शङ्कराष्टकम्

हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन् ।
हे विश्वनाथ भवबीज जनार्तिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥१॥

हे भक्तवत्सल सदाशिव हे महेश हे विश्वतात जगदाश्रय हे पुरारे ।
गौरीपते मम पते मम प्राणनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥२॥

हे दुःखभञ्जक विभो गिरिजेश शूलिन् हे वेदशास्त्रविनिवेद्य जनैकबन्धो ।
हे व्योमकेश भुवनेश जगद्विशिष्ट संसारदुःखगहनाज्जगदीश रक्ष ॥३॥

हे धूर्जटे गिरिश हे गिरिजार्धदेह हे सर्वभूतजनक प्रमथेश देव ।
हे सर्वदेवपरिपूजितपादपद्म संसारदुःखगहनाज्जगदीश रक्ष ॥४॥

हे देवदेव वृषभध्वज नन्दिकेश कालीपते गणपते गजचर्मवासः ।
हे पार्वतीश परमेश्वर रक्ष शंभो संसारदुःखगहनाज्जगदीश रक्ष ॥५॥

हे वीरभद्र भववैद्य पिनाकपाणे हे नीलकण्ठ मदनान्त शिवाकलत्र ।
वाराणसीपुरपते भवभीतिहारिन् संसारदुःखगहनाज्जगदीश रक्ष ॥६॥

हे कालकाल मृड शर्व सदासहाय हे भूतनाथ भवबाधक हे त्रिनेत्र ।
हे यज्ञशासक यमान्तक योगिवन्द्य संसारदुःखगहनाज्जगदीश रक्ष ॥७॥

हे वेदवेद्य शशिशेखर हे दयाळो हे सर्वभूतप्रतिपालक शूलपाणे ।
हे चन्द्रसूर्य शिखिनेत्र चिदेकरूप संसारदुःखगहनाज्जगदीश रक्ष ॥८॥

श्रीशङ्कराष्टकमिदं योगानन्देन निर्मितम् ।
सायं प्रातः पठेन्नित्यं सर्वपापविनाशकम् ॥९॥

इति श्रीयोगानन्दतीर्थविरचितं शङ्कराष्टकं संपूर्णम् ॥

GOPIKAGEETAM IN GARGASAMHITA

गर्गसंहिता
अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः
रासक्रीडा –
गोप्य ऊचुः

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं तमपि
गोपकुमारमुपास्महे ॥१॥

श्यामलं
विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
कामदं
व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥

तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम्

वंशवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥३॥

ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥
घोषसौरभमनोहरं
हरेर्वेषमेव मृगयामहे वयम् ॥४॥

अस्तु नित्यमरविन्दलोचनः
श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य
पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥

गोपकै रचितमल्लसङ्गरं
सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥

उल्लसन्नवपयोदमेव तं
फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं
पल्लवाधरमुपास्महे वयम् ॥७॥


यद्धनञ्जयरथस्य मण्डनं
खण्डनं तदपि
सञ्चितैनसाम् ॥
जीवनं
श्रुतिगिरां सदाऽमलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥

गोपिकास्तनविलोललोचनप्रान्तलोचनपरम्परावृतम् ॥
बालकेलिरसलोलसंभ्रमं माधवं
तमनिशं विभावये ॥९॥  

नीलकण्ठकृतपिच्छशेखरं
नीलमेघतुलिताङ्गवैभवम् ॥
नीलपङ्कजपलाशलोचनं
नीलकुन्तलधरं भजामहे ॥१०॥

घोषयोषिदनुगीतवैभवं
कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां धाम तामरसलोचनं
भजे ॥११॥

मोहनं मनसि
शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च
सेवितं नन्दगोपतनयं भजामहे ॥१२॥

श्रीहरिस्तु
रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
राधया
सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥

देवदेव व्रजराजनन्दन
देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं
च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥


क्षितितलोद्धरणाय
दधार यः सकलयज्ञवराहवपुः परम् ॥
दितिसुतं
विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥

मनुमताद्रुचिजो
दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद्धृतमत्स्यवपुः
परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥

अवहदब्धिमहो
गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
असुहरं
नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥

नृपबलिं
छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं
च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥

व्रजपशून्गिरिराजमथोद्धरन् व्रजपगोपजनं च जुगोप यः

द्रुपदराजसुतां
कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥

विषमहाग्निमहास्त्रविपद्गणात्सकलपाण्डुसुताः
परिरक्षिताः ॥
यदुवरेण
परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥

मालां
बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
शैलेयागुरुक्लृप्तचित्रतिलकां
शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां
लावण्यलक्ष्मीमयीं
बालां
बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥  

गर्ग उवाच –
इति
स्त्रीभिः
रुदन्तीभिः रेवतीरमणानुजः
आविर्बभूव
चाहूतस्तासां मध्ये च भक्तितः ॥२२॥


||इति श्रीगर्गसंहितायां
हयमेधखण्डे
रासक्रीडायां
पञ्चचत्वारिंशोऽध्यायः ॥



GOPIKAGEETAM from Gagra Samhita contributed by Vishwas R. Bhide and proofread by PSA Easswaran 


GARAGA SAMHITA ON BHAKTI -3

गर्गसंहिता
विज्ञानखण्डः – पञ्चमोऽध्यायः
भक्त्युत्कर्षम् –
श्रीवेदव्यास उवाच –
वत्साघ-धेनुक-बकीबककेशिकाला-         
     रिष्टप्रलंब-कपिबल्वल-शंखशाल्वाः ॥         
वैरेण यं किमुत भक्तियुता नरेन्द्र
     प्रापुः परं प्रकृतिपूरुषयोः पुमांसम् ॥१॥

पूर्वासुरावतिबलौ मधुकैटभाख्यौ
     स्वर्णाक्षहेमकशिपू च तथापरौ च ॥    
वैरं विधाय नृप रावणकुम्भकर्णौ      
     विष्णोः किलापतुरलं परमं पदं हि ॥२॥

के के न विष्णुपदमागतवन्त आदौ    
    
प्रह्लाद-बाण-बलि-यक्ष-विभीषणाद्याः ||
सत्संगसङ्गनिरता बहुमानपात्र-
     श्रीमत्पदाब्जमकरन्दरजोविलुब्धाः ॥३॥ 

देवर्षिगीष्पतिवसिष्ठपराशराद्याः
     साङ्ख्यायनासितशुकाः सनकादयश्च ॥
निष्कारणा भुवि चरन्त्यरविन्दनेत्र-
     पादारविन्दमकरन्दमिलिन्दमुख्याः ॥४॥ 

