SRI RAGHAVENDRAVIJAYA- CHAPTER 5

                                             श्रीराघवेन्द्रविजयः
               पञ्चमः सर्गः
     (विद्वत्कुलावतंसैः महाकविभिः श्रीमन्नारायणार्यैर्विरचिता)
अथ विवाहसमुत्सुककन्यकागुणमणी
पितरौ निजमन्दिरात्।
अगमतामभिवीक्षितुमादराद्वरमुपागतमात्मपुरोदरम्
॥१॥
द्रुतमुपेत्य
वरं पितरौ चिरान्मुहुरवेक्ष्य मुदं समवापतुः।
पदयुगप्रणतस्य
यवीयसोऽस्य चतुरस्य समाशिषमूचतुः॥२॥
समसमाः
परिषस्वजिरे मुदाऽधिकसमान्पृथुकाः प्रणमन्ति च ।
बहुवयोभरिता
बहुलाशिषं जगदिरे विविधेष्वपि बन्धुषु ॥३॥
निजगृहोपमनैजनिकेतनं
जितविशालपुरं निजसम्पदा।
अनयतां
विनयावनतं वरं ससुहृदं सुहृदा सह दम्पती॥४॥
बहुविधं
परमान्नरसायनं वरनरोऽभ्यवहृत्य तदाहृतम्।
निबिडपट्टवितानकशीतलेप्यहह
तुष्टुवुरातपभोजनम्॥५॥
  
अभिदिदृक्षुजने
वरमादरादुपगते भवनं तदनुज्ञया।
कृतपरस्परसङ्कथनो
जनः सुखमुवास निशामिह वेश्मनि ॥६॥
त्रिदशदेवदिशाधरकन्दरे
समुदिते नलिनीपरिणेतरि।
त्रिपदया
सवितारमृचा वरं परिणुवन्तमुपासत सज्जनाः ॥७॥
वसनवाहनकुङ्कुमचन्दनैर्विविधरम्यरसैः
परिपूज्य तम्।
त्वरितमारभताभ्युदयोत्सवं
द्विजवरैः पितरौ सह सद्मनि ॥८॥
समग्रवस्तूनि
नवग्रहेभ्योप्यनुग्रहार्थं निरवग्रहार्थम्।
कुतूहलात्तौ
कुलदेवतायै समर्पयामासतुरादरेण ॥९॥
विरचय्य
तु दीक्षितः प्रयाजं तनुते हन्त यथा प्रधानयागम् ।
अतनोत्किल
कन्यकाप्रदानं मधुपर्कैरभिपूज्य तज्जनस्तम् ॥१०॥
वरमुखेन्दुविलोकनसङ्कुचल्लपनफुल्लसरोरुहकन्यकाम्
अयमपश्यदियं
च वरानना द्विजसखं हसितोत्पललोचना ॥११॥
आगत्य
द्रुतमबला प्रहर्षणी
  काप्यालोक्यागमनमनङ्गसायकाङ्गी।
नारीणामुचिततराङ्गरागपुष्पै-
   रानर्च स्मितलपना तिरोहिताऽऽतासु
॥१२॥
इन्दुवदना
कलितमन्दहसनानां
    कुन्दरदना हसितहंसगमनानाम्।
कन्दुकसमाकृतिपयोधरयुगानां
     कन्तुनिजजंगमजयध्वजलतानाम् ॥१३॥
जितनीलकण्ठशुकमञ्जुभाषिणीपरपुष्टिमद्युवतिगीतिगीतितः।
सदनप्रियालकुसुमालयो
वधूवरवीक्षणागतसुरार्पिता इव ॥१४॥
प्रमिताक्षरामृचमनूद्य
सुहृत्समुपाहृतान्यभिनवानि मुहुः ॥
विविधां
पुरोहितजनावनयोर्वसनानि संसदि  समार्पयताम्
