विष्णुलहरी-३

मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव माम् अपहाय मुञ्चतः करुणा किं[3b] न भिनत्ति मानसम् ॥२१॥

निरुपाधिजनार्त्तिहारिणं भगवंस्त्वाम् अवबुद्ध्य तत्त्वतः ।
कृतपुण्यरसावलेहनं[कृतपुण्यचयावहेलनं] कथम् अब्जेक्षण माम् उपेक्षसे ॥२२॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
उरुपापम् उपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥२३॥

सुकृतं न कृतं पुरा कदाप्यथ सर्व्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥२४॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशा[4a]र्ङ्गदासिनन्दक(धृतशार्ङ्गगदासिनन्दक) प्रतिकर्षन्ति कथं न बुद्धसे(लज्जसे) ॥२५॥

अपि गर्त्तमुखे गतः शिशुः पथिकेनापि निवार्य्यते जवात् ।
जनकेतपतन्(जनकेन पतन्) भवार्णवेन(भवार्णवे) न निवार्य्यो भवता कथं विभो ॥२६॥

सुकृतप्रिय इत्यथास्तु ते सुकृतिभ्यः सुखदश्च सुप्रथाः ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भर नाम दुर्ल्लभम् ॥२७॥

वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्द्धे जगतोपसारय ॥२८॥

यदि वीक्ष्य द[4b]दासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं तदा परितुष्यन् शिरसा वहामि तत् ॥२९॥

पतितोप्यतिदुर्ग्गुणोपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरय[यं]स्त्वया दयनीयस्त्रपनीयकेवलम्[दयनीयस्त्रपयैव केवलम्] ॥३०॥

विष्णुलहरी-२

पुरातनानां वचसाम् अगोचरं
महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती
सती मतिर्म्मे कथमन्यमेष्यति ॥११॥

न जाग्रति स्वप्नदशान्तरेपि वा
परं विजाने तव पादपकङ्जात् ।
इति स्म सत्यं यदि भाषितं मया
कदा जगन्नाथ(य)क माम् उरीकुरु ॥१२॥

इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥१३॥

सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभू[2b]त् मनागपि ।
स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥१४॥

नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ(सुविचार्य्योत्तरमत्र) यच्छ मे ।
करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य(यदद्य) माम् ॥१५॥

न धनं न च राज्यसम्पदं न हि विद्याम् इदमेकमर्त्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥१६॥

अयमत्यधमोपि दुर्ग्गुणो दम(य)नीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥१७॥

क्षुधितस्य न[3a] हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥१८॥

नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्(स्)य मे ।
भगवन् कुरु सूक्ष्मम् ईक्षणं परतस्त्वां जनतः(ता) किमालये(पे)त् ॥१९॥

नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदम् एकम् असह्यम् ईक्षका यदनाथं निगदन्ति मां विभो ॥२०॥

विष्णुलहरी – १

श्रीगणेशाय नमः

नि(वि)षीदतां(ता) नाथ विषानलोपमे
विषादभूमौ भवसागरे हरे ।
परं प्रतीकारम् अपास्यताधुना(अपश्यताधुना)
मयायमात्मा भवते निवेदितः ॥१॥

भवानलज्वालविलुप्तचेतनः
शरण्य तेङ्घ्री(ङ्घ्रि)शरणं भयाद् अयम् ।
विभाव्य भूयोपि दयासुधाम्बुधे
विधेहि भो नाथ तथा यथेच्छसि ॥२॥

विहाय संसारमहामरुस्थलीम्
अलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे
विगाढुम् ईश त्वयि गाढम् ईहते ॥३॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्-
मरन्दनिष्प(निःष्य)न्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलः
त्वदन्यम् ईशान तृणाय मन्यते ॥४॥

जगत्त्रयत्राणविधौ धुरन्धरं
तवाङ्घ्रिराजीवम् अपास्य ते जनाः ।
शरण्यम् अन्यत् मृगयन्ति यान्ति ये
नितान्तम् ईशान कृतान्तदेहलीम् ॥५॥

रमामुखाम्भोजविकासनक्षमो
जगत्र(त्त्र)योद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥६॥

मुनीन्द्रचित्तैकचकोरजीविका
समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्नखचन्द्रचन्द्रिका ॥७॥

सुयौवनापाण्डुरगण्डमण्डल-
प्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं
कदा मदक्ष्णोरतिथीभविष्यति ॥८॥

सुरापगातुङ्गतरङ्गचालितां
सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे
भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥

अजा(महा)जवाच्छि(श्च्छि)न्नविवेकरश्मयो
मदोत्ध(द्ध)ता देव मदक्षवाजिनः ।
अलं समासाद्य तवाङ्घ्रिमन्दुराम्
अपास्तवेगा दधतां सुशीलताम् ॥१०॥


