रमत्भृङ्गबृन्दं
घनस्निग्द्धधम्मिल्लभूषोज्ज्वलं तॆ ।
स्फुरन्मौलिमाणिक्यबद्धॆन्दुरॆखा-
विलासॊल्लसद्दिव्यमूर्धानमीडॆ ॥ ९ ॥

इति श्रीभवानी स्वरूपं तवॆदं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिंभस्य मॆ हृत्सरॊजॆ
सदा वाङ्मयं सर्वतॆजॊमयं च ॥ १० ॥

गणॆशाभिमुख्याखिलैः शक्तिबृन्दैर्-
वृतां वै स्फुरच्चक्रराजॊल्लसन्तीम् ।
परां राजराजॆश्वरि त्रैपुरि त्वां
शिवाङ्कॊपरिस्थां शिवां भावयामि ॥ ११ ॥

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यॊ न कश्चित्प्रपञ्चॊऽस्ति सर्वं
त्वामानन्दसंवित्स्वरूपां भजॆऽहम् ॥ १२ ॥

श्रुतीनामगम्यॆ सुवॆदागमज्ञा
महिम्नॊ न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि तॆ त्वं भवानि
क्षमस्वॆदमत्र प्रमुग्द्धः किलाहम् ॥ १३ ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमॆव
त्वमॆवासिमाता पिता च त्वमॆव ।
त्वमॆवासि विद्या त्वमॆवासि बन्धुर्-
गतिर्मॆ मतिर्दॆवि सर्वं त्वमॆव ॥ १४ ॥

इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठॆद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वॆदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १५ ॥

भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा यॆ जपन्ति ।
न शॊकं न मॊहं न पापं न भीतिः
कदाचित् कथंचित् कुतश्चिज्जनानाम् ॥ १६ ॥
***

२०. अन्नपूर्णास्तॊत्रम्
(श्री शंकराचार्यकृतम्)

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघॊरपापनिकरी प्रत्यक्षमाहॆश्वरी ।
प्रालॆयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ १ ॥

नानारत्नविचित्र भूषणकरी हॆमाम्बराडम्बरी
मुक्ताहार-विलम्बमान-विलसद्-वक्षॊजकुम्भान्तरी ।
काश्मीरगरुवासितारुचिकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ २ ॥

यॊगानन्दकरी रिपुक्षयकरी धर्मैकनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलॊक्यरक्षाकरी ।
सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ३ ॥

कैलासाचलकन्दरालयकरी गौरीह्युमाशंकरी
कौमारी निगमार्थगॊचरकरी ऒंकारबीजाक्षरी ।
मॊक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ४ ॥

दृश्यादृश्यविभूतिभावनकरी ब्रह्माण्डभाण्डॊदरी
लीलानाटकसूत्रखॆलनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वॆशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ५ ॥

उर्वी सर्वजनॆश्वरी जयकरी माता कृपासगरी
नारी नीलसमानकुन्तलधरी नित्यान्नदानॆश्वरी ।
सर्वानन्दकरी दशाशुभकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ६ ॥

आदिक्षान्तसमस्तवर्णनिकरी शंभॊस्त्रिभावाकरी
काश्मीरा त्रिपुरॆश्वरी त्रिलहरी नित्याङ्कुरी शर्वरी ।
कामाकाङ्क्षकरी जनॊदयकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ७ ॥

दॆवी सर्वविचित्ररत्नरुचिरा दाक्षायणी सुन्दरी
वामा स्वादुपयॊधरा प्रियकरी सौभाग्यमाहॆश्वरी ।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ८ ॥

चन्द्रार्कानलकॊटिकॊटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णॆश्वरी ।
मालापुस्तकपाशकाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ ९ ॥

क्षत्रत्राणकरी महाभयकरी माता कृपासागरी
साक्षान्मॊक्षकरी सदाशिवकरी विश्वॆश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां दॆहि कृपावलम्बनकरी मातान्नपूर्णॆश्वरी ॥ १० ॥

अन्नपूर्णॆ सदापूर्णॆ
शंकरप्राणवल्लभॆ ।
ज्ञानवैराग्यसिध्यर्थं
भिक्षां दॆहि च पार्वति ॥ ११ ॥

माता च पर्वती दॆवी
पिता दॆवॊ महॆश्वरः ।
बान्धवाः शिवभक्ताश्च
स्वदॆशॊ भुवनत्रयम् ॥ १२ ॥
***

