गोकुलेशाष्टकम्
नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभूरिभाग्यभाजनं भयापहम्
।
।
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ १ ॥
॥ १ ॥
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम्
।
।
पद्मयोनिशंकरादिदेवबृन्दवन्दितं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ २ ॥
॥ २ ॥
गोपराजरत्नराजिमन्दिरानुरिङ्गणं
गोपबालबालिकाकुलानुरुद्धगायिनम्
।
।
सुन्दरीमनोजभावभाजनाम्बुजाननं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ३ ॥
॥ ३ ॥
कंसकेशिकुञ्जरादि दुष्टदैत्यदारणं
इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम्
।
।
कामधेनुकारिताभिधानगानशोभितं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ४ ॥
॥ ४ ॥
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम्
।
।
धेनुधूलिधूसराङ्गशोभिहारनूपुरं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ५ ॥
॥ ५ ॥
वत्सधेनुगोपबालभीषणास्यवह्निपं
केकिपिञ्छकल्पितावतंसशोभिताननम्
।
।
वेणुनादमत्तघोषसुन्दरीमनोहरं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ६ ॥
॥ ६ ॥
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं
शारदारविन्दबृन्दशोभिहंसजागतम्
।
।
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ७ ॥
॥ ७ ॥
वासरावसानगोष्ठगामिगोगणानुगं
धेनुदोहदेहगेहमोहविस्मयक्रियम्
।
।
स्वीयगोकुलेशदानदत्तभक्तरक्षणं
नीलवारिवाहकान्ति गोकुलेशमाश्रये
॥ ८ ॥
॥ ८ ॥
***