यत्युत्कालाङ्गभरतार्जुनमैथिलाश्च
     गाधिप्रियव्रतयदुप्रमुखांबरीषा ॥
निष्कारणाः परमहंसवराश्चारन्ति
     श्रीकृष्णचन्द्रचरितामृतपानमत्ताः ॥५॥ 

मन्दोदरी च शबरी च मतङ्गशिष्या-
     स्तारा तथात्रिवनिता निपुणा त्वहल्या ॥
कुन्ती तथा द्रुपदराजसुता सुभक्ता
     एताः परं परमहंससमाः प्रसिद्धाः ॥६॥

सुग्रीववालिसुतवातसुतर्क्षराज-
     नागारिगृध्रवरकाकभुशुण्डिमुख्याः ॥    
कुब्जादिवायकसुदामगुहादायोऽन्ये
     तत्सङ्गमेत्य हरिभक्तवरा बभूवुः ॥७॥

कृष्णं न रोधयति धर्म तपो न योगः
     साङ्ख्यं न यज्ञ उत तीर्थयमव्रतानि ॥
छन्दांसि पूर्तनियमावथ दक्षिणा च
     नेष्टं न दानमथ भक्तिमृते न कश्चित् ॥८॥

यज्ञव्रताध्ययनतीर्थतपोनियोगै-
     रिष्टस्वधर्मनियमादिकसाङ्ख्ययोगैः ॥
यत्प्राप्यते तदखिलं भवतीह भक्त्या
     भक्तेःपदं हि कर्हिचिन्न भवेत्किलैभिः ॥९॥

उद्धारिणी यमपुरस्य च विश्वरूपा-
     दुत्तारिणी भवमहार्णववारिवेगात् ॥
संहारिणी विषयसञ्चितकर्मणा च
     सत्कारिणी हरिपदस्य परात्परस्य ॥१०॥

श्रीकृष्णदर्शनरसोत्सुकभावराज-
     दुद्यद्वसन्तपरमोत्सवपञ्चमीयम् ॥
दिव्या लतातिफलपल्लवभारनम्रा
     संराजते हि सततं कुसुमाकरस्य ॥११॥

संमोहकालघनमध्यतडित्स्फुरन्ती
     शास्त्रार्थदर्शवचसां पददीपिकेयम् ॥
दीपावलिर्विजयते जयकार्तिकस्य
     जेतुं गुणान् विजयिनो दशमी जयस्य ॥१२॥

साङ्ख्यं च योग इति पार्श्वगते हि दण्डे
     कीलानि चात्र शतशो गुणभावभेदाः ॥
अस्या क्रमान्नवकथाश्रवणादयश्च
     श्रेणीयमस्ति सरला भगवत्पदस्य ॥१३॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्त्युत्कर्षवर्णनं नाम पञ्चमोऽध्यायः ॥५॥

 “niShkAma bhakti from Gagra Samhita”
contributed by Vishwas R. Bhide and proofread by PSA Easswaran”

APAMARJANAKAVACHAM

अपमार्जनकवचम्

पूर्वे नारायणः पातु वरिजाक्षस्तु दक्षिणे।
प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे॥१॥

ईशान्यां रक्षताद्विष्णुराग्नेय्यां च जनार्दनः।
नैऋत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥२॥

ऊर्ध्वं गोवर्धनोद्धर्ता ह्यधस्ताच्च त्रिविक्रमः।
एताभ्यो दश दिग्भ्यश्च सर्वथा पातु केशवः॥३॥

एवं कृत्वा दिग्बन्धं विष्णुं सर्वत्र संस्मरन्।
अव्यग्रचित्तः कुर्वीत न्यासकर्म यथाविधि ॥४॥

अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम्।
मध्यमायां हृषीकेशं अनामिक्यां त्रिविक्रमम्॥५॥

कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम्।
एवं अङ्गुलीन्यासं पश्चादङ्गेषु विन्यसेद् ॥६॥

शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत्।
माधवं च ललाटे तु गोविन्दं च भ्रुवोर्न्यसेत्॥७॥

चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम्।
त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥८॥

नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधः ।
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥९॥

दामोदरं दन्तपंक्तौ वराहं चिबुके तथा।
जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥१०॥

वैकुण्ठं करमध्ये तु अनन्तं नासिकोपरि।
दक्षिणे तु भुजे विप्रो विन्यसेत्पुरुषोत्तमम् ॥११॥

वामे भुज महायोगिं राघवं हृदि विन्यसेत्।
कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥१२॥

वक्षःस्थले माधवं च कक्षयोर्भोगशायिनम् ।
पीताम्बरं स्तनतटे हरिं नाभ्यां तु विन्यसेत् ॥१३॥

दक्षिणे तु करे देवं तथा सङ्कर्षणं न्यसेत्।
वामे रिपुहरं विद्यात् कटिमध्ये जनार्दनम् ॥१४॥

पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोरपि।
वामकक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥१५॥

स्वायम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम्।
जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥१६॥

गुल्फयोर्नारसिंहं च पादयोरमृतत्विषम्।
अङ्गुलीषु श्रीधरं च पद्माक्षं सर्वसन्धिषु ॥१७॥

नखेषु माधवं चैव न्यसेत् पादतलेऽच्युतम्।
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥१८॥

मनोबुध्योरहंकारचित्ते न्यस जनार्दनम्।
अच्युतानन्दगोविन्दं वातपित्तकफेषु च ॥१९॥

एवं न्यासविधिं कृत्वा यत्कार्यं द्विजतच्छृणु।
पादमूले तु देवस्य शंखं चैव तु विन्यसेत् ॥२०॥

वनमालां हृदि न्यस्य सर्वदेवादिपूजिताम्।
गदां वक्षस्थले न्यस्य चक्रं चैव पृष्ठतः॥२१॥

श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत्।
आपादमस्तकं चैव विन्यसेत् पुरुषोत्तमम् ॥२२॥

एवं न्यासविधिं कृत्वा साक्षात् नारायणो भवेत्।
तनुर्विष्णुमयी तस्य यत्किञ्चिन्न स भासते ॥२३॥

अपमार्जनको न्यासः सर्वव्याधिविनाशनः।
आत्मनश्च परस्यापि विधिरेष सनातनः ॥२४॥

वैष्णवेन तु कर्तव्यः सर्वसिद्धिप्रदायकः।
विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशो दिश॥२५॥

पातु मां सर्वतो रामो धन्वी चक्री च केशवः।
एतत्समस्तं विन्यस्य पश्चान्मन्त्रान् प्रयोजयेत् ॥२६॥

अथ मूलमन्त्रः

ओं नमो भगवते क्लेशापहर्त्रे नमः

पूजाकाले तु देवस्य जपकाले तथैव च।
होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥२७।

आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत्।
यद्यत् सुखतरं लोके तत्सर्वं प्राप्यते नरैः ॥२८॥

येवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम्।
अभयं सर्वमूर्तेभ्यो विष्णुलोकं स गच्छति ॥२९॥

॥इति श्रीविष्णुधर्मोत्तरपुराणे अपमार्जनकवचं संपूर्णम्॥

GARGA SAMHITA ON BHAKTI -2

गर्गसंहिता
विज्ञानखण्डः – चतुर्थोऽध्यायः
भक्तिमाहात्म्यम् –
श्रीव्यास उवाच –
खे वायौ सलिले वह्नौ मह्यां ज्योतिर्गणेषु च ॥
श्रीकृष्णदेवं पश्यन्तो हर्षिताश्च पुनः पुनः ॥१॥

श्रीकृष्णो राधिकानाथः कोटिकन्दर्पमोहनः ॥
तन्नेत्रगोचरो याति ब्रुवञ्छ्रीनन्दनन्दनः ॥२॥

सदानन्दं च ते दृष्ट्वा प्रहसन्ति प्रहर्षिताः ॥
क्वचिद्वदन्ति धावन्ति नन्दन्ति च क्वचित्तथा ॥३॥

क्वचिद्गायन्ति नृत्यन्ति क्वचित्तूष्णीं भवन्ति च ॥
कृष्णचन्द्रस्वरूपास्ते कृतार्था वैष्णवोत्तमाः ॥४॥

तेषां दर्शनमात्रेण नरो याति कृतार्थताम् ॥
न कालो न यमस्तेषां दण्डं दातुं न च क्षमः ॥५॥

गदा कौमोदकी वामे दक्षीणे च सुदर्शनम् ॥
अग्रे शार्ङ्गधनुः पश्चात्पाञ्चजन्यो घनस्वनः ॥६॥

नन्दकश्च महाखड्गः शतचन्द्रेषवः शिताः ॥
एतान्यायुधमुख्यानि तांश्च रक्षन्त्यहर्निशम् ॥७॥ 

तथोपरि महापद्मं छायां कर्तुं पुनः पुनः ॥
गरुडः पक्षवातेन श्रमहर्ता सतामपि ॥८॥

यत्र यत्र गताः सन्तस्तत्र तत्र स्वयं हरिः ॥
तीर्थीकुर्वन् भूमिभागं श्रीमत्पादाब्जरेणुभिः ॥९॥

क्षणं यत्र स्थिताः सन्तस्तत्र तीर्थानि सन्ति हि ॥
तत्र कोऽपि मृतः पापी याति विष्णोः परं पदम् ॥१०॥

दूरात्संप्रेक्ष्य कृष्णेष्टा नाधयो व्याधयस्तथा ॥
भूतप्रेतपिशाचाश्च पलायन्ते दिशो दश ॥११॥

नद्यो नदाः पर्वताश्च समुद्राश्च तथापरे ॥
मार्गं ददुश्च साधुभ्योऽनपेक्षेभ्यः समन्ततः ॥१२॥

साधूनां ज्ञाननिष्ठानां विरक्तानां महात्मनाम् ॥
अजातशत्रूणां तेषां दुर्लभं पुण्यवर्जितैः ॥१३॥

यस्मिन्कुले कृष्णभक्तो जायते ब्रह्मलक्षणम् ॥
तत्कुलं विमलं विद्धि मलीमसमपि स्वतः ॥१४॥

राजन् श्रीकृष्णभक्तस्तु पितॄन्दश कुलोद्भवान् ॥
प्रियापक्षेऽपि दश च मातृपक्षे तथा दश ॥१५॥

पुरुषानुद्धरेद्राजन्निरयात्पापबन्धनात् ॥
साधुसम्बन्धिनश्चान्ये भृत्या दासाः सुहृज्जनाः ॥१६॥

शत्रवो भारवाहश्च तद्गृहे पक्षिणस्तथा ॥
पिपीलिकाश्च मशकास्तथा कीटपतङ्गकाः ॥१७॥ 

अब्रह्मण्येऽकृष्णसारे सौवीरे कीकटे तथा ॥
म्लेच्छदेशेऽपि देवेश भक्तो लोकान्पुनाति हि ॥१८॥

साङ्ख्ययोगं विना राजंस्तीर्थधर्ममखैर्विना ॥
साधुसंसर्गिनस्तेऽपि प्रयान्ति हरिमन्दिरे ॥१९॥

इत्थं श्रीकृष्णभक्तानां माहात्म्यं कथितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥२०॥

उग्रसेन उवाच –

परिपूर्णतमे साक्षाच्छ्रीकृष्णे परमात्मनि ॥
दन्तवक्त्रस्य दुष्टस्य ज्योतिर्लीनं बभूव ह ॥२१॥

अहो महदिदं चित्रं सायूज्यं महतामपि ॥   
योग्यं स्याद्विप्रमुख्येन्द्र कथं चान्येन शत्रुणा ॥२२॥

श्रीव्यास उवाच –

ममाहमिति वैषम्यं भूतानां त्रिगुणात्मनाम् ॥
क्रोधाद्यैर्वर्तते राजन्न हरौ परमात्मनि ॥२३॥

हरौ केनापि भावेन मनो लग्नं करोति यः ॥
याति तद्रूपतां सोऽपि भृङ्गिणः कीटको यथा ॥२४॥

स्नेहं कामं भयं क्रोधमैक्यं सौहृदमेव च ॥
कृत्वा तन्मयतां यान्ति साङ्ख्ययोगं विना जनाः ॥२५॥

स्नेहान्नन्दयशोदाद्या वसुदेवादयोऽपरे ॥
कालाद्गोप्यो हरिं प्राप्ता न तु ब्रह्मतया नृप ॥२६॥

तद्रूपगुणमाधुर्यभावसंलग्नमानसाः ॥
भयात्कंसस्तव सुतस्तत्सायूज्यं जगाम ह ॥२७॥

क्रोधादयं दन्तवक्त्रः शिशुपालादयोऽपरे ॥
ऐक्याच्च यादवा यूयं सौहृदाच्च वयं तथा ॥२८॥

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥
अहर्निशं हि स्मरणं भवेच्छत्रोर्न कर्हिचित् ॥२९॥

शत्रुभावं हरौ तस्मात्कुर्वन्ति दनुजादयः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
भक्तिमाहात्म्यं नाम चतुर्थोऽध्यायः ॥४॥
===========================
“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran” 

GARGA SAMHITA ON BHAKTI -1

गर्गसंहिता
विज्ञानखण्डः – तृतीयोऽध्यायः
निर्गुणभक्तियोगकथनम् –
उग्रसेन उवाच –
श्रुतं तव मुखाद् ब्रह्मन् गुणकर्मगतिर्मया ॥
पुनरावर्तिनो लोकास्तथा सन्ति विनिश्चताः ॥१॥