२१. श्रीजगद्धात्रीस्तॊत्रम्(

आधारभूतॆचाधॆयॆ धृतिरूपॆ धुरंधरॆ ।
ध्रुवॆ ध्रुवपदॆ धीरॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ १ ॥

शिवाकारॆ शक्तिरूपॆ शक्तिस्थॆ शक्तिविग्रहॆ ।
शाक्ताचार प्रियॆ दॆवि जगद्धात्रि नमॊऽस्तु तॆ ॥ २ ॥

जयदॆ जगदानन्दॆ जगदॆकप्रपूजितॆ ।
जय सर्वगतॆ दुर्गॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ३ ॥

सूक्ष्मातिसूक्ष्मरूपॆ च प्राणापानादिरूपिणि ।
भावाभावस्वरूपॆ च जगद्धात्रि नमॊऽस्तु तॆ ॥ ४ ॥

कालादिरूपॆ कालॆशॆ कालकाल विभॆदिनि ।
सर्वस्वरूपॆ सर्वज्ञॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ५ ॥

महाविघ्नॆ महॊत्साहॆ महामायॆ वरप्रदॆ ।
प्रपञ्चसारॆ साध्वीशॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ६ ॥

अगम्यॆ जगतामाद्यॆ माहॆश्वरि वरांगनॆ ।
अशॆषरूपॆ रूपस्थॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ७ ॥

तीर्थयज्ञतपॊदानयॊगसारॆ जगन्मयि ।
त्वमॆव सर्वं सर्वस्थॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ८ ॥

दयारूपॆ दयादृष्टॆ दयार्द्रॆ दुःखमॊचनि ।
सर्वापत्तारिकॆ दुर्गॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ ९ ॥

अगम्यधामधामस्थॆ महायॊगीशहृत्पुरॆ ।
अमॆयभावकूटस्थॆ जगद्धात्रि नमॊऽस्तु तॆ ॥ १० ॥
***

२२. श्री दुर्गादॆवीध्यानम्श्रीजगद्धात्री कल्पांतर्गतम्) (

ऒं जटाजूटसमायुक्तामर्द्धॆन्दुकृतशॆखराम् ।
लॊचनत्रयसंयुक्तां पूर्णॆन्दुसदृशाननाम् ॥ १ ॥

अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलॊचनाम् ।
नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥ २ ॥

सुचारुदशनां तद्वत् पीनॊन्नतपयॊधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३ ॥

मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणॆ ध्यॆयं खड्गं चक्रं क्रमादधः ॥ ४ ॥

तीक्ष्णबाणं तथा शक्तिं दक्षिणॆन विचिन्तयॆत् ।
खॆटकं पूर्णचापं च पाशमङ्कुशमॆवच ॥ ५ ॥

घण्टां वा परशुं वाऽपि वामतः सन्निवॆशयेत् ।
अधस्तान्महिषं तद्वत् विशिरस्कं प्रदर्शयॆत् ॥ ६ ॥

शिरच्छॆदॊद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदिशूलॆन निर्भिन्नं निर्यदान्त्रविभूषितम् ॥ ७ ॥

रक्तारक्तीकृताङ्गञ्च रक्तविस्फुरितॆक्षणम् ।
वॆष्टितं नागपाशॆन भ्रुकुटीभीषणाननम् ॥ ८ ॥

सपाशवामहस्तॆन धृतकॆशञ्च दुर्गया ।
वमद्रुधिरवक्त्रंच दॆव्याः सिंहं प्रदर्शयॆत् ॥ ९ ॥

दॆव्यास्तु दक्षिणं पादं समं सिंहॊपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषॊपरि ॥ १० ॥ब्रूहन्नन्दिकॆश्वरपुराणांतर्गतम्) [
शत्रुक्षयकरीं दॆवीं दैत्यदानवदर्पहाम्

स्तूयमानञ्च तद्रूपममरैः सन्निवॆशयॆत् ॥ १२ ॥

उग्रचण्डा प्रचण्डा च चण्डॊग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपाऽतिचण्डिका ॥ १३ ॥

आभिः शक्तिभिरष्टाभिः सततं परिवॆष्टिताम् ।
चिन्तयॆत् जगतां धात्रीं धर्मकामार्थमॊक्षदाम् ॥ १४ ॥
***
२३. श्रीराजराजॆश्वर्यष्टकम्प्रसन्नवदनां दॆवीं सर्वकामफलप्रदाम् ।] ॥ ११ ॥अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती
काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी ।
सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ १ ॥