HYMNS TO KRISHNA – GOVINDA DAMODARA STOTRAM

गोविन्ददामोदरस्तोत्रम्
 अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा गोविन्द
दामोदर माधवेति ॥ १ ॥
श्री कृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ गोविन्द
दामोदर माधवेति ॥ २ ॥
विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः
दध्यादिकं मोहवशादवोचद् गोविन्द
दामोदर माधवेति ॥ ३ ॥
उलूखले संभृततण्डुलांश्च संघट्टयन्त्यो
मुसलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥ ४ ॥
काचित्करांभोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डं ।
अध्यापयामास सरोरुहाक्षी गोविन्द
दामोदर माधवेति ॥ ५ ॥
गृहे गृहे गोपवधू समूहः प्रतिक्षणं
पिन्ञ्जरसारिकाणां ।
स्खलद्गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ॥ ६ ॥
पर्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति ॥ ७ ॥
रामानुजं वीक्षणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आबालकं बालकमाजुहाव गोविन्द
दामोदर माधवेति ॥ ८ ॥
विचित्रवर्णाभरणाभिरामेऽभिधेहि
वक्त्रांबुजराजहंसि ।
सदा मदीये रसनेऽग्ररङ्गे गोविन्द
दामोदर माधवेति ॥ ९ ॥
अङ्काधिरूढं शिशुगोपगूढं स्तनंधयन्तं
कमलैककान्तं ।
संबोधयामास मुदा यशोदा गोविन्द
दामोदर माधवेति ॥ १० ॥
क्रीडन्तमन्तर्व्रजमात्मजं
स्वं समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति ॥ ११ ॥
यशोदया गाढमुलूखलेन गोकण्ठपाशेन
निबध्यमानः ।
रुरोद मन्दं नवनीतभोजी गोविन्द
दामोदर माधवेति ॥ १२ ॥
निजाङ्गणे कङ्कणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आमर्दयत्पाणितलेन नेत्रे गोविन्द
दामोदर माधवेति ॥ १३ ॥
गृहे गृहे गोपवधूकदम्बाः सर्वे
मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ १४ ॥
 
मन्दारमूले वदनाभिरामं बिम्बाधरापूरित
वेणुनादं ।
गोगोपगोपीजनमध्यसंस्थं गोविन्द
दामोदर माधवेति ॥ १५ ॥
उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति ॥ १६ ॥
जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिक्त्सयन्ती ।
उवाच सत्यं वद हे मुरारे गोविन्द
दामोदर माधवेति ॥ १७ ॥
अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा
दधि निर्ममन्थ ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति ॥ १८ ॥
क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मन्थं युवती मुकुन्दं ।
आलोक्य गानं विविधं करोति गोविन्द
दामोदर माधवेति ॥ १९ ॥
क्रीडापरं भोजनमज्जनार्थं हितैषिणी
स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥ २० ॥
सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ २१ ॥
विहाय निद्रामरुणोदये च विधाय
कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ २२ ॥
वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्द वियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ २३ ॥
प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं
तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥ २४ ॥
प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः
मूले तरूणां मुनयः पठन्ति गोविन्द
दामोदर माधवेति ॥ २५ ॥
एवं बृवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्ज्य लज्जां रुरुदुः स्म
सुस्वरं गोविन्द दामोदर माधवेति ॥ २६ ॥
गोपी कदाचिन्मणिपिञ्जरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनन्दकन्द व्रजचन्द्रकृष्ण
गोविन्द दामोदर माधवेति ॥ २७ ॥
गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम्
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ॥ २८ ॥
प्रभातकाले वरवल्लवौघा गोरक्षणार्थं
धृतवेत्रदण्डाः ।
आकारयामासुरनन्तमाद्यं गोविन्द
दामोदर माधवेति ॥ २९ ॥
लाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥ ३० ॥
अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं
मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि गोविन्द
दामोदर माधवेति ॥ ३१ ॥
कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद्वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये गोविन्द
दामोदर माधवेति ॥ ३२ ॥
सरोवरे कालियनागबद्धं शिशुं
यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥ ३३ ॥
अक्रूरयाने यदुवंशनाथं संगच्छमानं
मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥ ३४ ॥
चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३५ ॥
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ गोविन्द
दामोदर माधवेति ॥ ३६ ॥
वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वातिभयादवोचद्गोविन्द दामोदर माधवेति ॥ ३७ ॥
सुखं शयाना निलये निजेऽपि नामानि
विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ ३८ ॥
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३९ ॥
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि गोविन्द
दामोदर माधवेति ॥ ४० ॥
आत्यन्तिकव्याधिहरं जनानां
चिकित्सकं वेदविदो वदन्ति ।
संसारतापत्रयनाशबीजं गोविन्द
दामोदर माधवेति ॥ ४१ ॥
ताताज्ञया गच्छति रामचन्द्रे
सलक्ष्मणेऽरण्यचये ससीते ।
चक्रन्द रामस्य निजा जनित्री
गोविन्द दामोदर माधवेति ॥ ४२ ॥
एकाकिनी दण्डककाननान्तात् सा
नीयमाना दशकन्धरेण ।
सीता तदाऽऽक्रन्ददनन्यनाथा गोविन्द
दामोदर माधवेति ॥ ४३ ॥
रामाद्वियुक्ता जनकात्मजा सा
विचिन्तयन्ती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि गोविन्द
दामोदर माधवेति ॥ ४४ ॥
प्रसीद विष्णो रघुवंशनाथ सुरासुराणां
सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ ४५ ॥
अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्ट
समस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥ ४६ ॥
हंसध्वजः शङ्खयुतो ददर्श पुत्रं
कटाहे प्रपतन्तमेनं ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥ ४७ ॥
दुर्वाससो वाक्यमुपेत्य कृष्णा
साचाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ४८ ॥
ध्येयः सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजातः
कस्तूरिकाकल्पितनीलवर्णो गोविन्द
दामोदर माधवेति ॥ ४९ ॥
संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे
विषयाभितप्ते ।
करावलंबं मम देहि विष्णो गोविन्द
दामोदर माधवेति ॥ ५० ॥
त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥ ५१ ॥
भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञं ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥ ५२ ॥
गोपाल वंशीधर रूपसिन्धो लोकेश
नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥ ५३ ॥
जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि गोविन्द
दामोदर माधवेति ॥ ५४ ॥
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द दामोदर माधवेति ॥ ५५ ॥
सुखावसाने त्विदमेव सारं दुःखावसाने
त्विदमेव गेयं ।
देहावसाने त्विदमेव जाप्यं
गोविन्द दामोदर माधवेति ॥ ५६ ॥
दुर्वारवाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथञ्चित् ।
सभां प्रविष्टा मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ५७ ॥
 