निष्कारणाद्धरेः साक्षात्सेवनाद्धाम उत्तमम् ॥
लभते दुर्लभं दिव्यं भक्तानां तच्छ्रुतं मया ॥२॥

भक्तियोगः कतिविधो वद मे वदतां वर ॥
येन प्रसन्नो भवति भगवान् भक्तवत्सलः ॥३॥

श्रीव्यास उवाच –

द्वारावतीश धन्योऽसि श्रीकृष्णेष्टो हरिप्रियः ॥
पृच्छसे भक्तियोगं त्वं धन्या ते विमला मतिः ॥४॥

यं श्रुत्वा निर्मलो भूयाद्विश्वघात्यपि पातकी ॥
तं भक्तियोगं विशदं तुभ्यं वक्ष्यामि यादव ॥५॥

भक्तियोगो द्विधा राजन् सगुणश्चैव निर्गुणः ॥
सगुणः स्याद्बहुविधो निर्गुणश्चैकलक्षणः ॥६॥

सगुणः स्याद्बहुविधो गुणमार्गेण देहिनाम् ॥
तैर्गुणैस्त्रिविधा भक्ता भवन्ति शृणु तान्पृथक् ॥७॥

हिंसा दम्भं च मात्सर्यं चाभिसन्धाय भिन्नदृक् ॥
कुर्याद्भावं हरौ क्रोधी तामसः परिकीर्तितः ॥८॥

यश ऐश्वर्यविषयानभिसन्धाय यत्‍नतः ॥
अर्चयेद्यो हरिं राजन् राजसः परिकीर्तितः ॥९॥

उद्दीश्य कर्मनिर्हारमपृथग्भाव एव हि ॥
मोक्षार्थं भजते विष्णुं स भक्तः सात्विकः स्मृतः ॥१०॥

जिज्ञासुरार्तो ज्ञानी च तथाऽर्थार्थी महामते ॥
चतुर्विधा जना विष्णुं भजन्ते कृतमङ्गलाः ॥११॥

एवं बहुविधेनापि भक्तियोगेन माधवम् ॥
भजन्ति सनिमित्तास्ते जनाः सुकृतिनः परे ॥१२॥

लक्षणं भक्तियोगस्य निर्गुणस्य तथा शृणु ॥
तद्‍गुणश्रुतिमात्रेण श्रीकृष्णे पुरुषोत्तमे ॥१३॥

परिपूर्णतमे साक्षात्सर्वकारणकारणे ॥
मनोगतिरविच्छिन्ना खण्डिताऽहैतुकी च या ॥१४॥

यथाब्धावंभसा गंगा सा भक्तिर्निर्गुणा स्मृता ॥
निर्गुणानां च भक्तानां लक्षणं शृणु मानद ॥१५॥  

सार्वभौमं पारमेष्ठ्यं शक्रधिष्ण्यं तथैव च ॥   
रसाधिपत्यं योगर्द्धिं न वाञ्छन्ति हरेर्जनाः ॥१६॥

हरिणा दीयमानं वा सालोक्यं यादवेश्वर ॥
न गृह्णन्ति कदाचित्ते सत्सङ्गानन्दनिर्वृताः ॥१७॥

सामीप्यं ते न वाञ्छन्ति भगवद्विरहातुराः ॥
संनिकृष्टे न तत्प्रेम यथा दूरतरे भवेत् ॥१८॥

सारुप्यं दीयमानं वा समानत्वाभिमानिनः ॥
नैरपेक्ष्यान्न वाञ्छन्ति भक्तास्तत्सेवनोत्सुकाः ॥१९॥

एकत्वं चापि कैवल्यं न वाञ्छन्ति कदाचन ॥
एवं चेत्तर्हि दासत्वं क्व स्वामित्वं परस्य च ॥२०॥

निरपेक्षाश्च ये शान्ता निर्वैराः समदर्शिनः ॥
आकैवल्याल्लोकपदग्रहणं कारणं विदुः ॥२१॥

नैरपेक्ष्यं महानन्दं निरपेक्षा जनाः हरेः ॥
जानन्ति हि यथा नासा पुष्पामोदं न चक्षुषी ॥२२॥

सकामाश्च तदानन्दं जानन्ति हि कथंचन ॥
रसकर्ता तथा हस्तो रसस्वादं न वेत्ति हि ॥२३॥

तस्माद्राजन्भक्तियोगं विद्धि चात्यन्तिकं पदम् ॥
भक्तानां निरपेक्षाणां पद्धतिं कथयामि ते ॥२४॥

स्मरणं किर्तनं विष्णोः श्रवणं पादसेवनम् ॥
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥२५॥

कुर्वन्ति सततं राजन् भक्तिं ये प्रेमलक्षणाम् ॥
ते भक्ता दुर्लभा भूमौ भगवद्भावभावनाः ॥२६॥

कुर्वन्तो महतोपेक्षां दयां हीनेषु सर्वतः ॥
समानेषु तथा मैत्रीं सर्वभूतदयापराः ॥२७॥

कृष्णपादाब्जमधुपाः कृष्णदर्शनलालसाः ॥
कृष्णं स्मरन्ति प्राणेशं यथा प्रोषितभर्तृकाः ॥२८॥

श्रीकृष्णस्मरणाद्येषां रोमहर्षः प्रजायते ॥
आनन्दाश्रुकलाश्चैव वैवर्ण्यं तु क्वचिद्भवेत् ॥२९॥

श्रीकृष्ण गोविन्द हरे ब्रुवन्तः श्लक्ष्णया गिरा ॥
अहर्निशं हरौ लग्नास्ते हि भागवतोत्तमाः ॥३०॥
इति श्रीगर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे
निर्गुणभक्तियोगवर्णनं नाम तृतीयोऽध्यायः ॥३॥

“niShkAma
bhakti from Gagra Samhita” contributed by Vishwas R. Bhide and proofread
by PSA Easswaran 

GURUPADUKA STOTRAM (BY ACHARYA SANKARA)

           गुरुपादुकास्तोत्रम्
   
 (श्रीमच्छंकरभगवत्पादविरचितम्)


अनंतसंसारसमुद्रतार-
  
नौकायिताभ्यां गुरुभक्तिदाभ्यां।
वैराग्यसाम्राज्यदपूजनाभ्यां
 
 नमोनमः
श्रीगुरुपादुकाभ्यां॥१॥

Pranams to the pair of padukas of the Guru which, as a ship, help one cross the endless ocean of samsara, which bestows devotion to the Guru and the worship of which makes one the Emperor of Vairagya Samrajya (the empire of detachment)

कवित्ववाराशिनिशाकराभ्यां
 
 दौर्भाग्यदावांबुदमालिकाभ्यां।
दूरीकृतानम्रविपत्तिताभ्यां
 
 नमोनमः
श्रीगुरुपादुकाभ्यां॥२॥

Pranams to the pair of padukas of the Guru which are like to moon to the ocean of kavitwa (the capacity to create beautiful poems, also spiritual knowledge) and which are like rain-giving clouds for the wild fire of misfortunes.