अम्बा मॊहिनि दॆवता त्रिभुवनी अनन्दसन्दायिनी
वाणी पल्लवपाणिवॆणुमुरलीगानप्रियालॊलिनी ।
कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ २ ॥

अम्बा नूपुररत्नकङ्कणधरी कॆयूरहारावली
जातीचंपकवैजयन्तिलहरी ग्रैवॆयवैराजिता ।
वीणावॆणुविनॊदमण्डितकरा वीरासनासंस्थिता
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ३ ॥

अम्बा रौद्रिणि भद्रकालि बगला ज्वालामुखी वैष्णवी
ब्रह्माणी त्रिपुरान्तकी सुरनुता दॆदीप्यमनॊज्ज्वला ।
चामुण्डाश्रितरक्षपॊषजननी दाक्षायणी वल्लवी
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ४ ॥

अम्बा शूलधनुः कुशाङ्कुशधरी अर्द्धॆन्दुबिम्बाधरी
वाराही मधुकैटभप्रशमनी वाणीरमासॆविता ।
मल्लाद्यासुरमूकदैत्यदमनी माहॆश्वरी अम्बिका
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ५ ॥

अम्बा सृष्टिविनाशपालनकरी आर्याविशंशॊभिता
गायत्री प्रणवाक्षरामृतरसा पूर्णानुसन्धीकृता ।
ऒङ्कारी विनतासुतार्चितपदा उद्दण्डदैत्यापहा
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ६ ॥

अम्बा शाश्वत आगमादिविनुता आर्या महादॆवता
या ब्रह्मादि पिपीलिकान्तजननी या वै जगन्मॊहिनी ।
या पञ्चप्रणवादिरॆफजननी या चित्कलामालिनी
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ७ ॥

अम्बापालितभक्तराजरनिशं अम्बाष्टकं यः पठेत्
अम्बा लॊककटाक्षवीक्षललितं चैश्वर्यमव्याहतम् ।
अम्बा पावन मन्त्रराजपठनादन्तॆ च मॊक्षप्रदा
चिद्रूपी परदॆवता भगवती श्रीराजराजॆश्वरी ॥ ८ ॥
***
२४. दुर्गाष्टकम्कात्यायनि महामायॆ खड्गबाणधनुर्धरॆ ।
खड्गधारिणि चण्डिश्री दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ १ ॥
वसुदॆवसुतॆ कालि वासुदॆवसहॊदरि ।
वसुन्धराश्रियॆ नन्दॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ २ ॥

यॊगनिद्रॆ महानिद्रॆ यॊगमायॆ महॆश्वरि ।
यॊगसिद्धिकरॆ शुद्धॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ३ ॥

शङ्खचक्रगदापाणॆ शाङ्‌र्गज्यायतबाहवॆ ।
पीताम्बरधरॆ धन्यॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ४ ॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलॊकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मी दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ५ ॥

वृष्णीनांकुलसंभूतॆ विष्णुनाथसहॊदरि ।
वृष्णिरूपधरॆ धन्यॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ६ ॥

सर्वज्ञॆ सर्वगॆ शर्वॆ सर्वॆशॆ सर्वसाक्षिणि ।
सर्वामृतजटाभारॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ७ ॥

अष्टबाहुमहासत्वॆ अष्टमीनवमिप्रियॆ ।
अट्टहासप्रियॆ भद्रॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ८ ॥

दुर्गाष्टकमिदं पुण्यं भक्तितॊ यः पठॆन्नरः ।
सर्वान्कामानवाप्नॊति दुर्गालॊकं स गच्छति ॥ ९ ॥
***
२५. आपदुद्धारकदुर्गास्तॊत्रम्(श्री सिद्धॆश्वरीतन्त्रान्तर्गतम्)

नमस्तॆ शरण्यॆ शिवॆ सानुकम्पॆ
नमस्तॆ जगद्व्यापिकॆ विश्वरूपॆ ।
नमस्तॆ जगद्वन्द्य पादारविन्दॆ
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ १ ॥

नमस्तॆ जगत्‌चिन्त्यमानस्वरूपॆ
नमस्ते महायॊगिनि ज्ञानरूपॆ ।
नमस्तॆ नमस्तॆ सदानन्दरूपॆ
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ २ ॥

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमॆका गतिर्द्दॆवि निस्तारकर्त्री
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ३ ॥
अरण्यॆ रणॆ दारुणॆ शत्रुमध्यॆ-
ऽनलॆ सागरॆ प्रान्तरॆ राजगॆहॆ ।
त्वमॆकागतिर्दॆवि निस्तारनौका
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ४ ॥

