Prayer by Indradyumna from
Koorma purANam
Koorma purANam
कूर्मस्तवः (कूर्मपुराणांतर्गतम्)
इन्द्रद्युम्न
उवाच ।
उवाच ।
यज्ञेशाच्युत
गोविन्द माधवानन्त केशव ।
कुष्ण
विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।।१॥
गोविन्द माधवानन्त केशव ।
कुष्ण
विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ।।१॥
नमोऽस्तु
ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां
हेतवेऽनन्तशक्तये ॥ २॥
ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां
हेतवेऽनन्तशक्तये ॥ २॥
निर्गुणाय
नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय
नमस्तेस्तु विश्वरूपाय ते नमः ॥३॥
नमस्ते
वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय
ज्ञानगम्याय ते नमः ॥४॥
ज्ञानगम्याय ते नमः ॥४॥
नमस्ते
निर्विकाराय निष्प्रपञ्चाय ते नमः ।:
भेदाभेदविहीनाय
नमोऽस्त्वानन्दरूपिणे ॥५॥
नमस्ताराय
शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये
तुभ्यममूर्ताय नमो नमः ॥६॥
शान्ताय नमोऽप्रतिहतात्मने ।
अनन्तमूर्तये
तुभ्यममूर्ताय नमो नमः ॥६॥
नमस्ते
परमार्थाय मायातीताय ते नमः:
नमस्ते
परमेशाय ब्रह्मणे परमात्मने ॥७॥
नमोऽस्तु
ते सुसूक्ष्माय महादेवाय ते नमः ।:
नमः
शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥८॥
त्वयैव
सृष्टमखिलं त्वमेव परमा गतिः ।:
त्वं
पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥९॥
त्वमक्षरं
परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं
तमसः परम् ॥१०॥
प्रपश्यन्ति
परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये
भवतो रूपं तद्विष्णोः परमं पदम् ॥११॥
भवतो रूपं तद्विष्णोः परमं पदम् ॥११॥
(Contributed by Sri DKM Kartha)