नता ययोः
श्रीपतितां समीयुः

   
 कदाचिदप्याशु
दरिद्रवर्याः।
मूकाश्च वाचस्पतितां
हि ताभ्यां
    
नमो नमः श्रीगुरुपादुकाभ्यां॥३॥
Pranams to the pair of padukas of the Guru which instantly make even utterly poor persons possessors of great wealth if they bow their heads to those padukas even once and which make even dumb humans eloquent speakers.  
नालीकनीकाशपदाहृताभ्यां
 
 नानाविमोहादिनिवारिकाभ्यां।
नमज्जनाभीष्टततिप्रदाभ्यां
 
 नमो नमः
श्रीगुरुपादुकाभ्यां॥४॥

Pranams to the pair of padukas of the Guru which attract (devotees) by their beauty as the lotus, which remove the different types delusions (of devotees) and which fulfil all the wishes of those who bow to them.

नृपालिमौलिब्रजरत्नकांति-
  
सरिद्विराज्झषकन्यकाभ्यां।
नृपत्वदाभ्यां नतलोकपंक्ते:
   
नमोनमः श्रीगुरुपादुकाभ्यां॥५॥

Pranams to the pair of padukas of the Guru which resemble a pair of fish in the river of light emitted from the brilliance of the diamonds and jewels set in the crowns of kings who bow to them and which make all those who bow to them kings.

पापान्धकारार्कपरंपराभ्यां
   
तापत्रयाहीन्द्र खगेश्वराभ्यां।
जाड्याब्धिसंशोषणवाडवाभ्यां
  
 नमोनमः
श्रीगुरुपादुकाभ्यां॥६॥

Pranams to the pair of padukas of the Guru which are like a series of suns dispelling the darkness of sins, which are like Garuda for the king of serpents which are the three kinds of distress ( आध्यात्मिका, आधिभौतिका एवं आधिदैविकाः तापाः), and which dry up the ocean of ignorance like the fire at the time of dissolution (वडवाग्नि)

शमादिषट्कप्रदवैभवाभ्यां
   
समाधिदानव्रतदीक्षिताभ्यां।
रमाधवांघ्रिस्थिरभक्तिदाभ्यां
   
नमोनमः श्रीगुरुपादुकाभ्यां॥७॥

Pranams to the pair of padukas of the Guru which bestow the six qualities (needed for an aspirant on the spiritual path) like शम, दम etc, which have vowed to bestow samadhi (on devotees) and which also bless the devotees with firm devotion at the lotus feet of Lord Vishnu.

स्वार्चापराणामखिलेष्टदाभ्यां
  
स्वाहासहायाक्षधुरंधराभ्यां।
स्वान्ताच्छभावप्रदपूजनाभ्यां
  
नमोनमः श्रीगुरुपादुकाभ्यां॥८॥

Pranams to the pair of padukas of the Guru which fulfill the desires of those who worship, which take on all their burdens and the worship of which purifies the heart and mind of the devotees.

कामादिसर्पव्रजगारुडाभ्यां
 
 विवेकवैराग्यनिधिप्रदाभ्यां।
बोधप्रदाभ्यां
दृढमोक्षदाभ्यां
  
 नमोनमः
श्रीगुरुपादुकाभ्यां॥९॥

Pranams to the pair of padukas of the Guru which are like Garuda for the serpents of passion, anger etc. (कामक्रोधलोभमोहमदमात्सर्यादयः), which bestow discrimination and detachment on the devotees and finally Knowledge and liberation from the cycle of births and deaths.

SHIVAMEEDE STAVARATNAM

                                 शिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम्।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम्॥१॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या
   सृष्ट्वा स्वस्मिन्
क्रीडति देवोऽप्यनवद्यः।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२॥
एको देवो भाति तरङ्गेष्विव भानुः
  नानाभूतेष्वात्मसु
सर्वेष्वपि नित्यम्।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
श्रौतैः स्मार्तैः कर्मशतैश्चापि य ईशो
  दुर्विज्ञेयः कल्पशतं
तैर्जडरूपैः।
संविद्रूपस्त्वैकविचारादधिगम्यः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
कर्माध्यक्षः कामिजनानां फलदाता
   कर्तृत्वाहंकारविमुक्तो
निरपेक्षः।
देहातीतो दृश्यविविक्तो जगदीशः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
नान्तर्बाह्यो नोभयतो वा प्रविभक्तं
   यं सर्वज्ञं नापि
समर्थो निगमादिः
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
यद्भासार्को भाति हिमांशुर्दहनो वा
  दृश्यैर्भास्यैर्यो
न च भाति प्रियरूपः।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
  तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥८॥
आशादेशाद्यव्यवधानो विभुरेकः
   सर्वाधारः सर्वनियन्ता
परमात्मा।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
    तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद्
   दृश्यं सर्वं नश्वररूपं
गुरुवाक्यात्।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
   सर्वस्फूर्तिः
शाश्वतरूपस्त्विति वेदः।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं  
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
यस्माद्भीतो वाति च वायुस्त्रिपुरेषु
   ब्रह्मेन्द्राद्यास्ते  निजकर्मस्वनुबद्धाः।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
मायाकार्यं जन्म च नाशः पुरजेतुः
  नास्ति द्वन्द्वं
नाम च रूपं श्रुतिवाक्यात्।
निर्णीतार्थो नित्यविमुक्तो निरपायः
     तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
 नायं देहो नेन्द्रियवर्गो
न च वायुः
   नेदं दृश्यं जात्यभिमानो न च बुद्धिः।
 इत्थं श्रुत्या गुरुवाक्यात्
प्रतिलब्धः
      तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
  ह्रस्वं शुक्लं
कृष्णमखण्डोऽव्ययरूपः।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
   स्तिर्यञ्चोऽपि
स्थावरभेदाः प्रभवन्ति।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
यस्मिन् ज्ञाते ज्ञातमशेषं भुवनं स्याद्
  यस्मिन् दृष्टे
भेदसमूहो लयमेति।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
  चन्द्रादित्यौ नेत्रयुगं
ज्यां पदयुग्मम्।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः
 तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१८॥
प्राणायामैः पूतधियो यं प्रणवान्तं
  संधायात्मन्यव्यपदेश्यं
निजबोधम्।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥१९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
   यन्मन्तव्यं स्वात्मसुखार्थं
पुरुषाणाम्।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
   तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
   नित्यानन्दं तं फलपाणिः समुपैति।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
पृथ्व्यम्ब्वग्निस्पर्शनखानि प्रविलाप्य
   स्वस्मिन् मत्या
धारणया वा प्रणवेन।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
लीने चित्ते भाति च एको निखिलेषु
   प्रत्यग्दृष्ट्या
स्थावरजन्तुष्वपि नित्यम्।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
चेतः साक्षी प्रत्यगभिन्नो विभुरेकः
   प्रज्ञानात्मा
विश्वभुगादिव्यतिरिक्तः।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
सर्वे कामा यस्य विलीनाः हृदि संस्थाः
     तस्योदेति ब्रह्मरविर्यो
हृदि तत्र।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
    तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
स  त्यागेशः सर्वगुहान्तः
परिपूर्णो
  वक्ता श्रोता वेदपुराणप्रतिपाद्य:।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
   तं सर्वाघध्वंसकमाद्यं
शिवमीडे ॥२६||
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
  तस्याविद्या जन्म
च नाशो लयमेतु।
किं चात्मानं पश्यतु सत्यं निजबोधं
   सर्वान् कामान्
स्वं लभतां स प्रियरूपम्॥२७॥
॥इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण

   त्यागराजनाम्ना विरचितं शिवेमीडेस्तवरत्नं संपूर्णम्॥ 

GANESHA ASHTOTTARA SATANAMA STOTRAM

   गणेशाष्टोत्तरशतनामस्तोत्रम्
Lord Yama tells his
messengers to leave alone, with fear, the devotees who chant Ganesha’s name.
गणेशहेरंबगजाननेति
  महोदर! स्वानुभवप्रकाशिन्!।
वरिष्ठ! सिद्धिप्रिय!  बुद्धिनाथ!
  वदन्तमेवं त्यजत प्रभीताः ॥१॥
अनेकविघ्नान्तक! वक्रतुण्ड!
   स्वसंज्ञवासिंश्चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन्
   वदन्तमेवं त्यजत प्रभीताः ॥२॥
महेशसूनो गजदैत्यशत्रो
  वरेण्यसूनो विकटत्रिनेत्र
परेश पृथ्वीधर! एकदन्त !
  वदन्तमेवं त्यजत प्रभीताः ॥३॥
प्रमोदमोदेति नरान्तकारे
  षडूर्मिहन्तर्गजकर्ण डुण्ढे!
द्वन्द्वारिसिन्धो स्थिरभावकरिन्!
  वदन्तमेवं त्यजत प्रभीताः ॥४॥
विनायक ज्ञानविघातशत्रो
  पराशरस्यात्मज! विष्णुपुत्र!
अनादिपूज्याखुग सर्वपूज्य
   वदन्तमेवं त्यजत प्रभीताः ॥५॥
विद्येज्य लंबोदर धूम्रवर्ण
  मयूरपालेति मयूरवाहिन्।
सुरासुरैः सेवितपादपद्म!
   वदन्तमेवं त्यजत प्रभीताः ॥६॥
वरिन्महाखुध्वज! शूर्पकर्ण!
   शिवाजसिंहस्थ अनन्तवाह।
दितौज विघ्नेश्वर शेषनाभे
   वदन्तमेवं त्यजत प्रभीताः ॥७॥
अणोरणीयो महतोमहीयो
   रवेर्ज योगेशज ज्येष्ठराज!
निधीश मन्त्रे शच शेषपुत्र!
   वदन्तमेवं त्यजत प्रभीताः ॥८॥
वरप्रदातरदितेश्च सूनो
   परात्पर ज्ञानद तारवक्त्र।
गुहाग्रज ब्रह्मप पार्श्वपुत्र
   वदन्तमेवं त्यजत प्रभीताः ॥९॥
सिन्धोश्च शत्रो! परशुप्रपाणे!
  शमीश! पुष्पप्रिय! विघ्नहारिन्।
दूर्वाभरैरर्चित! देवदेव!
   वदन्तमेवं त्यजत प्रभीताः ॥१०॥
धियःप्रदातश्च शमिप्रियेति
   सुसिद्धिदातश्च सुशान्तिदातः!।
अमेयमायाऽमितविक्रमेति
    वदन्तमेवं त्यजत प्रभीताः ॥११॥
  द्विधाचतुर्थिप्रिय!  कश्यपाज्ज!
   धनप्रद! ज्ञानपदप्रकाश!  ।
चिन्तामणे! चित्तविहारकारिन्!
   वदन्तमेवं त्यजत प्रभीताः ॥१२॥
यमस्य शत्रो! अभिमान शत्रो!
   विधेर्ज! हन्तः! कपिलस्य सूनो!।
विदेह! स्वानन्द! अयोगयोग!
    वदन्तमेवं त्यजत प्रभीताः ॥१३॥
गणस्य शत्रो कमलस्य शत्रो!
  समस्तभावज्ञ! च फालचन्द्र!।
अनादिमध्यान्तमय प्रचारिन्!
   वदन्तमेवं त्यजत प्रभीताः ॥१४॥
विभो जगद्रूप!  गणेश!  भूमन्!
    पुष्टेःपते!  आखुगतेति बोद्धः
कर्तश्च पातुश्च तु संहरेति
    वदन्तमेवं त्यजत प्रभीताः ॥१५॥
इदमष्टोत्तरशतं नाम्ना तस्य पठन्ति ये।
शृण्वन्ति वा तेषु भीतः कुरुध्वं मा प्रवेशनम्॥१६॥
भुक्तिमुक्तिप्रदं डुण्ढेर्धनधान्यप्रवर्धनम्।
ब्रह्मभूयकरं स्तोत्रं जपन्तं नित्यमादरात् ॥१७॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः।
धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम्॥१८॥

kAliyamardanam [ कालियमर्दनम् ] (10.16.1-32)