अपारॆ महादुस्तरॆऽत्यन्तघॊरॆ
विपत्सागरॆ मज्जतां दॆहभाजाम् ।
त्वमॆका गतिर्द्दॆवि निस्तारहॆतुः
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ५ ॥

नमश्चण्डिकॆ चण्डदुर्द्दण्डलीला-
समुत्खण्डिताखण्डिताशॆषशत्रॊ ।
त्वमॆका गतिर्द्दॆवि निस्तारबीजं
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ६ ॥

त्वमॆवाघभावाधृता सत्यवादी
नजाताजित क्रॊधनात्क्रॊधनिष्ठा ।
इडा पिङ्गलात्वं सुषुम्नाच नाडी
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ७ ॥

नमॊ दॆवि दुर्गॆ शिवॆ भीमनादॆ
सरस्वत्यरुन्धत्यमॊघस्वरूपॆ ।
विभूतिः शची कालरात्रिः सती त्वं
नमस्तॆ जगत्तारिणि त्राहि दुर्गॆ ॥ ८ ॥

शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमॆका दॆवि दुर्गॆ प्रसीद ॥ ९ ॥

सर्वं वा श्लॊकमॆकं वा यः पठेद्भक्तिमान् सदा ।
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नॊति परमं पदम्
पठनादस्य भूतॆशि किं न सिध्यति भूतलॆ ॥ १० ॥
***
 
 
 
२६. शीतलाष्टकम्(

वन्दॆऽहं शीतलां दॆवीं रासभस्थां दिगंबराम् ।
मार्जनीकलशॊपॆतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥

वन्दॆऽहं शीतलां दॆवीं सर्वरॊगभयापहाम् ।
यामासाद्य निवर्तॆत विस्फॊटकभयं महत् ॥ २ ॥

शीतलॆ शीतलॆ चॆति यॊ ब्रूयाद्दाहपीडितः ।
विस्फॊटकभयं घॊरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥

यस्त्वामुदकमध्यॆतु ध्यात्वा संपूजयॆन्नरः ।
विस्फॊटकभयं घॊरं गृहॆ तस्य न जायतॆ ॥ ४ ॥

शीतलॆ ज्वरदग्धस्य पूतिगन्धयुतस्य च ।
प्रणष्टचक्षुषः पुंसः त्वामाहुर्जीवनौषधम् ॥ ५ ॥

शीतलॆ तनुजान् रॊगान् नृणां हरसि दुस्त्यजान् ।
विस्फॊटकविदीर्णानां त्वमॆकामृतवर्षिणी ॥ ६ ॥

गलगण्डग्रहा रॊगाः यॆचान्यॆ दारुणा नृणाम् ।
त्वदनुध्यानमात्रॆण शीतलॆ यान्ति संक्षयम् ॥ ७ ॥

न मन्त्रॊ नौषधं तस्य पापरॊगस्य विद्यतॆ ।
त्वामॆकां शीतलॆ धात्रीं नान्यां पश्यामि दॆवताम् ॥ ८ ॥

मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां संचिन्तयॆत् दॆवि तस्य मृत्युर्न जायतॆ ॥ ९ ॥

अष्टकं शीतला दॆव्याः यॊ नरः प्रपठॆत् सदा ।
विस्फॊटकभयं घॊरं गृहॆ तस्य न जायतॆ ॥ १० ॥

श्रॊतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥

शीतलॆ त्वं जगन्माता शीतलॆ त्वं जगत्पिता ।
शीतलॆ त्वं जगद्धात्री शीतलायै नमॊनमः ॥ १२॥

रासभॊ गर्दभश्चैव खरॊ वैशाखनन्दनः ।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३ ॥

एतानि खरनामानि शीतलाग्रॆ तु यः पठॆत् ।
तस्य गॆहॆ शिशूनां च शीतला रुङ् न जायतॆ ॥ १४ ॥

शीतलाष्टकमॆवॆदं न दॆयं यस्य कस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥
***
 
२७. ज्ञानप्रसूनाम्बिकास्तॊत्रम्स्कान्दपुराणान्तर्गतम्)माणिक्यान्ञ्चितभूषणां मणिरवां माहॆन्द्रनीलॊज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तॆभकुम्भस्तनीम् ।
मौलिस्तॊमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥

श्यामां राजनिभाननां रतिहितां राजीवपत्रॆक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानॆश्वरीम् ।
रक्षॊगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥

