परब्रह्मस्तोत्रम्
नमस्ते सते सर्वलोकाश्रयाय
नमस्ते चिते
विश्वरूपात्मकाय ।
विश्वरूपात्मकाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय
नमो ब्रह्मणे
व्यापिने शाश्वताय ॥१॥
व्यापिने शाश्वताय ॥१॥
त्वमेकं शरण्यं त्वमेकं वरेण्यं
त्वमेकं जगत्कारणं
विश्वरूपम् ।
विश्वरूपम् ।
त्वमेकं जगत्कर्तृपातृप्रहर्तृ
त्वमेकं परं
निष्कलं निर्विकल्पम्॥२॥
निष्कलं निर्विकल्पम्॥२॥
भयानां भयं भीषणं भीषणानां
गतिः प्राणिनां
पावनं पावनानाम्
महोच्चैः पदानां नियन्तृ त्वमेकं
पावनं पावनानाम्
महोच्चैः पदानां नियन्तृ त्वमेकं
परेषां परं
रक्षकं रक्षकाणाम् ॥३॥
रक्षकं रक्षकाणाम् ॥३॥
परेश प्रभो सर्वरूपाविनाशि-
न्ननिर्देश्य
सर्वेन्द्रियागम्य सत्य।
सर्वेन्द्रियागम्य सत्य।
अचिन्त्याक्षर व्यापकाव्यक्ततत्त्व
जागत्भासकाधीश
पायादपायात् ॥४॥
पायादपायात् ॥४॥
तदेकं स्मरामस्तदेकं भजाम-
स्तदेकं जगत्साक्षिरूपं
नमामः।
नमामः।
सदेकं निधानं निरालम्बमीशं
भवाम्भोधिपोतं
शरण्यं व्रजामः ॥५॥
शरण्यं व्रजामः ॥५॥
पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः
परात्मनः।
परात्मनः।
यः पठेत् प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात्
॥६॥
॥६॥