श्रीकृष्ण राधावर गोकुलेश गोपाल
गोवर्धननाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५८ ॥
श्रीनाथ विश्वेश्वर विश्वमूर्ते
श्रीदेवकीनन्दन दैत्यशत्रो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५९ ॥
गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते
केशव वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६० ॥
गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६१ ॥
प्राणेश विश्वंभर कैटभारे वैकुण्ठ
नरायण चक्रपाणे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६२ ॥
हरे मुरारे मधुसूदनाद्य श्रीराम
सीतावर रावणारे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६३ ॥
श्रीयादवेन्द्राद्रिधराम्बुजाक्ष
गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६४ ॥
धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६५ ॥
बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६६ ॥
श्रीजानकीजीवन रामचन्द्र निशाचरारे
भरताग्रजेश ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६७ ॥
नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर
हे कृपालो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६८ ॥
लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६९ ॥
श्रीकृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७० ॥

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो
जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७१ ॥
                     
Go to Table of Contents/Master index of Postsprramamurthy1931.blogspot.in/krishna01

SRI KRISHNA SAHASRANAMA STOTRA -I

 श्रीकृष्णसहस्रनामस्तोत्रम्
ध्यान श्लोकाः
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् |
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत्॥१॥
क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले।
कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः॥२॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे॥३॥
श्री कृष्णसहस्रनामस्तोत्रम्
कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥१॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः॥२॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्॥३॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥४॥
वसुधायासहरणो नारदप्रेरणोन्मुखः।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः॥५॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान्॥६॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत्।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः॥७॥
वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः।
आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः॥८॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः॥९॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥१०॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥११॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥१२॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥१३॥
महर्षिमानसोल्लासो महीमंगलदायकः।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥१४॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः।
पितृपाणिपरिष्कारो मोहितागाररक्षकः॥१५॥
स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः।
शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः॥१६॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः॥१७॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः॥१८॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः।
अलिकनिद्रोपगमः पूतनास्तनपीडनः॥१९॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः॥२०॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः।
बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः॥२१॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः॥२२॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥२३॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥२४॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः॥२५॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥२६॥
घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥२७॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः॥२८॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥२९॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः।
नवनीतमहाचोरो दारकाहारदायकः॥३०॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥३१॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः।
परागधूसराकारो मृद्भक्षणकृतेक्षणः॥३२॥
बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः॥३३॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥३४॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥३५॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः।
दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः॥३६॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥३७॥
दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥३८॥
नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः।
धनदात्मजसंघृष्टो नन्दमोचितबन्धनः॥३९॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥४०॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥४१॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः।
वृषवत्सानुकरणो वृषध्वानविडंबनः॥४२॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्॥४३॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः।
बली बकासुरग्राही बकतालुप्रदाहकः॥४४॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः॥४५॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः॥४६॥
कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥४७॥
गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत्।
वन्याशनप्रियश्शृंगरवाकारितवत्सकः॥४८॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः॥४९॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः॥५०॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः।
व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः॥५१॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः॥५२॥
भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः।
वामपाणिस्थदध्यन्नकबलः कलभाषणः॥५३॥
अंगुल्यन्तरविन्यस्तफलः परमपावनः।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा॥५४॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥५५॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक्।
यथावत्सक्रियारूपो यथास्थाननिवेशनः॥५६॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी।
चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥५७॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः॥५८॥
ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः॥५९॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक्।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्॥६०॥
            
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥६१॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः।
सकलावरणोपेतस्सर्वदेवो महेश्वरः॥६२॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः।
कृष्णयादवगोपालो गोपालोकनहर्षितः॥६३॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः॥६४॥
बलभद्रैकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्॥६५॥
वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः॥६६॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः॥६७॥
तालीवनकृतक्रीडो बलपातितधेनुकः।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः॥६८॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः।
प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः॥६९॥
विलासललितस्मेरगर्भलीलावलोकनः।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥७०॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः॥७१॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः।
कालियाहिफणारंगनटः कालियमर्दनः॥७२॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत्।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः॥७३॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः॥७४॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः॥७५॥
अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥७६॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिंगननिर्वृतः॥७७॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः॥७८॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान्।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः॥७९॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान्।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥८०॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः।
नटवेषधरः पद्ममालांगो गोपिकावृतः॥८१॥
गोपीमनोहरापांगो वेणुवादनतत्परः।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः॥८२॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः॥८३॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः॥८४॥
रागपल्लवितस्थाणुर्गीतानमितपादपः।
विस्मारिततृणग्रासमृगो मृगविलोभितः॥८५॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः।
गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः॥८६॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः।
शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः॥८७॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः॥८८॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत्।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः॥८९॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥९०॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः।
शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः॥९१॥
गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली॥९२॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः॥९३॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥९४॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥९५॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः।
शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः॥९६॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः॥९७॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥९८॥
स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः॥९९॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः।
धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः॥१००॥

                       