कल्याणीं करिकुम्भभासुरकुचां कामॆश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥

भवातीत मनःप्रभावभरितां ब्रह्माण्डभाण्डॊदरीं
बालां बालकुरङ्गनॆत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षॆत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥

वीणागानविनॊदिनीं विजयिनीं वॆतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शंकरीम् ।
विद्वॆषिण्यरिभञ्जिनीं स्तुतिभवां वॆदान्तवॆद्यां शिवां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥

नानाभूषितभूषणादिविमलां लावण्यपाथॊनिधिं
काञ्चीचंचलघाटिका कलरवां कञ्जातपत्रॆक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥

मन्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारदुममञ्जरीमधुझरी माधुर्यखॆलत्गिराम् ।
मातंगीं मधुरालसां करशुकां नीलालकालंकृतां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥

कर्णालम्बितहॆमकुण्डलयुगां कादम्बवॆणीमुमां
अम्भॊजासनवासवादिविनुतां अर्द्धॆन्दुभूषॊज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥

कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासॊज्ज्वलां
गंगावर्तसमाननाभिकुहरां गांगॆयभूषान्विताम् ।
चन्द्रार्कानलकॊटिकॊटिसदृशां चन्द्रार्कबिम्बाननां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥

बालादित्यनिभाननां त्रिनयनां बालॆन्दुना भूषितां
नीलाकारसुकॆशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्यायॆ चॆतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥
***
२८. श्रीदुर्गाकवचम्ईश्वर उवाच
शृणु दॆवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरॊ मुच्यॆत सङ्कटात् ॥ १ ॥

उमा दॆवी शिरः पातु ललाटं शूलधारिणी ।
चक्षुषी खॆचरी पातु वदनं सर्वधारिणी ॥ २ ॥

जिह्वां च चण्डिका दॆवी ग्रीवां सौभद्रिका तथा ।
अशॊकवासिनी चॆतॊ द्वौ बाहू वज्रधारिणी ॥ ३ ॥

हृदयं ललिता दॆवी उदरं सिंहवाहिनी ।
कटिं भगवती दॆवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥

महाबाला च जङ्घॆ द्वॆ पादौ भूतलवासिनी
एवं स्थिताऽसि दॆवि त्वं त्रैलॊक्यरक्षणात्मिकॆ ।
रक्ष मां सर्वगात्रॆषु दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ५ ॥
***
२९. श्री अम्बापञ्चरत्नम्अम्बा शंबरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बॊष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रॊणी नितम्बाङ्किता
मामम्बापुरवासिनी भगवती हॆरम्बमाताऽवतु ॥ १ ॥

कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
कालश्यामलमॆचकद्युतिमती गायत्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हॆरम्बमाताऽवतु ॥ २ ॥

काञ्चीकङ्कणहारकुण्डलवती कॊटी किरीटान्विता
कन्दर्पद्युतिकॊटि कॊटि सदना पीयूषकुम्भस्तना ।
कौसुम्भारुण काञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती हॆरम्बमाताऽवतु ॥ ३ ॥

या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरॊजनॆत्रभवना या ब्रह्मविद्यासनी ।
या दॆवी मधुकैटभासुररिपुः या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हॆरम्बमाताऽवतु ॥ ४ ॥

श्रीविद्या परदॆवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरॆश्वरी शिवसती श्रीराजराजॆश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हॆरम्बमाताऽवतु ॥ ५ ॥

अम्बा पञ्चकमद्भुतं पठति चॆत् यॊ वा प्रभातॆऽनिशं
दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितलॆ स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्तॆ स्वर्गफलं लभॆत् स विबुधैः संस्तूयमानॊ नरः ॥ ६ ॥
***

३०. श्रीभुवनॆश्वरीपञ्चरत्नस्तुतिः
नमॊ दॆव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याण्यै कामदायै च वृत्त्यै सिद्ध्यै नमॊ नमः ॥ १ ॥

सच्चिदानन्दरूपिण्यै संसारारण्ये नमॊ नमः ।
पञ्चकृत्यै विधात्र्यै च भुवनॆश्वर्यै नमॊ नमः ॥ २ ॥

विद्या त्वमॆव ननु बुद्धिमतां नराणां ।
शक्तिस्त्वमॆव किल शक्तिमतां सदैव ।
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
मुक्तिप्रदा विरतिरॆव मनुष्यलॊकॆ ॥ ३ ॥

