श्रीवरदवल्लभास्तोत्रम्
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं
वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो
लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥
ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्षसे(?)
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्याक्षरवैष्णवाध्वसु(?) नृणां संभाव्यते कर्हिचित् ॥३॥
शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरेः
मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता –
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥
आधारत्रयसंपन्नाम् अरविन्दविलासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५॥
if u have audio of varada vallabha pls upload on youtube
HI I HAVE THE AUDIO
sorry dipti, I do not have the audio of this stotra. I got this rare beautiful stotra from an old book of collection of stotras
Download an app called Jhalaria Math from tje Google Play Store. It contains an audio of this stotra.