RAGHVENDRA VIJAYA – CHAPTER 6

            श्रीराघवेन्द्रविजयः
               षष्ठः सर्गः
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
वध्वा
साकं तत्र तुण्डीरदेशे वासं कृत्वा वेङ्कटार्यो महात्मा।
वंशचार्यं
श्रीसुधीन्द्रं दिदृक्षुश्चारुप्रज्ञः प्राविशच्चोलदेशम्॥१॥
मन्दं
मन्दं मारुतस्पर्शमात्रात् निर्मर्यादं यत्र निष्यन्दमानैः ।
माकन्दानां
मार्गभूमध्यगानां पृथ्वी चैत्रेष्वात्तपङ्का मरन्दैः॥२॥
सह्यक्ष्माभृन्नन्दिनीतीरदेशे
भूयोभूयो भूसुपर्वाग्रहाराः।
ग्रामे
ग्रामे तद्गृहाणां सहस्रं गेहे गेहे पण्डिता एव सर्वे ॥३॥
ग्रामे
ग्रामेऽध्यापका जातमात्रा गेहे गेहे सर्वशास्त्रागमानाम्।
सायंप्रातर्होमधूमातिनीलं
रूपोपेतं यत्र नीरूपमभ्रम् ॥४॥
नित्यं
यस्मिन् उर्वरैवाखिला भूः सालाः पूर्णा एव सर्वे फलौघैः।
पृथ्वीदेवा
दीक्षिता एव सर्वे सह्यक्ष्माभृनन्दिनीसन्निधानात् ॥५॥
देशे
तस्मिन् भूमिभूषायमाणे
  कुर्वन् वासं कुम्भघोणेसुधीन्द्रम्।
दृष्ट्वा
नित्यं मानितस्तेन विद्या-
   भ्यासोद्युक्तो वेङ्कटार्यो बभूव
॥६॥
शाब्दं
भाष्यं जायदेवींच टीकां भाट्टं तन्त्रं भामतीं गौरवञ्च ।
व्यासार्योक्तां
चन्द्रिकां वेङ्कटार्यो यद्यद्वेद्यं तत्तदभ्यस्यति स्म ॥७॥
प्रातः
स्नात्वा साधु वेदान्तभाष्यं शाब्दं पश्चात्तर्कशास्त्रं  ततस्सः।
पूर्वं
तन्त्रं चाऽवदन्वेङ्कटार्यो तुर्ये यामे कांश्चिदब्दाननैषीत् ॥८॥
द्रष्टुं
कृष्णं दक्षिणद्वारकेशं प्राप्तस्साकं वेङ्कटो देशिकेन ।
मायावादिव्रातमध्ये
निषण्णं कञ्चिद्भिक्षं दृष्टवान् वावदूकम्॥९॥
ब्रह्माभिन्नो
जीवसङ्घः कुतस्त्वं
   ब्रूहीत्युक्ते केनचित्तद्बुधेन।
मिथ्या
यस्माद्विश्वमित्युक्तमात्रे
   किञ्चातोऽस्मिन्नात्र मानं त्वयोक्तम्
॥१०॥
शास्त्रे
नोक्तो न श्रुतः केनचिद्वा
 यः किञ्चातःशब्द उक्तस्त्वयेति।
उक्ते
तेन प्रावचद्वेङ्कटार्यो
  व्यक्तं यस्त्वं नाशृणोः शाब्दभाष्यम्
॥११॥
श्रुत्वा
कोपात्तस्य शिष्योऽथ कश्चिद्भाष्यं क्व त्वं क्वेदृशस्तेऽभिमानः।
पृष्टश्चेत्तां
प्रक्रियां किं ब्रवीषीत्युक्तस्तेनानूक्तवानेवमेषः ॥१२॥
दण्डेनान्यैस्ताडितः
कुण्डलीव
  स्था(प्सा)धातोर्यङ्लुगन्तस्य रूपम्।
शत्रन्तस्येत्यर्थवाक्ये
स तास्थ(पाप्स)-
  त्तस्येत्युक्त्वा वादिनं पृच्छति
स्म ॥१३॥
एतद्धातोः
किं यङन्तस्य रूपं ब्रूहीत्युक्ते चिन्तयन्नार्धयामे ।
तत्रत्यानां
देशिको मायिभिक्षुस्तूष्णीमासीदुत्तरेऽभासमाने॥१४॥
दृष्ट्वा