त्राता त्वमॆव मम मॊहमयात् भवाब्धॆः
त्वामम्बिकॆ सततमॆव महार्तिदॆ च ।
रागादिभिर्विरचितॆ विततॆऽखिलान्तॆ
मामॆव पाहि बहुदुःखहरॆ च कालॆ ॥ ४ ॥

नमॊ दॆवि महाविद्यॆ नमामि चरणौ तव
सदा ज्ञानप्रकाशं मॆ दॆहि सर्वार्थदॆ शिवॆ ।
***
 
 
 
३१. श्री मूकाम्बिकास्तॊत्रम्मूलाम्भॊरुहमध्यकॊणविलसत्बन्धूकरागॊज्ज्वलां
ज्वाला ज्वालजितॆन्दुकान्तिलहरीं सानन्द सन्दायिनीम् ।
हॆलालालित नीलकुन्तलधरां नीलॊत्पलाभांशुकां
कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १ ॥

बालादित्यनिभाननां त्रिनयनां बालॆन्दुनाभूषितां
नीलाकार सुकॆशिनीं सुललितां नित्यान्नदानप्रियाम् ।
श्ङ्खं चक्रगदाभयं च दधतीं सारस्वतार्थप्रदां
तां बालां त्रिपुरीं शिवॆनसहितां ध्यायामि मूकाम्बिकाम् ॥ २ ॥

मध्याह्नार्कसहस्रकॊटिसदृशां मायान्धकारस्थितां
मध्यन्तादिभिरर्चितां मदकरीं मारॆण संसॆविताम् ।
शूलंपाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां
तां बालां त्रिपुरीं शिवॆनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३ ॥
सन्ध्यारागसमाननां त्रिनयनां सन्मानसैः पूजितां
चक्राक्षाभयकंबुशॊभितकरां प्रालम्बवॆणीयुताम् ।
ईषत्फुल्लसुकॆतकीदललसच्चाभ्यर्चितां तां शिवां
तां बालां त्रिपुरीं शिवॆनसहितां ध्यायामि मूकाम्बिकाम् ॥ ४ ॥

चन्द्रादित्यसमानकुण्डलधरां चन्द्रार्ककॊटिप्रभां
चन्द्रार्काग्निविलॊचनां शशिमुखीमिन्द्रादिसंसॆविताम् ।
मन्त्राख्यन्त सुन्दर याग पतितां चिन्ताकुलध्वंसिनीं
मन्त्राराति वनॆस्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥ ५ ॥

कल्याणीं कमलॆक्षणां निरवधिं वन्दारुचिन्तामणिं
कल्याणाचलसंस्थितां घनकृपां मायां महावैष्णवीम् ।
कल्यां कंबुसुदर्शनाभयकरां शम्भुप्रियां कामदां
कल्याणीं त्रिपुरीं शिवॆनसहितां ध्यायामि मूकाम्बिकाम् ॥ ६ ॥

कालाम्भॊधरकुण्डलाञ्चितमुखां कर्पूरवीटीयुतां
कर्णालम्बितहॆमकुण्डलधरां माणिक्यकाञ्चीधराम् ।
कैवल्यैकपरायणां कलिमलप्रध्वंसिनीं कामदां
कल्याणीं त्रिपुरीं शिवॆनसहितां ध्यायामि मूकाम्बिकाम् ॥ ७ ॥

नानाकाञ्चि विचित्रवस्त्रसहितां नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां नानाजनासॆविताम् ।
नानावॆदपुराणशास्त्रविनुतां नानाकलत्रप्रदां
नानारूपधरां महॆशमहिषीं ध्यायामि मूकाम्बिकाम् ॥ ८ ॥

राकातारकनायकॊज्ज्वलमुखीं श्रीकामकाम्यप्रदां
शॊकारण्यधनञ्जयप्रतिनिभां कॊपाटवीचन्द्रिकाम् ।
श्रीकान्तादि सुरार्चितां स्त्रियमिमां लॊकावली नाशिनीं
लॊकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥ ९ ॥

काञ्चीकिङ्किणिकङ्कणाञ्चितकरां मञ्जीरहारॊज्ज्वलां
चञ्चत्‌काञ्चनकिरीटकटिदामाश्लॆषभूषॊज्ज्वलाम् ।
किञ्चित् काञ्चन कञ्चुकॆ मणिमयॆ पद्मासनॆ संस्थितां
पञ्चाद्यञ्चितसञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १० ॥