॥१५॥
मथनसंस्कृतिसन्ततसंभ्रमत्सितगुरूज्ज्वलदीपकभाजनम्।
भ्रमयतः
स्म वधूवरसम्मुखे द्रुतविलम्बितमेत्य वराङ्गने ॥१६॥
नानाविद्याशालिनी
वृद्धिभाजां भूदेवानां भूषणै राजमाना।
वेदानुच्चैरुच्चरन्ती
किरन्ती दम्पत्योरित्याशिषः संसदूचे ॥१७॥
बालवेतावापुन्तां
दीर्धमायुर्नित्यां प्रीतिञ्चाष्टपुत्रान् गुणाढ्यान्।
शस्तं
वित्तं सन्ततिं शोभमानां सौख्यं धन्यौ धान्यभूगोसमृद्धिम्॥१८॥
इन्द्राणी
बलरिपुवैरिणीव वाणी लोकेशे कलशपयोधिकन्यकेव।
गोविन्दे
गरलगले गिरीन्द्रकन्या कन्या स्याद्दयितमनःप्रहर्षणीयम् ॥१९॥
नत्वा
हरिं गुरुमनन्तरमार्यनारी-
  सेवारतावसितवारिजलोचनाभिः।
दृष्टौ
वसन्ततिलकाविव तावभातां
  तत्रान्तरे सकुतुकं सुंसुमनःपरीतौ॥२०॥
नियुज्य
वंशस्थनितम्बिनीर्वधूपिता वरीयार्यजनार्चनाकृते।
वधूवरौ
वारिजलोचनावुभौ परस्परं भोजयितुं प्रचक्रमे ॥२१॥
भूदेवान्भोजयित्वा
तदनु तदुचितैरम्बरैर्दक्षिणाभि-
  स्ताम्बूलैस्तोषयित्वा विरचितनियमस्त्रीण्यहान्येवमेषः।
विद्वत्सङ्घं
निकामं विनयमुखगुणैर्नन्दयन्वेङ्कटार्यो
  दीक्षां प्राप्येव यज्वा तदनु निशि
मुदा शेषहोमं व्यतानीत्॥२२॥
आगच्छन्पथि
वध्वा साकं सर्वैः समं निजग्रामम्।
काननभूषु
वधूनां दोहलल्क्ष्मीरपश्यदुरुमेधाः ॥२३॥
चकितहरिणशावकेक्षणस्त्रीचरणहतोपि
पुनः पुनर्यदीयः।
ननु
हसतितरामशोकशाखी प्रकटयितुं नितरामशोकभावम्॥२४॥
कुरवकविटपे
कुशेशयाक्ष्याः कुचयुगस्तबकेन कोमलाङ्ग्याः।
किमकृत
समवायिना वसन्तस्तबककुलानि तदाकृतीनि यस्मिन् ॥२५॥
वकुलतरुरवाप्य
वारिजाक्ष्या मुखरससेवनमुन्नतोऽबलायाः।
प्रतिकृतिमकृतेव
पक्ष्मलाक्ष्याः प्रसवपरम्परया तदङ्गभाजा॥२६॥
कुवलयदलनीललोचनाभिस्तिलकतरुष्ववलोकितेषु
नूनम्।
प्रतिफलितविलोचनानि
नौ चेत्समरुचिभाञ्जि कथं सुमानि तेषाम्॥२७॥
परिहसनपराः
पयोरुहाक्ष्यः सुमकपटेन हसन्तमाबबन्धुः।
व्रतततिभिरङ्गना
न मेरुं परिहसतीति विलोक्य किं मदीयम्॥२८॥
करपरिमिलनात्कुशेशयाक्ष्याः
प्रतिविटपं विकचत्प्रसूनशाली।
सभयमभिनिरीक्षितावकाशो
व्यपगतनिद्र इवास यत्र चूतः ॥२९॥
कुवलयदलनीललोचनानां
तनुरुचिमीक्षितुमीक्षितोऽङ्गनाभिः।