SRI KRISHNALILAVARNANA STOTRAM

कृष्णलीलावर्णनस्तोत्रम्
भूपालच्छदि
दुष्टदैत्यनिवहैर्भारातुरां दुःखितां 
भूमिं दृष्टवता सरोरुहभुवा
संप्रार्थितः सादरं ।
देवो भक्त-दयानिधिर्यदुकुलं
शेषेण साकं मुदा 
देवक्या: सुकृताङ्कुरः
 सुरभयन् कृष्णोऽनिशं पातु
वः॥१॥
May BhagavAn SRee-KR^shNa protect You
all — that KR^shNa who was prayed to with deep respect (to incarnate on the
Earth) by BrahmadEva who had seen Goddess Earth suffering deep distress by
bearing the burden of evil asura-s who had been born on the earth in the guise
of Royalty.
May BhagavAn SRee-KR^shNa protect You
all — that KR^shNa who is an ocean of kindness for His bhakta-s and who took
birth with the serpent deity SEsha in the Yadu clan which was made famous by
that birth and who was born as the budding result  of SRee-dEvakee’s accumulated
merit (PuNNyam) ( as Her son).
[This is a blessing prayer by the anonymous
poet offered for the readers’ benefit.]
जातः कंसभयाद् व्रजं गमितवान् पित्रा
शिशु: शौरिणा 
साकं पूतनया तथैव शकटं वात्यासुरं चार्दयन्  ।
मात्रे विश्वमिदं प्रदर्श्य वदने निर्मूलयन्नर्जुनौ 
निघ्नन् वत्सबकाघनामदितिजान् कृष्णोऽनिशम् पातु वः ॥२॥
May BhagavAn SRee-KR^shNa protect You all —
that KRshNa who was taken to VRajam by His father VasudEva (soon after birth)
because of the fear that His uncle Kamsa might kill Him — that BhagavAn who
destoryed demons such as PootanA, SakaTa, and tR^NAvaRta (when they tried to
attack Him).
May BhagavAn SRee-KR^shNa protect You all —
that KR^shNa who showed the whole universe contained inside His mouth to His
mother (who wanted just to check if He had reportedly eaten mud) and who broke
the two huge aRjuna trees and later in three encounters destroyed demons who
came to attack Him disguised as a calf, a crane, and a python.  
ब्रह्माणं भ्रमयंश्च धेनुकरिपुर्निर्मर्दयन् काळियं 
पीत्वाग्निं स्वजनौघघस्मरशिखम् निघ्नन् प्रलम्बासुरम्  |
गोपीनां वसनं  हरन्द्विजकुलस्त्रीणां च मुक्तिप्रदो 
देवेन्द्रं दमयन्करेण गिरिधृक् कृष्णोऽनिशं पातु वः  ॥३॥
May BhagavAn SRee-KR^shna protect You
all —  that BhagavAn who  caused some nervousness in BrahmadEva
once; who destroyed the demon named dhEnuka;  who brought
KALiya’s arrogance and evil actions under control; who drank and swallowed
the forest fire that attempted to burn BhagavAn’s relatives to ashes; who
destroyed the demon named PRalamba; who stole the clothes of the (bathing)
GOpika-s; who gave MOksham to the women of the BrahmaNa clan; and who brought
Indra under control by lifting up the GOvaRddhana mountain to protect the
GOkulam from rain.
इन्द्रेणाशुकृताभिषेक
उदधेर्नन्दं तथा पालयन् 
क्रीडन् गोपनितम्बिनीभिरहितो नन्दस्य मुक्तिं दिशन् ।
गोपी-हारक–शङ्खचूड मदहृन्निघ्नन्नरिष्टासुरं 
केशिव्योमनिशाचरौ  च
बलिनौ कृष्णोऽनिशम् पातु
वः॥४॥              
 
May BhagavAn SRee-KR^shNa protect You
all —  that BhagavAn who was ritually anointed by dEvEndra
 (whose arrogance had been removed at the miracle
of GOvaRddhanOddharaNam) by sacred waters ;who was  able to protect SRee-nanda-gOpa from the
ocean;who performed the sacred rAsa-kReeDa with the GOpa-clan’s
beautiful young women; who saved SRee-nanda-gOpa from a serpent;  who destroyed the arrogance of San*khachooDa
who had stolen GOpika-s and who annihilated the powerful demons
named KESi, VyOma, and arishTa.
अक्रूराय निदर्शयन्निजवपुर्निर्णेजकं चूर्णयन् 
कुब्जां सुन्दर-रूपिणीं विरचयन् कोदण्डमाखण्डयन् ।
मत्तेभम् विनिपात्य दन्तयुगलीं उत्पाटयन्मुष्टिभिः 
चाणूरं सहमुष्टिकं
विदलयन्कृष्णोऽनिशं पातु वः ॥५॥
May BhagavAn KR^shNa who performed all
the following miraculous feats protect You all: Revealed His cosmic form to
SRee akRoora; Destroyed the evil washerman(in the city of MathurA who was an
agent of Kamsa);Turned the disabled KubjA into a pretty woman; Broke the bow at
the martial arts tournament at Kamsa’s palace; Felled the elephant in rut
(placed at the gate by Kamsa to kill KR^shNa) and pulled out his tusks and using
His fists defeated and crushed the evil wrestlers ChANoora and MushTika.
नीत्वा मल्लमहासुरान् यमपुरीं निर्वर्ण्य दुर्वादिनं 
कंसं मञ्चगतं
निपात्य तरसा पञ्चत्वमापादयन्।  
 