सौवर्णाम्बुजमध्यकाञ्चिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयानिदधतीं इन्दॊः कलां बिभ्रतीम् ।
ग्रैवॆयासक्तहारकुण्डलधरां आखण्डलादिस्तुतां
मायां विन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ ११ ॥
श्रीमन्विभवॆन सुरैर्मुनिगणैरप्सरॊपास्य सॆव्यां
मन्त्रारादिसमस्तदॆववनितैः संशॊभमानां शिवां ।
सौवर्णाम्बुजधारिणीं त्रिनयनां मॊहादि कामॆश्वरीं
मूकाम्बां सकलॆश सिद्धिवरदां वन्दॆ परां दॆवताम् ॥ १२ ॥
***

३२. श्री कामाक्षीस्तॊत्रम्काञ्चीनूपुररत्नकङ्कणलसत्कॆयूरहारॊज्ज्वलां
काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकॊज्ज्वलमुखीं कारुण्यकल्लॊलिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ १ ॥

कामारातिमनःप्रियां कमलभूसॆव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत् सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनॊदिनीं भगवतीं काम्यप्रदानव्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ २ ॥

कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादंबमालाश्रियं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ३ ॥

गन्धर्वामरसिद्धचारणवधूध्यॆयां पताकाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गंगाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ४ ॥

विष्णुब्रह्ममुखामरॆन्द्रविलसत्कॊटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकॆन्दुबिम्बाननाम् ।
वॆदान्तागमवॆद्यचिन्त्यचरितां विद्वज्जनैरावृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ५ ॥

माकन्दद्रुममूलदॆशमहितॆ माणिक्यसिंहासनॆ
दिव्यां दीपितहॆमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदॆहभरितां दृष्टिप्रमॊदार्पितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ६ ॥

आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां
आकाशादिसमस्तभूतनिवहाकारां अशॆषात्मिकाम् ।
यॊगीन्द्रैरपि यॊगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ७ ॥

ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं
एं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशॆषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ८ ॥

सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं
मायाविश्वविमॊहिनीं मधुमतीं ध्यायॆत् शुभां ब्राह्मणीम् ।
ध्यॆयां किन्नरसिद्धचारणवधू ध्यॆयां सदा यॊगिभिः
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदॆवताम् ॥ ९ ॥

कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्ता ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदॆवीं कलयामि चित्तॆ ॥ १० ॥
***

३३. श्री महिषासुरमर्द्दिनीस्तॊत्रम्अयिगिरिनन्दिनि नन्दितमॆदिनि विश्वविनॊदिनि नन्दनुतॆ
गिरिवरविन्ध्यशिरॊऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुतॆ ।
भगवति हॆ शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतॆ
त्रिभुवनपॊषिणि शंकरतॊषिणि किल्बिषमॊषिणि घॊषरतॆ ।
दनुजनिरॊषिणि दितिसुतरॊषिणि दुर्मदशॊषिणि सिन्धुसुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरतॆ
शिखरिशिरॊमणि तुङ्गहिमालयशृङ्गनिजालयमध्यगतॆ ।
मधुमधुरॆ मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ३ ॥

अयि शतखण्ड विखण्डित रुण्डवितुण्डित शुण्डगजाधिपतॆ
रिपुगजगण्ड विदारण चण्डपराक्रम शुण्डमृगाधिपतॆ ।
निजभुजदण्डनिपातित खण्डविपातित मुण्डभटाधिपतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ४ ॥

अयि रणदुर्मद शत्रुवधॊदित दुर्धर निर्ज्जर शक्तिभृतॆ
चतुरविचार धुरीण महाशिव दूतकृत प्रमथाधिपतॆ ।
दुरित दुरीह दुराशय दुर्मति दानवदूतकृतान्तमतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ५ ॥

अयि शरणागत वैरि वधूवर वीरवराभयदायकरॆ
त्रिभुवनमस्तक शूलविरॊधिशिरॊऽधिकृतामलशूलकरॆ ।
धुमिधुमितामर दुन्दुभिनाद महॊ मुखरीकृत तिग्मकरॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ६ ॥

अयि निजहुङ्कृतिमात्रनिराकृत धूम्रविलॊचनधूम्रशतॆ
समरविशॊषितशॊणितबीज समुद्भवशॊणित बीजलतॆ ।
शिव शिव शुम्भनिशुम्भ महाहव तर्पितभूतपिशाचरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ७ ॥

धनुरनुसंग रणक्षणसंग परिस्फुरदंग नटत्कटकॆ
कनकपिशङ्गपृषत्कनिषङ्ग रसद्भटशृङ्ग हतावटुकॆ ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुकॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ८ ॥

