SRI CHANDRA ASHTAVIMSHATI NAMA STOTRAM

श्री चन्द्राष्टाविंशतिनामस्तोत्रम्
चन्द्रस्य शृणु नामानि शुभदानि महीपते।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥१॥
सुधाकरो  विधुः सोमो ग्लौरब्जः कुमुदप्रियः।
लोकप्रियः शुभ्रभानुः चन्द्रमा रोहिणीपतिः ॥२॥
शशी
हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय
इन्दुः शीतांशुरोषधीशः कलानिधिः ॥३॥
जैवातृको
रमाभ्राता क्षीरोदार्णवसंभवः।
नक्षत्रनायकः
शंभुशिरश्चूडामणिर्विभुः ॥४॥
तापहर्ता
नभोदीपो नामान्येतानि यः पठेत्।
प्रत्यहं
भक्तिसंयुक्तः तस्य पीडा विनश्यति ॥५॥
तद्दिने
च पठेद्यस्तु लभेत् सर्वं समीहितम्।
ग्रहादीनां
च सर्वेषां भवेत् चन्द्रबलं सदा ॥६॥

Author Socials Follow me

This site uses Akismet to reduce spam. Learn how your comment data is processed.