तातं मातरमुग्रसेनमचिरान्निर्मोचयन्बन्धनात् 
राज्यं तस्य दिशन्नुपासितगुरुः कृष्णोऽनिशं पातु
वः ॥६॥
May  BhagavAn SRee-KR^shNa protect
You all —  that Lord KR^shNa who sent terrible demons such as Malla to
their death; who cast an angry look at Kamsa who was used to giving evil orders
and was sitting on his balcony; who pulled him down quickly and destroyed him;
who without any delay freed His own mother and father and UgrasEna from bondage
in Kamsa’s prison; who returned the kingdom to its rightful king UgrasEna; and
who then went to Maharshi sAndeepani’s ASRam as a student and paid respects to
Him and acquired learning.
हत्वा पञ्चजनं मृतं च गुरवे
दत्वा सुतं मागधं 
जित्वा तौ च सृगालकालयवनौ
हत्वा च निर्मोक्षयन् ।
पातालं मुचुकुन्दमाशु महिषीरष्टौ स्पृशन् पाणिना 
तं हंसं डिभकं निपात्य
मुदितः कृष्णोऽनिशं पातु वः ॥७॥
Lord SRee-KR^shNa destroyed Pan^chajana,
the conch-shaped demon; He resurrected His Guru’s son who had died and gave the
boy to the Guru as a GurudakshiNa;  defeated the evil King
JarAsanddha of Magadha;  He destroyed the evil sR^gAla and KAla-yavana;
protected Muchukunda well and gave him MOksham;  He married 8 wives
(SRee-rugmiNi, SRee-satyabhAmA, etc.);  He annihilated the demonic Hamsa
and Dibhaka, and  rejoiced (in all these  feats of valor and
compassion to promote dhaRma).  May that BhagavAn protect You all!!
घण्टाकर्णगतिं वितीर्य कलधौताद्रौ गिरीशाद्वरं 
विन्दन्नङ्गजमात्मजं च
जनयन्निष्प्राणयन्पौण्ड्रकम् ।
दग्द्ध्वा काशिपुरीं
स्यमन्तकमणिं कीर्त्या
स्वयं भूषयन् 
कुर्वाणः शतधन्वनोऽपि निधनं कृष्णोऽनिशं पातु वः ॥८॥
May BhagavAn SRee-KR^shNa protect You
all–that BhagavAn who blessed GhaNTAkaRNa and gave him mOksham; who
gained boons from Lord Siva on the KailAsa mountain; who had KAmadEva born as
His son (PRadyumna); who destroyed PouNDRaka; who burned the city of KASee
(using sudaRSanam); who (destroyed the rumors around the
jewel syamantakam and Himself and) increased His own and the jewel’s
good fame; and who annihilated the evil Sata-dhanvA (for preserving dhaRma and
protecting His devotees). 
भिन्दानश्च मुरासुरं च नरकं
धात्रीं नयन्स्वस्तरुं 
षट्साहस्रयुतायुतं परिणयन्नुत्पादयन्नात्मजान्
पार्थेनैव च
खण्डवाख्यविपिनं निर्द्दाहयन्मोचयन् 
भूपान्बन्धनतश्च चेदिपरिपुः
 कृष्णोऽनिशं पातु
वः ॥९॥
May You
all be protected by BhgavAn SRee-KR^shNa, who destroyed the demons named Mura
and naraka;  who brought down ParijAtam, the celestial tree,  down to the earth; who married 16,000 young
women (who had been imprisoned by the demonic narkAsura); who created sons and
daughters with those ladies; who burned down the KhANDava forest with the help
of Prince-aRjuna; and who freed many kings from prisons and killed SiSupAla, the criminal king of ChEdi.
कौन्तेयेन  च
कारयन्क्रतुवरं सौभं च
 निघ्नन्नृगं 
खातादाशु विमोचयंश्च  द्विविदं निष्पीडयन्वानरम् ।
छित्वा बाणभुजान् मृधे च
गिरिशं जित्वा गणैरन्वितं
दत्वा वत्कलमन्तकाय मुदितः कृष्णोऽनिशं पातु वः ॥१०॥ 
May You all be protected by BhagavAn
SRee-KR^shNa who helped King YudhishTTHira to perform the most sacred YAga-s;
who killed King sAlva also known as soubha; who gave mOksham to the
good soul nR^ga (who had been turned into a chameleon and had fallen into a
deep well); who destroyed the evil VAnara Vivida; who cut off all the hands of
BANAsura in battle; who defeated Lord Siva and His Bhoota-gaNam in
battle;  who sent VatkalAsura to his death and who became joyful (by
performing His avatAra-dhaRma).
कौन्तेयैरुपसंहरन्वसुमतीभारं कुचेलोदयं
कुर्वाणोपि च रुग्मिणं विदलयन्संतोषयन्नारदम् ।
विप्रायाशु
समर्पयन्मृतसुतान्कालिङ्गकं कालयन् 
मातुः
षट्तनयान्प्रदर्श्य सुखयन् कृष्णोऽनिशं पातु वः॥११॥
May You all be protected by BhagavAn
SRee-KR^shNa who helped the royal PANDava-s to eliminate evil kings thereby
reducing the burden on the Goddess Earth;  who created wealth and
prosperity for the poor KuchEla BrAhmaNa; who destroyed the evil Rugmi; who
brought back the nine dead children of a BrAhmaNa from VaikuNTTHam; who sent
the evil king of Kalin*gam to the world of Yama; and who pleased His mother
SRee-dEvaki by showing Her the six children of Hers who had been killed by
Kamsa.
अद्धा बुद्धिमदुद्धवाय
विमलज्ञानं मुदैवादिशन् 
नानानाकिनिकायचारणगणैरुद्बोधितात्मा स्वयम् ।
मायां मोहमयीं विधाय
विततां उन्मूलयन्स्वं कुलं
देहं चापि पयस्समुद्रवसतिः
कृष्णोऽनिशं
पातु वः  ॥१२॥
May You all be always protected by
BhagavAn SRee-KR^shNa, who, in a miraculous way performed all the following
feats: He revealed the supreme spiritual knowledge to SReemad-uddhava
Bhagavadpaada  and was informed through His own mind by groups of
celestial beings such as Gods, ChAraNas, etc. (that it was time for
svaRgArOhaNam = ascent to the divine world).  He created His own
magnificent power of MAya and through it destroyed His own YAdava clan.
 And BhagavAn gave up His physical body and returned to (VaikuNTTHam on)
the divine Ocean of Milk (after all His incarnational goals had been
fulfilled).
Phala-SRuti  =  Merits of
Reading/Reciting/Singing this Hymn (given below)
कृष्णाङ्घ्रिद्वयभक्तिमात्रविगळत्सारस्वतश्लाघकैः 
श्लोकैर्द्वादशभिः समस्तचरितं संक्षिप्य
सम्पादितम् ।
स्तोत्रं कृष्णकृतावतारविषयं सम्यक्पठन्  मानुषो 
विन्दन्कीर्तिमरोगतां च कवितां विष्णोः पदं यास्यति॥१२॥
Anyone who reads or recites or sings
this hymn written in an abridged way on the topic of BhagavAn KR^shNa’s
incarnation on the earth — any literary merit (sarasvatee-pRsAdam) in it
flows out of KR^shNa-bhakti–  will attain good fame, good health, and
creative fulfilment.  He or she will then, in he afterlife, will reach
BhagavAn’s feet in VaikuNTTHam.
[Text in Devanagari and  English translation sourced from Sri D K
Mohanachandran Kartha. This beautiful hymn is from an anonymous author]