तिलकतरुरुदग्रसूनजालैर्दशशतलोचनतामवाप
नूनम् ॥३०॥
शुकपिककलकण्ठकिन्नरस्त्री-
   स्मयहरविस्मयगानमानताङ्ग्याः।
सकुतुकमुपकर्ण्य
संमुदेन
   प्रसवकुलं प्रववर्ष किं प्रियालः
॥३१॥
अशोकवृक्षाः
कमलेक्षणानां मनोज्ञपादाम्बुजताडनेन।
उल्लासमापुस्सहसा
तदानीं यथैव लीलाकमलैः युवानः ॥३२॥
भुजालताभिस्तरुणीजनानां
मदान्वितानां परिरम्भणेन।
अगाद्विकासं
कुरवोपि पश्चान्नदद्विरेफैः सुरवो बभूव ॥३३॥
चन्द्राननानां
शफरेक्षणानां कुम्भस्तनीनां किटिलालकानाम्।
विलासिनीनां
द्युतिमाललम्बे गण्डूषशीधोर्बकुलोऽवसेकात् ॥३४॥
आलोकनादायतलोचनानां
  मदोद्धतानां प्रकटानुरागम्।
दधार
शोभां तिलकद्रुमाणां
  पालिः सभृङ्गैः स्तबकैस्तदानीम्॥३५॥
गीत्या
महत्या कलकण्ठकण्ठ्या
   विकासमाधत्त तदा प्रियालः।
तन्मञ्जरी
षट्चरणालिगीत्या
   वियोगिनी चित्रमिदं विषादम्॥३६॥
पद्माननानां
वदनानिलेन श्रियं विवव्रे खलु सिन्धुवारः।
बाहालतास्पर्शनतो
रसालस्तदांकुरैः कण्टकितो व्यलासीत् ॥३७॥
वाणीविशेषैर्वनजेक्षणानां
पिकप्रियानिःस्वनलालनीयैः
उदंकुरोभूदथ
कर्णिकारो रागश्च यूनां हृदये तदानीम् ॥३८॥
मुखानुरागान्महिलाजनानां
चाम्पेयशाखी नवपल्लवौघैः।
समुत्थितैस्तत्क्षणजातशोभैस्तदाऽनुरागी
समभूद्विचित्रम् ॥३९॥
यासां
न मेरुः कुचगौरवेण तुलायितो नाजनि हासपात्रम् ।
नकारयुक्तत्पदवाच्यभूरुङ्जहास
हासात्कुसुमैश्च तासाम् ॥४०॥
षडंघ्रिसङ्घारवकैतवेन
गायन्मुदा माधवकीर्तिमुच्चैः।
द्विजप्रवेकैर्व्यरुचत्प्रवीतः
शुको यथा तत्र हि किंशुकद्रुः॥४१॥
किंशुकः
कुसुममालया वने फुल्लया च नितरां विदिद्युते।
दानवारिमसुरान्त्रमालया
मण्डितं खलु विडम्बयन्निव ॥४२॥
स इत्थमालोक्य
वनं गतानां विलासिनीनां विहृतिप्रभेदान्।
उपेन्द्रवज्रायितकायसारो
गृहं प्रविश्याब्दगुणान्मुमोद ॥४३॥
श्रीमत्कश्यपवंशवार्धिशशिनः षड्दर्शनीवल्लभ-
श्रीलक्ष्मीनरसिंहवित्तविदुषः श्रीवेङ्कटाम्बामणौ।
जातेनाऽर्यदयासुधामयगिरा नारायणेनोदिते
काव्ये चारुणि राघवेन्द्रविजये सर्गोऽभवत्पञ्चमः ॥४४॥
॥इति कविकुलतिलकेन श्रीनारयणाचार्येण विरचिते श्रीराघवेन्द्रविजये
पञ्चमस्सर्गः समाप्तः॥
  

Author Socials Follow me