सर्वं देशिकः श्रीसुधीन्द्रः प्रागज्ञातं कौशलं शाब्दभाष्ये।
प्राचीनाख्यां
तां महाभाष्यपूर्वां प्रादादस्मै पश्यतां पण्डितानाम् ॥१५॥
तञ्जापुर्यामन्यदा
शुल्बसूत्रं व्याख्यातारं वावदूकं जयन्तम्।
राज्ञो
विद्वान्यज्ञनारायणेज्याशीलोत्तंसस्तं ननन्दातिमात्रम् ॥१६॥
कालेनास्मिन्
काकतालीयशब्दे जेतारं तं यायजूकान्कवीन्द्रान्।
तस्यां
पुर्यां तप्तमुद्राङ्कने च प्रौढं मेने यज्ञनारायणस्तम् ॥१७॥
विद्योद्योगाद्वासरान्यापयन्स
प्राप्तौन्नत्यं पातकं निर्धनत्वं।
अत्यासन्नश्रीनिदानेन्दिरेशध्यानोपायो
बुद्धिवार्धिः सिषेवे ॥१८॥
अब्दस्यैकं
वस्यतो नास्य नव्यं स्थूलं वस्त्रं सन्ततञ्चाल्पमूल्यम्।
नव्यं
वस्त्रं नैव सूक्ष्मं कदापि क्षौमे तस्मिन् का कथाऽकिञ्चनस्य ॥१९॥
तैलाभ्यङ्गं
वत्सरस्यैकवारं नैतस्यास्ति प्राज्यमाज्यं कथं स्यात्।
अग्निष्टोमे
नाधिकारी कथं स्याज्ज्योतिष्टोमेज्यान्तसंस्थाधिकारी॥२०॥
काले
काले लभ्यते नास्य भक्तं लब्धं चेत्तद्भुज्यते हन्त भूमौ।
पत्राभावादेकदा
नार्थितेपि क्षुद्बाधायाः शान्तिमेवालभिष्ट ॥२१॥
छिन्ने
वस्त्रे भिन्नपानीयपात्रे जीर्णस्थल्यां दस्युभिर्नीयमाने।
प्रागाकृष्टं
भावि कौपीनमस्य छागे यागे प्रागिवाभूत्प्रयाजः ॥२२॥
विष्णोरेको
वासरो वर्धमानेऽलोकेकॢप्तः पञ्चषास्तस्य गेहे।
इष्टौ
पञ्चैवोदितास्ते प्रयाजाश्चातुर्मास्येष्वेधमाना नवाऽसन् ॥२३॥
पश्चाल्लब्धा
यादृशी श्रीस्तदीयैस्तस्याः साम्यं लभ्यते चेत्कयाचित्।
अप्येतस्यासम्पदो
नोपमानं लभ्यं लोके सम्यगालोचितेपि॥२४॥
एवं
चेदप्यादराद्भोक्तृचिह्नं सन्धार्यायं शास्त्रमुख्यादजस्रम्।
हर्षं
प्राप्ता ह्यात्मधर्मानुरूपा पत्याकारस्पर्शनालापजातम् ॥२५॥    
दृष्टस्वप्नः
श्रीसुधीन्द्रोऽथ विद्यासाम्राज्यार्हं तं पयोधिं गुणौघैः।
ज्ञात्वा  विद्यासंप्रदायं स गोप्तुं पारिव्राज्यं
प्रार्थयामास धीरम् ॥२६॥
क्वाहं
न्यासः कुत्र वा वेदविद्यासाम्राज्यं ते क्वापि विद्याऽहमार्य।
पारं
सिन्धोर्भारमूढ्वा विवेकी गन्तुं यत्नं को जनस्सन्तनोति ॥२७॥
इत्युक्तस्तं
प्राह नावो हि बह्व्यः शान्तिर्दान्तिर्धीरतोदारता च ।
केतुस्तासां
मत्प्रसादो गरीयान् विद्यन्ते किं दुर्घटं सिन्धुयाने ॥२८॥
एकान्ते
तैर्बोधितः प्रत्यवादीद्बाला भार्या बालको नोपनीतः।
बालश्चाहं
नाश्रमे मेस्ति वाञ्छा निर्बन्धश्चेन्निर्गमिष्यामि नूनम् ॥२९॥
      
श्रेयोऽतीते
कीदृशोऽत्रानुरागः का वा भार्या जानतो नन्दनः कः ।
स्त्रीसम्पर्को
दुःखदाय्येव नूनं दृष्टान्तोऽस्मिन्वालिधर्मात्मजाद्याः ॥३०॥