NAVANITAKRISHNA STAVAM

                                       नवनीतकृष्णस्तवः
सञ्चितयामि गुरुवायुपुरेश, नाद-
   ब्रह्मात्मिकां
मुरलिकामुपसन्दधानम्।
प्रेमात्मकं च नवनीतमुदावहन्तं
   
योगद्वयीसुखसमन्वयिमन्दहासम् ॥१॥         
पिञ्छाञ्चलाञ्चितमणीमुकुटाभिरामं
   लोलालकान्तललितालिकसन्निवेशम्।
चिल्लीलतामृदुविलासविशेषरम्यं
    कारुण्यवर्षिनयनान्तमुपाश्रये
त्वाम्॥२॥
रक्ताधरप्रसृतसुन्दरमन्दहासं
   गण्डस्थलप्रतिफलन्मणिकुण्डलाढ्यम्
ईषत्स्फुरद्दशनमुग्धमुखारविन्दं
   त्वामाश्रये सुमधुरं
नवनीतकृष्णम्॥३॥
त्वां द्वीपिदिव्यनखभूषणचारुवत्सं
    वंशीविराजितविमोहनवामहस्तम्।
हैय्यङ्गवीनभृतदक्षिणपाणिपद्मं
     भक्तप्रियं परिभजे नवनीतकृष्णम्॥४॥
उद्दीप्तकान्तिविलसन्मणिकिङ्किणीकं
    पीताम्बरावृतमिदं
भवदीयमध्यम्।
चित्ते चकास्तु भगवन् नवनीलरत्न-
     स्तम्भाभमूरुयुगलं
च हरे नमस्ते ॥५॥
जानुद्वयं सुमधुराकृतिरम्यरम्यं
   वृत्तानुपूर्वललिते
तव जङ्घिके च।
मञ्जीरमञ्जुलतमं प्रपदं मुनीन्द्र-
    वृन्दार्चितं
च चरणं हृदि भावयेऽहम्॥६॥
मज्जीविताब्धिमथनेन भवत्प्रसादा-
   ल्लब्धं विभो सुमधुरं
नवनीतमल्पम्।
त्वत्प्रेमरूपममृतं परिकल्पयामि
   नैवेद्यकं, मयि
कुचेलसख, प्रसीद! ॥७॥
श्रीमारुतालयपते, नवनीतकृष्ण,
    त्वामेव सत्यशिवसुन्दररूपमेकम्।
योगीन्द्रवन्दितविशुद्धपदारविन्दं
   तापत्रयैकशमनं
शरणं प्रपद्ये ॥८॥
(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)

PREMASAYUJYAM

                              प्रेमसायुज्यम्
कृष्णे गोकुलवासमुज्झितवति प्रोद्यद्वियोगाकुला
   गोप्यस्तत्स्मरणामृतैकशरणा निन्युः सुदीर्घाः समाः।
पश्चादेत्य समन्तपञ्चकमहातीर्थं कदाचित् प्रियं
    दृष्ट्वा ताः किल किञ्चिन्नाञ्चितहृदः कामप्यवस्थां दधुः॥१॥
विख्यातप्राभवोऽसौ सकलमुनिनृपाराधितो नन्दसूनु-
   र्गोपीस्ता मन्दहासप्रसरसुमधुरं पूर्ववन्मानयित्वा ।
 नीत्वा ताभिः समेतः कतिपयदिवसांस्तत्र ताभ्यो ददौ तां
   शान्तिं योगीन्द्रकाम्याममृतरसमयीं भक्तिमार्गैकगम्याम् ॥२॥
  