                          कालियमर्दनं-१  (श्रीमद्भागवतम् १०.१६,श्लोकाः १-३२)                                     
 [The English translation is largely based
on that of  the disciples of His Divine Grace A.C. Bhaktivedanta Swami
Prabhupada as given in the “Srimad Bhagavatam” published by the Bhaktivedanta
Book Trust]
श्रीशुक उवाच-
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः।
तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥१॥
Sukadeva Goswami said: Lord Sri Krishna, the Supreme
Personality of Godhead, seeing that the Yamuna River had been contaminated by
the black snake Kaliya, desired to purify the river, and thus the Lord banished
him from it.
श्रीराजोवाच-
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम्।
स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥२॥
King Parikshit inquired: O learned sage, please
explain how the Supreme Personality of Godhead chastised the serpent Kaliya
within the unfathomable waters of the Yamuna , and how it was that Kaliya had
been living there for so many years. 
ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥३॥
O brahmana, the unlimited Supreme Personality of
Godhead freely acts according to His own desires.  Who could be satiated when hearing the nectar
of the magnanimous pastimes He performed as a cowherd boy in Vrindavana?
श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद्ध्रदः कश्चिद् विषाग्निना।
श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥४॥
Sri Sukadeva Goswami said: Within the river
Kalindi[Yamuna] was a lake inhabited by the serpent kaliya, whose fiery poison
constantly heated and boiled its waters. 
Indeed, the vapours thus created 
were so poisonous that birds flying over the contaminated lake would
fall down into it.
विप्रुष्मता विषदोर्मिमारुतेनाभिमर्शिताः।
म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजंगमाः॥५॥
The wind blowing over that deadly lake
carried droplets of water to the shore. 
Simply by coming in contact with that poisonous breeze, all vegetation
and creatures on the shore died.
तं चंडवेगविषवीर्यमवेक्ष्य तेन-
     दुष्टां नदीं च खलसंयमनावतारः।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग-
     मास्फोट्य गाढरशनो न्यपतद्
वोषोदे॥६॥
          
Lord Krishna saw how the Kaliya had polluted the
Yamuna river with his terribly powerful poison. 
Since Krishna had descended from the spiritual world specifically to
subdue envious demons, the Lord immediately climbed to the top of a very high
kadamba tree and prepared Himself for battle. 
He tightened His belt, slapped His arms and then jumped into the
poisonous water.
सर्पह्रदः पुरुषसारनिपातवेग-
   संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः।
पर्यक्प्लुतो विषकषायविभीषणोर्मि-              
    र्धावन् धनुःशतमनन्तबलस्य किं तत्॥७॥
When the Supreme Personality of Godhead
landed in the serpent’s lake, the snakes there became extremely agitated and
began breathing heavily, further polluting it with volumes of poison.  The force of the Lord’s entrance into the
lake caused it to overflow on all sides, and poisonous, fearsome waves flooded
the surrounding lands up to a distance of one hundred bow-lengths.  This is not at all amazing, however, for the
Supreme Lord possesses infinite strength.  
 
तस्य ह्रदे विहरतो भुजदण्डघूर्ण-
   वार्घोषमङ्ग वरवारणविक्रमस्य।
आश्रुत्य तत्स्वभवनाभिभवं निरीक्ष्य
   चक्षुःश्रवाः समरसत्तदमृष्यमाणः ॥८॥
Krishna began sporting in Kaliya’s lake like a lordly
elephant- swirling his mighty arms and making the water resound in various
ways.  When Kaliya heard these sounds, he
understood that someone was trespassing in his lake. The serpent could not
tolerate this and immediately came forward.
तं प्रेक्षणीयसुकुमारघनावदातं
  श्रवत्सपीतवसनं स्मितसुन्दरास्यं।
क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं
  संदश्य मर्मसु रुषा भुजया चछाद॥९॥
Kaliya saw that Sri Krishna, who wore
yellow silken garments, was very delicate, His attractive body shining like a
glowing white cloud, His chest bearing the mark of Srivatsa, His face smiling
beautifully and His feet resembling the whorl of a lotus flower.  The Lord was playing fearlessly in the
water.  Despite His wonderful
appearance,, the envious Kaliya furiously bit Him on the chest and then
completely enwrapped Him in his coils.
तं नागभोगपरिवीतमदृष्टचेष्टम्
  आलोक्य तत्प्रियसखाः पशुपा
भृशार्ताः।
कृष्णेर्पितात्मसुहृदर्थकलत्रकामा
  दुःखानुषोकभयमूढधियो निपेतुः
॥१०॥
When the members of the cowherd community,
who had accepted Krishna as their dear most friend, saw Him enveloped in the
snake’s coils, motionless, they were greatly disturbed.  They had offered Krishna everything- their
very selves, their families, their wealth, wives and all pleasures.  At the sight of the Lord in the clutches of
the Kaliya snake, their intelligence became deranged by grief, lamentation and
fear, and thus they fell to the ground.
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुखिताः।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥११॥
The cows, bulls
and female calves, in great distress, called out piteously to Krishna. Fixing
their eyes on Him, they stood still in fear, as if ready to cry but too shocked
to shed tears.
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः।
उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥१२॥
In the Vrindavan area there then arose all three types of fearful omens
–those on earth, those in the sky and those in the bodies of living creatures
तानालक्ष्य भयोद्विग्नाः गोपा नन्दपुरोगमाः।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥१३॥
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः।
तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः॥१४॥
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः।
निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः॥१५॥
Seeing the inauspicious omens, Nanda
Maharaja and the other cowherd men were fearful, for they knew that Krishna had
gone to herd the cows that day without His elder brother, Balarama.  Because they had dedicated their minds to
Krishna, accepting Him as their very life, they were unaware of His great power
and opulence.  Thus they concluded that
the inauspicious  omens indicated He had
met with death, and they were overwhelmed with grief, lamentation and
fear.  All the inhabitants of Vridavana,
including the children, women and elderly persons, thought of Krishna just as a
cow thinks of her helpless young calf, and thus these poor, suffering people
rushed out of the village, intent upon finding him.
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥१६॥
The Supreme Lord
Balarama, the master of all transcendental knowledge, smiled and said nothing
when He saw the residents of Vrindavana in such distress, since He understood
the extraordinary power of His younger brother.
   