अक्ष्णा
काणं कर्णपर्यन्तनेत्रं लोभागारं सन्ततौदार्यभाजम्।
सन्ध्योपासावर्जितं
यायजूकं दुष्टाचारं साधुकर्माऽचरन्तम् ॥३१॥
क्रूरं
शान्तं रागशीलं विरक्तं मत्तं मुग्धं वृद्धिमन्तं युवानम्।
दुष्टं
साधुं दुर्विनीतं विनीतं लक्ष्मातीतं लक्षणोघैरुपेतम् ॥३२॥
ऊँकाराज्ञं
साङ्गसर्वागमज्ञं वैरागारं वर्धितस्निग्धभावम्।
अज्ञोत्तंसं
ज्ञानिनामग्रगण्यं व्यक्ताकूतं लब्धगम्भीरभावम् ॥३३॥
गत्वाऽगम्यं
पूजयित्वाऽप्यपूज्यं सोढ्वाऽमानं तेन चादाय किञ्चित्।
नालम्बुद्धिर्दीयमानेपि
तासां जातात्मानं क्लेशयित्वापि नूनम् ॥३४॥
वेदव्याख्यासम्पदो
नैव युक्ता व्यासङ्गे ते मज्जतो गेहजाते।
तस्मादाशां
मुञ्च तस्यां तरुण्यां शीघ्रं कुर्या बालमङ्गोपनीतम्॥३५॥
श्रुत्वाऽशृण्वन्नेवमुक्तं
गुरूणां गत्वाऽयासीदेष चिन्तां दुरन्ताम् ।
निर्यायादित्येष
निश्चित्य तावन्मर्त्यैराप्तै रक्षति स्मैनमेषः॥३६॥
स्थास्यामश्चेल्लभ्यते
संयमित्वं
     गछामश्चेत्तेऽधुना मां शपेरन्।
स्थातुं
शक्यं नैव गन्तुञ्च शक्यं
     कुर्मः किं वेत्यात्मनाऽध्यायदित्थम्
॥३७॥
कर्णाकर्णि
प्राप्य हृत्कर्णशल्यं कान्तोदन्तं सा सरस्वत्युदग्रैः।
अश्रुव्यूहैः
प्रोक्षतीवात्महव्यं पूतं दातुं तद्वियोगानलाय ॥३८॥
तस्यां
रात्र्यामन्त्ययामार्धभागे काञ्चिद्देवीं काञ्चिकाऽऽलक्ष्यनीवीम्।
शय्योपान्ते
शारदाम्भोजनेत्रामध्यासीनां विस्मितः पश्यति स्म ॥३९॥
कैषा
योषा काञ्चनानर्घ्यभूषा दोषाधीशानानना चारुवेषा।
दोषातीता
सान्द्रधम्मिल्लदोषा भाषादेवी सर्वसाक्षान्मनीषा ॥४०॥
यद्वा
नारी किन्नरी वोरगी वा देवस्त्री वा हन्त या काचिदस्तु।
कस्मादेषाऽभ्यागता
मत्समीपं प्रोवाचैषा चिन्तयन्तं तमित्थम्॥४१॥
कानीनोऽसौ
कन्यकाभावमादाद्भोग्याया मे सन्ततं पण्डितानाम् ।
तस्माज्जाताऽऽनन्दतीर्थप्रियाऽहं
विद्यालक्ष्मी विद्धि मां विद्वदाद्य ॥४२॥
बालामेनामेधयामास
मध्वो भाष्यक्षीराद्व्यासवाक्कामधेनोः
अक्षोभ्यश्रीपादशिष्याग्रगण्यैः
प्रौढोत्तंसैः  प्रापितं
यौवनं मे ॥४३॥
उर्वी
सर्वा येन राजन्वतीत्वं राज्ञा हन्त प्राप यत्पादभाजा।
तेषां
व्यासाचार्यराजेश्वराणां संगृह्याहं पाणिमद्धा समिद्धा ॥४४॥    
आकल्पं
मेऽकल्पयज्जीवनेच्छोर्वासं वल्ल्यास्तर्कनाट्योत्सुकायाः।
सौधायान्न्यायामृताद्वृद्धिमत्यास्तात्पर्याद्या
चन्द्रिकाख्या स तस्याम् ॥४५॥
विख्यातो
यः श्रीजयीन्द्रव्रतीन्द्रस्सख्या लब्ध्वा साधुकीर्तिं मयोर्व्याम्।
व्याख्याव्याजादालवालं