                खण्डः  १
तत्र गोपिकाशतसमावृतं तरुतले स्थितं श्यामसुन्दरम्।
चक्षुषा पिबन्त्यात्मना जगौ दूरसंस्थिता कापि गोपिका ॥१॥
“कथमिहास्मि हा कथमिहागतो मधुरदर्शनो
नन्दनन्दनः।
विविधभावसम्मर्दनिस्सहं स्फुटति हा हरे ममकं मनः ॥२॥
मूकरागिणीं मां परीक्षितुं व्यतिकरोऽयमुत्पादितस्त्वया।
तृषितया दृशा त्वां पिबाम्यहं वर्धते विभो, द्विगुणिता तृषा ॥३॥
धन्यजीवितास्ते सखीजना ये ह्ययन्त्रितास्त्वामुपासते।
सहजमुग्धतासन्नियन्त्रिता हा!
हताऽस्म्यहं मन्दगामिनी॥४॥
परिसमर्पयन्त्यात्मजीवितं किमु पतामि ते नाथ पादयोः।
कमपि ते करस्पर्शमाप्नुयां शिरसि मामके शान्तिदायकम् ॥५॥
अहह! साहसं
साहसं त्विदं, मम न शोभनं धृष्टचेष्टितम्।
क्व च भवान् विभुर्विश्वपूजितः?
क्व च वराकिका गोपदारिका?
॥६॥
               खण्डः  २
अयि पुरा हरे, यामुने तटे भवदनुष्ठिते चेलचोरणे।
तव नियोगतस्त्वामुपागता गोपबालिकास्ता दिगम्बराः॥१॥
आगलं जले स्थितवतीं तदा मां विलोकयन् दूरतो भवान्।
स्मितमदात्; प्रभो संस्मराम्यहं; स्मरसि
किं हरे, तादृशीमिमाम्॥२॥
वेणुगानमाकर्ण्य तावकं विश्वमोहनं वल्ल्वीजनाः।
त्वामुपाययुः दूरतः स्थिता केवला त्वहं त्वां व्यलोकयम्॥३॥
वेणुनालिकाचुम्बिताधरं गोपिकाशतैरावृतं मुदा।
दूरतोऽपि मय्यर्पितेक्षणं संस्मरामि  ते
तत् स्थितं हरे!॥४॥
रासखेलने नाहमागता केवलं गृहे ध्यानमास्थिता।
तन्वती सुखं नर्तनं त्वया साकमान्तरे रासमण्डले॥५॥
नो कदाऽपि मां नन्दनन्दनो ज्ञातवानभिज्ञातवानपि।
नास्ति तादृशं सौभगं च मे नास्ति चात्मनि प्रौढचातुरी॥६॥
हा! कदाऽपि
ते सेवनोद्यता नाहमागता त्वत्पदान्तिकम् ।
त्रासविह्वला लज्जयाऽऽकुला;
मां कथं भवान् संस्मरिष्यति॥७॥
     
                
खण्डः  ३
व्रजनिवासमुत्सृज्य गच्छतस्तव रथः क्षणं मद्गृहान्तिके।
निश्चलोऽभव;त्तत्र चाभवं स्तम्भसंश्रिताऽलिन्दसंस्थिता॥१॥
अभ्यषिञ्चदाहन्त!
मां प्रभो स्निग्धया दृशा सस्मितं भवान्।
विगलितं तदा केलिपङ्कजं तव कराम्बुजा; न्नन्वलोकयम्॥२॥
हा न्यशामयं ते मुखं तदा विधुरदर्शनं म्लानसुस्मितम्
मधुरवेदनाविद्युदाहता प्रलयमागता कतिपयक्षणान् ॥३॥
सुमधुरं भवन्नाम गृह्णती त्वां विलोकयन्त्येव सर्वतः।
त्वयि मम प्रिये लीनमानसा विरहवेदनां नाविदं चिरम्॥४॥
अहह! भावनावञ्चिताऽस्म्यहं; कृष्णचेष्टितं नैव मत्परं।
विलसितं हरेः सहजमोहनं मुग्धया मया ज्ञातमन्यथा ॥५॥
“त्वां स्मराम्यहं” – किं न्विदं मया श्रूयते मदीयान्तरात्मनि?।
मधुरभाषणं तावकं हरे,
जीवनामृतं खलु पिबाम्यहम् ॥६॥
                       खण्डः  ४
श्यामसुन्दर, त्वां विलोकये निर्निमेषकं दूरतः स्थिता।
मधुरदर्शनं मुग्धसुस्मितं मदनमोहनं मन्मनोहरम् ॥१॥
अयि महाप्रभो, त्वां विलोकयन्त्यधिगताऽस्म्यहं पूर्णकामताम्।
मम हि चेतना हर्षविह्वला यातुमिच्छतीवोपगूहितुम् ॥२॥

प्रिय, दयामयी
दृष्टिरद्य ते निपतति स्वयं मय्यपि क्षणम्।
अमृतधारया संप्लुताऽस्म्यहं स्पन्दतेतरां मामकं मनः ॥३॥
हन्त! मां
प्रति प्रस्थितो भवान् प्रियसखीः समुत्सृज्य गोपिकाः।
अभयमुद्रया सान्त्वयन्निमां द्रुतपदं हरे, किं समेष्यसि?॥४॥
हा! समागतो
मत्समीपतः प्रियतमो भवान् कृष्ण, तिष्ठति।
किं प्रभाषसे मां वराकिकां?
स्फुरति तेऽधरं पल्लवारुणम् ॥५॥
“सखि, जितं त्वया; प्रेमधाम तत् परममद्वयं प्राप्तवत्यसि”
इति भवद्गिरं शान्तिदायिनीममृतवाहिनीं हा! पिबाम्यहम् ॥६॥
सदयलोचने मधुरसुस्मिते तव मुखाम्बुजे मत्पुरोगते।
चिरमुपोषितां निदधती दृशं नाथ,
याम्यहं नित्यनिर्वृतिम्
“॥७॥
रुद्धा वाग्, दृढनिश्चला समभवद्‍दृष्टिः, प्रसन्नं मुखं, ।
निष्पन्दं हृदयं च,
सा व्रजवधूः सम्प्राप धन्यां गतिम् ॥८॥
तेजो देहसमुत्थितं निरुपमं तस्याः पुरःस्थे तदा ।
कृष्णे लीनमभूत्; स चापि भगवांस्तस्थौ क्षणं निश्चलः॥९॥       
(Source: ‘Bhaktitarangini’ by Prof. P.C. Vasudevan
Elayath, Published by Kerala Sanskrit Akademi)
         