जय जय जप्यजयॆ जयशब्द परस्तुतितत्पर विश्वनुतॆ
भण भण भञ्जिमि भिंकृत नूपर शिञ्जितमॊहित भूतपतॆ ।
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ९ ॥

अयि सुमनः सुमनः सुमनः सुमनॊहरकान्तियुतॆ
श्रितरजनी रजनी रजनी रजनीकर वक्त्रवृतॆ ।
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १० ॥

सहितमहाहवमल्लमतल्लिक मल्लितरल्लक मल्लरतॆ
विरचितवल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्गवृतॆ ।
सितकृतफुल्लसमुल्लसितारुण तल्लज पल्लव सल्ललितॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ११ ॥
अविरलगण्डगलन्मद मॆदुर मत्तमतङ्गज राजपतॆ
त्रिभुवन भूषण भूतकलानिधि रूपपयॊनिधि राजसुतॆ ।
अयि सुदतीजन लालसमानस मॊहन मन्मथ राजसुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १२ ॥

कमलदलामलकॊमलकान्तिकलाकलितामल फालतलॆ
सकल विलास कलानिलयक्रम कॆलि चलत् कलहंसकुलॆ ।
अलिकुलसङ्कुलकुवलयमण्डल मौलि मिलद्बकुलालिकुलॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १३ ॥

करमुरलीरव वीजितकूजित लज्जितकॊकिलमञ्जुमतॆ
मिलितपुलिन्द मनॊहरगुञ्जित रंजित शैलनिकुंजगतॆ ।
निजगणभूतमहाशबरीगण सद्गुण संभृत कॆलितलॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १४ ॥

कटितटपीतदुकूलविचित्रमयूख तिरस्कृत चन्द्ररुचॆ
प्रणत सुरासुर मौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचॆ ।
जितकनकाचल मौलिपदॊर्जित निर्भरकुञ्जरकुंभकुचॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १५ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुतॆ
कृतसुरतारक संगरतारक संगरतारक सूनुसुतॆ ।
सुरथसमाधि समानसमाधि समाधि समाधि सुजातरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १६ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवॆ
अयि कमलॆ कमलानिलयॆ कमलानिलयः स कथं न भवॆत् ।
तवपदमॆव परंपदमित्यनुशीलयतॊ मम किं न शिवॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १७ ॥

कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुतॆ गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १८ ॥

तव विमलॆन्दुकुलं वदनॆन्दुमलं सकलं ननु कूलयतॆ
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियतॆ ।
मम तु मतं शिवनामधनॆ भवती क्रुपया किमुतत्क्रियतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १९ ॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमॆ
अयि जगतॊ जननी कृपयासि यथासि तथाऽनुमितासिरतॆ ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ २० ॥
***

 
 
३४. कामाक्ष्यष्टकम्श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्यॆ स्तितां
कल्याणीं कमनीय चारु मकुटां कौसुम्भवस्त्रान्विताम् ।
श्री वाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ १ ॥

मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनॊदकॆलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ २ ॥

श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिन्ङ्गित नीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बॊज्ज्वलाम्
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ३ ॥

लीलाकल्पितजीवकॊटिनिवहां चिद्रूपिणीं शंकरीं
ब्रह्माणीं भवरॊगतापशमनीं भव्यात्मिकां शाश्वतीम् ।
दॆवीं माधवसॊदरीं शुभकरीं पञ्चाक्षरीं पावनीं
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ४ ॥

वामां वारिजलॊचनां हरिहरब्रह्मॆन्द्रसंपूजितां
कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् ।
दॆवीं शुम्भनिषूदिनीं भगवतीं कामॆश्वरीं दॆवतां
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ५ ॥

कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां
कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् ।
दॆवीं शंकरहृत्सरॊजनिलयां सर्वाघहन्त्रीं शुभां
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ६ ॥
शान्तां चन्ञ्चलचारुनॆत्रयुगलां शैलॆन्द्रकन्यां शिवां
वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् ।
सौम्यां सिन्धुसुतां सरॊजवदनां वाग्दॆवतामम्बिकां
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ७ ॥

चन्द्रार्कानललॊचनां गुरुकुचां सौन्दर्यचन्द्रॊदयां
विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् ।
मुग्द्धस्मॆरसमीक्षणॆन सततं सम्मॊहयन्तीं शिवाम्
कामाक्षीं करुणामयीं भगवतीं वन्दॆ परां दॆवताम् ॥ ८ ॥
***


Author Socials Follow me