व्यतानीत्तस्या वल्ल्या न्यायपूर्वामृतस्य ॥४६॥
चित्रैर्वर्णैः
शोभितं श्लाघितार्थं व्याप्तं देशे क्षौमवासोऽतिनूत्नम्।
प्रायच्छन्मे
कण्टकोद्धारदम्भादाचन्द्रार्कस्थायि चारुप्रभावः ॥४७॥
भूषापेटीं
तत्वमाणिक्यपेट्या मुक्ताभूषां न्यायमुक्तास्रजा मे।
यद्यत्कॢप्तं
भूषणत्वेन वध्वास्तत्तद्ग्रन्थैरातनिष्टातुलश्रीः॥४८॥
वादे
नित्यं वैरिविद्वज्जयश्री राजस्थाने प्रापिता मां तयेति।
व्याख्याव्याजात्तर्कनृत्तस्य
मह्यं रङ्गस्थानं निर्ममे श्रीसुधीन्द्रः॥४९॥
व्यासेनोक्तं
व्याकरोद्यद्द्वितीयस्कन्धं प्रायो दुर्गमैकादशश्च।
मौलेरग्रे
मौक्तिकं तन्ममासीन्नर्मारामं नाटकं चित्रगद्यम्॥५०॥
सर्वं
व्यर्थं भाति मे जीवनाड्याश्छिन्ने मूले चन्द्रिकासौधवल्ल्याः।
व्याख्यानात्त्वं
माऽकरो रूढमूलां धर्मी नो चेद्धर्मचिन्ता क्व दृष्टा ॥५१॥
जानीहि
त्वं वेङ्कटार्य त्वदार्ये वासो यन्मे वत्सरद्वन्द्वमेव ।
तद्व्याख्याने
लब्धवर्णो न चास्ते विद्वत्सङ्घे नैव भावी त्वदन्यः ॥५२॥
श्रीरामार्चा
पूज्यते येन तस्मिन् वासं यन्मेऽकल्पयद्व्यासदेवः ।
कर्मन्दीन्द्रैरेव
पूजापि कॢप्ता तस्मात्साहं तेषु नित्यं वसामि ॥५३॥
तस्मादङ्गीकृत्य
कर्मन्दिभावं राजा विद्याराज्यलक्ष्म्या भव त्वम्।
नो
चेल्लुम्पेन्नित्यवाचां विचारैः साकं लोके वैष्णवः सम्प्रदायः ॥५४॥
उत्सूत्रत्वं
केवलं नाद्यपक्षे न्यायौघानां किं तु तत्पुस्तकानाम्।
रक्षाभावाद्भक्षणान्मूषिकाणां
मायावादिब्रह्मवन्निर्गुणानाम् ॥५५॥
आद्ये
तन्त्रे प्रक्रियायां विचारस्तत्रैव स्यात्कर्मणां निर्णयोपि।
किञ्चात्रैव
न्यायपूर्वां सुधाख्यां भाष्यारम्भं शाब्दिका एव कुर्युः ॥५६॥
वक्त्री
विष्णोरुत्तमत्वं कथा या भूपालानां भाति विद्वत्सभायाम्।
शक्तेर्भानोः
शक्तिपाणेर्गणेशः शक्रादीनां धूर्जटेर्वा 
तदा स्यात् ॥५७॥
छात्रागारं
शश्वदेकप्रकारं वेदोद्घोषैर्वैदिकानामुदारम्।
गोमायूनां
जल्पकानामजस्रं कारागारं सर्वदेशे तदानीम्॥५८॥
वृन्दानीव
क्ष्माधराणां तदानीं हेत्या जिष्णोस्छिन्नपत्राणि कीटैः।
वेदान्तानां
पुस्तकान्यार्य लोके पर्णोज्झानि स्युर्महापाठकानाम्॥५९॥
आचार्याणां
कर्मठानां मठानां वेद्यां विद्यां तत्वमिथ्यात्ववादः।
मर्त्याभावाद्वासना
वाशितानां तत्रत्यानामण्डजानां तदानीम् ॥६०॥
देवागारं
देशिकानां प्रदीपज्वालामालादीप्यमानं तदा तु।
सूर्यालोकं
संश्रितोलूकलोकं सुर्यालोकेनोज्झितं नो लभेत ॥६१॥
    
हन्तेदानीं
देवताया गुरूणामर्चागारं गुग्गुलुव्यूहधूमैः।