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः।
भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम्॥१७॥
The residents hurried toward the banks of the Yamuna
in search of their dearmost Krishna, following the path marked by His
footprints, which bore the unique signs of the Personality of Godhead
.
ते तत्र तत्राब्जयवाङ्कुशाशनि-
   ध्वजोपपन्नानि पदानि विश्पतेः।
मार्गे गवामन्यपदान्तरान्तरे
   निरीक्ष्यमाणा ययुरङ्ग सत्वराः॥१८॥
The footprints of Lord Krishna, the master
of the entire cowherd community, were marked with the lotus flower, barleycorn,
elephant goad, thunderbolt and flag.  My
dear King Parikshit, seeing His footprints on the path among the cows’ hoof
prints, the residents of Vrindavana rushed along in great haste.  
अन्तर्ह्रदे भुजगभोगपरीतमारात्
   कृष्णं निरीहमुपलभ्य जलाशयान्ते।
गोपांश्च मूढधिषणान् परितः पशूंश्च
   संक्रन्दतः परमकश्मलमापुरार्ताः ॥१९॥
As they hurried along the path to the bank
of the Yamuna River, they saw from a distance that Krishna was in the lake,
motionless within the coils of the black serpent.  They further saw that the cowherd boys had
fallen unconscious and the animals were standing on all sides, crying out for
Krishna.  Seeing all this, the residents
of Vrindavana were overwhelmed with anguish and confusion.
गोप्योऽनुरक्तमनसो भगवत्यनन्ते
 तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः।
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः
  शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम्॥२०॥
When the young
gopis, whose minds were constantly attached to Krishna, the unlimited Supreme
Lord, saw that He was now within the grips of the serpent, they remembered His
loving friendship, His smiling glances and His talks with them.  Burning with great sorrow, they saw the
entire universe as void without their dearest Krishna.  
ताः कृष्णमातरमपत्यमनुप्रविष्टाम्
    तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ता व्रजप्रियकथाः कथयन्त्य आसन्
    कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥२१॥
Although the elder gopis were feeling just
as much distress as she and were pouring forth a flood of sorrowful tears, they
had to forcibly hold back Krishna’s mother, whose consciousness was totally
absorbed in her son.  Standing like
corpses, with their eyes fixed upon His face, these gopis each took
turns recounting the pastimes of the darling of Vraja. 
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥२२॥
Lord Balarama then saw that Nanda Maharaja
and the other cowherd men, who had dedicated their very lives to Krishna, were
beginning to enter the serpent’s lake. 
As the Supreme Personality of Godhead, Lord Balarama fully knew Lord
Krishna’s actual power, and therefore He restrained them.
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य
   सस्त्रीकुमारमतिदुःखितमात्महेतोः।
आज्ञाय मर्त्यपदवीमनुवर्तमानः
   स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात्॥२३॥
The Lord remained for some time within the
coils of the serpent, imitating the behaviour of an ordinary mortal.  But when He understood that the women,
children and other residents of His village of Gokula were in acute distress
because of their love for Him, their only shelter and goal in life, He
immediately rose up from the bonds of the Kaliya serpent.
तत्प्रथ्यमानवपुषा व्यथितात्मभोग-
  स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः ।
तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-
   स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥२४॥
His coils tormented by the expanding body
of the Lord, Kaliya released Him.  In
great anger the serpent then raised his hoods high and stood still, breathing
heavily. His nostrils appeared like vessels for cooking poison, and the staring
eyes in his face like firebrands.  Thus
the serpent looked at the Lord.
तं जिह्वया द्विशिखया परिलेलिहानं
   द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम्।
क्रीडन्नमुं परिससार यथा खगेन्द्रो
   बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥२५॥
Again and again Kaliya licked his lips with his
bifurcated tongues as He stared at Krishna with a glance full of terrible,
poisonous fire.  But Krishna playfully
circled around him, just as Garuda would play with a snake.  In response, Kaliya also moved about, looking
for an opportunity to bite the Lord.
एवं परिभ्रमहतौजसमुन्नतांस-
   मानम्य तत्पृथुशिरःस्वधिरूढ आद्यः।
तन्मूर्धरत्ननिकरस्पर्शातिताम्र-
    पादाम्बुजोऽखिलकलादिगुरुर्ननर्त॥२६॥
Having severely depleted the serpent’s strength with
His relentless circling, Sri Krishna, the origin of everything, pushed down
Kaliya’s raised shoulders and mounted his broad serpentine heads.  Thus Lord Krishna, the original master of all
fine arts, began to dance, His lotus feet deeply reddened by the touch of the
numerous jewels upon the serpent’s head.
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-
  गन्धर्वसिद्धसुरचारणदेववध्वः।
प्रीत्या मृदङ्गपणवानकवाद्यगीत-
  पुष्पोपहारनुतिभिः सहसोपसेदुः ॥२७॥
Seeing the Lord dancing, His servants in
the heavenly planets – the Gandharvas, Siddhas, sages, Charanas and wives of
the demigods- immediately arrived there. 
With great pleasure they began accompanying the Lord’s dancing by
playing drums such as mridangas, panavas and anakas. They also made
offerings of songs, flowers and prayers.
यद् यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-
   स्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः।
क्षीणायुषो भ्रमतोल्बणमास्यतोऽसृङ्-
   नस्तो वमन् परमकश्मलमाप नागः ॥२८॥
My dear king, Kaliya had 101 prominent
heads, and when one of them would not bow down, Lord Sri Krishna, who inflicts punishment
on cruel wrong-doers, would smash that stubborn head by striking it with His
feet.  Then, as Kaliya entered his death throes,
he began wheeling his heads around and vomiting ghastly blood from his mouths
and nostrils.  The serpent thus
experienced extreme pain and misery.
तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु
  यद् यत्समुन्नमति निःश्वसतो रुषोच्चैः।
नृत्यन् पदानुनमयन् दमयाम्बभूव
   पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥२९॥
Exuding poisonous waste from his eyes,
Kaliya would occasionally dare to raise up one of his heads, which would
breathe heavily with anger.  Then the
Lord would dance on it and subdue it, forcing it to bow down with His
foot.  The demigods took each of these
exhibitions as an opportunity to worship Him, the primeval Personality of
Godhead, with showers of flowers.
तच्चित्रताण्डवविरुग्णफणासहस्रो
  रक्तं मुखैरुरु वमन् नृप भग्नगात्रः।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं
   नारायणं तमरणं मनसा जगाम ॥३०॥
My dear king Parikshit, Lord Krishna’s wonderful,
powerful dancing trampled and broke all of Kaliya’s one thousand hoods.  Then the serpent, profusely vomiting blood
from his mouths, finally recognized Sri Krishna to be the eternal Personality
of Godhead, the supreme master of all moving and nonmoving beings, Sri
Narayana.  Thus within his mind Kaliya
took shelter of the Lord.    
कृष्णस्य गर्भजगतोऽतिभरावसन्नं
   पार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य
   आर्ताः श्लथद्वसनभूषणकेशबन्धाः॥३१॥
When Kaliya’s wives saw how the serpent had become so
fatigued from the excessive weight of Lord Krishna, who carries the entire
universe in His abdomen, and how Kaliya’s umbrella-like hoods had been
shattered by the striking of Krishna’s heels, they felt great distress.  With their clothing, ornaments and hair
scattered in disarray, they then approached the Eternal Personality of Godhead.
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः
  कायं निधाय भुवि भूतपतिं प्रणेमुः।
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु-
   र्मोक्षेप्सव शरणदं शरणं प्रपन्नाः ॥३२॥

Their minds very much disturbed, those saintly ladies
placed their children before them and then bowed down to the Lord of all
creatures, laying their bodies flat upon the ground.  They desired the liberation of their sinful
husband and the shelter of the Supreme Lord, the giver of ultimate shelter, and
thus they folded their hands in supplication and approached Him.