कैवल्याष्टकम्
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलं ।
पावनं पावनेभोऽपि हरेर्नामैव केवलम् ॥१॥
आब्रह्मस्तंबपर्यन्तं सर्वं मायामयं जगत्
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥
स गुरुः स पिता चापि सा माता बान्धवोऽपि सः
शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥
निःश्वासे नहि विश्वासः कदा रुद्धो भविष्यति
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥
हरिः सदा वसेत्तत्र यत्र भागवता जनाः
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥
अहो दुःखं महादुःखं दु:खात् दुःखतरं यतः
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥
तृणीकृत्य जगत्सर्वं राजते सकलोपरि
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥८॥