दीपैर्दीप्तैर्दीप्यमानं
तदानीं नित्यासक्तालातभूतास्यदीपैः ॥६२॥
उल्लोचानां
उन्नतानां प्रकीर्णैर्धूलीवृन्दैर्धूसरा केतकानाम्।
वेदी
स्यात्तद्देवतामन्दिराणां रथ्याधूलीधूम्रवर्णा तदानीम् ॥६३॥
नेदानीमेतादृशःसम्प्रमोदः
  पारिव्राज्यं यादृशः प्राप्यते चेत्।
सम्प्राप्ता
त्वां न त्यजामि क्षणं वा
   स्वप्ने वाऽहं न स्मराम्यन्यभिक्षोः
॥६४॥
विध्यायत्तं
ते यतित्वं न शक्यं त्यक्तुं प्राप्तं त्वद्वशत्वं ममापि।
इत्युक्त्वा
सा मन्त्रमस्योपदिश्य स्वीयं देवी पश्यतोऽन्तर्दधेऽद्धा॥६५॥
भूयोभूयो
बोधितस्साधकैस्तैः पारिव्राज्यां बाधकैरन्यथात्वे।
स्मारं
स्मारं देवतोक्तञ्च विद्वानुद्युंक्ते स्म स्वात्मजस्योपनीतौ॥६६॥
सोमादिभ्यो
देवताभ्यः प्रदानं पुत्रस्यैतन्मुख्यमेवंविधस्य ।
लोके
गौणं नूनमित्थं वदन्तं दृष्ट्वा को वा नाश्रु सर्वो मुमोच॥६७॥
संन्यासश्चेद्दीयतेऽत्रैव
मोहाद्भार्या कुर्यात्साहसं तस्य नूनं।
इत्यालोच्य
श्रीसुधीन्द्रोऽथ योगी साकं यायात्तेन तञ्जापुरीं सः ॥६८॥
आशापाशे वैरजा होमसंस्था संस्थाऽके सत्येष निघ्नंस्तमांसि।
स्रातस्सिन्धोरुद्गतो
दीधितीनां धामेवायं भाति रक्तांशुकश्रीः ॥६९॥
लग्ने
लग्नगुणे निलिम्पगुरुणा दृष्टे विमृष्टे द्विजै-
  रेनं संमदभागधीहि भगवो ब्रह्मेत्युदीर्य
स्थितं ।
आलोक्योपदिदेश
देशिकवरस्तस्मै स तारं पुरा
  स्वप्नेऽस्वप्नदुरापवैभवनिधिर्लब्धां
ददौ चाभिधाम् ॥७०॥
तस्य
नाम स ददे सदाशिषा राजराज इव राजितः श्रिया।
रामभद्र
इव भद्रभाजनं तत्कृपेव जगतां हिते रतः ॥७१॥
श्रीसुरेन्द्रवदयं
तपस्यया श्रीजयीन्द्र इव कीर्तिसम्पदा।
विश्रुतोऽहमिव
वादसङ्गरे राघवेन्द्रयतिराट् समेधताम् ॥७२॥
मन्त्रैः
पूतैर्वारिजाद्यैः प्रसूनैर्मुक्तामुख्यै रत्नजालैरुपेतैः।
वार्भिः
शङ्खापूरितैः सोभिषिच्य प्राज्ञं विद्याराज्यराजं वितेने ॥७३॥
श्रीरामार्चां
व्यासदेवोपलौ द्वौ शास्त्रौघानां पुस्तकं चामरे च ।
श्वेतच्छत्रं
स्वर्णयानं सवाद्यं प्रादादस्मै राजचिह्नं स सर्वम्॥७४॥
आचार्ये राजमाना श्रुतिशिखरकलाराज्यलक्ष्मीः सुधीन्द्रे
   मुक्त्वा तं तुङ्गभद्रातटभुवि गुरुभिर्भ्राजमानं
तपोभिः।
राजन्तं
कुम्भघोणे रघुपतिचरणासेवनासक्तचित्तं
   विद्वांसं वर्धमानं गुणगणजलधिं संश्रिता
राघवेन्द्रम् ॥७५॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोऽद्य षष्ठोऽभवत् ॥७६॥
  

॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
षष्ठस्सर्गः समाप्तः॥
     

Author Socials Follow me