GURUVAYUPURESA KESADIPADA SHRVANAMRUTAM

केशादिपादश्रवणामृतम्
शबलशिखण्डिशिखण्डकमण्डितहाटकरत्नकिरीट, हरे,
विलुलितमञ्जुतरालकरञ्जितमञ्जुलफालककान्तिनिधे, ।
मुरहर, कुङ्कुमसङ्कलनाङ्कितपुण्ड्रकमण्डनहास, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥१॥
ललितविलासविशेषविमोहनचिल्लि,
दयामृतसल्लहरी-
लुलितविभङ्गमभङुरभङ्गि,
तवाङ्गविलोलविलोचनकम्।
मिलितलसन्मणिकुण्डलमण्डितगण्डतलं च सदा कलये
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥२॥
तिलकुसुमोपमनासिकया परिशोभितमाननतामरसं
विकसितकुन्दविहासिविहासलसन्मधुराधरकान्ततरम्।
मुनिजनमानसहंसनिरन्तरसेवितमन्तरुदेतु सदा
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥३॥
कलमुरलीमधुरश्रवणामृतपूरकपूरकपूरककम्बुवरं
ललिततनो तव कण्ठमकुण्ठमनोहरहारविहारपदम्।
गलितभवज्वरतान्तिभरे हृदि शान्तिधरे कलयेय हरे;
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥४॥
विपुलमिदं वनमालिकयाऽञ्चितमञ्जनवर्ण, सुवर्णमणी-
महितविभूषणभूषितपावनवत्सविशोभितवत्सपदम्।
मनसि चकास्तु मुनिस्तुतविस्तृतकौस्तुभनिस्तुलकान्तियुतम्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥५॥
कमलगदारिदराङ्कितदोष्कचतुष्कवितीर्णपुमर्थतते
कृशमुदरं निखिलाण्डनिधानमखण्डमहाद्भुतमाकलये।
अनलसुतप्तसुवर्णसवर्णनवाम्बरसुन्दररूप्, हरे
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥६॥
पृथुकदलीमृदुलोरुवरं, पुरुषार्थसमुद्गकजानुयुगं
शिखिगलकोमलजङ्घमृषीश्वरनम्यनवाम्बुजरम्यपदम् ।
अयि नरकान्तक, कान्तमिदं तवरूपमनन्त, हृदि
स्फुरतात्
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥७॥
जय जय दुर्जयनिर्जरवैरिजयार्जितनिर्जरकीर्तितते।
जय जय वञ्जुलमञ्जुनिकुञ्जसमञ्जसखेलनलोलमते,।
जय जय धर्मसमुद्धरणोद्‍धुर, शर्मविधायककर्मगुरो,
जय जय हे गुरुवायुपुरेश्वर,
भक्तमहेश्वर, विश्वपते!॥८॥
(Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)

SRI GURUVAYUPURESHA SUPRABHATAM

           श्रीगुरुवायुपुरेशसुप्रभातम्
श्यामाभिरामशरणीकरणीयमूर्ते
   कामानुरूपफलदामितपुण्यकीर्ते।
सीमाविहीनकरुणामृतदिव्यसिन्धो
    श्रीमारुतालयपते, तव
सुप्रभातम्॥१॥
उन्मीलयस्व भगवन्,
नयनारविन्द-
    माकेकरातिमधुराकृति मन्दमन्दम्।
लक्ष्मीरुपैति ननु काल्यमयी भवन्तं
     श्रीमारुतालयपते, तव
सुप्रभातम्॥२॥
पश्याऽप्लुता हिमजले विमलाम्बरैषा
     तारासुमानि दधती वियदब्जपत्रे।
सन्तिष्ठते भवदुपासनजागरूका
     श्रीमारुतालयपते, तव
सुप्रभातम्॥३॥
 
अभ्यङ्गपूर्वकमनन्त,  तवाभिषेक-
   पुण्योत्सवं नयनगोचरतां निनीषुः।
भक्तव्रजोऽत्र भरितोत्सुकभावमास्ते
   श्रीमारुतालयपते, तव
सुप्रभातम्॥४॥
तैलाभिषेकविमलीकृतनीलकान्ति-
   स्त्वं भूषणैः कतिपयैः परिशोभिताङ्गः।
विभ्राजसे ललितशैशववेषधारी
   श्रीमारुतालयपते, तव
सुप्रभातम्॥५॥
भक्तावली विगलितस्तुतिगीतिभिन्न-
  घण्टानिनादपरिपूतदिगन्तरालम्।
क्षेत्रं विभाति तव दीपसहस्रदीप्रं
  श्रीमारुतालयपते, तव
सुप्रभातम्॥६॥
पूजाविधानमघनाशनमौषसं ते
   द्रष्टुं समुत्सुकधियः पुलकाञ्चिताङ्गाः।
तिष्ठन्ति भक्तनिवहाः मुकुलत्कराब्जाः
   श्रीमारुतालयपते, तव
सुप्रभातम्॥७॥
उद्घाटिते च पुरतो भवतो निकेत-
   द्वारे क्वणन्मधुरघण्टमखण्डधामन्।
वीक्षामहे विमलकोमलविग्रहं त्वां
   श्रीमारुतालयपते, तव
सुप्रभातम्॥८॥
ढक्कानिनादमधुराष्टपदीमनोज्ञ-
   गानानुरञ्जितमुदञ्चितभक्तवृन्दम्।
वैकुण्ठमन्यदिदमेत्य विभो विभासि
   श्रीमारुतालयपते, तव
सुप्रभातम्॥९॥
धन्या वयं भवदुपाश्रयमेव याता
   मन्यामहे जनिफलं समवाप्तमद्य।
नाऽन्या गतिस्त्वमसि देहभृतां चिदात्मन्
  श्रीमारुतालयपते, तव सुप्रभातम्॥१०॥
जयति जयति नित्यं देवकीपुण्यकन्दं
जयति जयति साक्षात् ब्रह्म साकारमेकम्।
जयति जयति शान्तं सुन्दरं धाम मुख्यं
जयति जयति भाग्यं हन्त भाग्यं जनानाम्॥
 (Source:
‘Bhaktitarangini’ by Prof. P.C. Vasudevan Elayath, Published by Kerala Sanskrit
Akademi)