विष्णुलहरी-३

मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव माम् अपहाय मुञ्चतः करुणा किं[3b] न भिनत्ति मानसम् ॥२१॥

निरुपाधिजनार्त्तिहारिणं भगवंस्त्वाम् अवबुद्ध्य तत्त्वतः ।
कृतपुण्यरसावलेहनं[कृतपुण्यचयावहेलनं] कथम् अब्जेक्षण माम् उपेक्षसे ॥२२॥

सततं निगमेषु शृण्वता वरद त्वां पतितानुपावनम् ।
उरुपापम् उपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥२३॥

सुकृतं न कृतं पुरा कदाप्यथ सर्व्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥२४॥

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम् ।
धृतशा[4a]र्ङ्गदासिनन्दक(धृतशार्ङ्गगदासिनन्दक) प्रतिकर्षन्ति कथं न बुद्धसे(लज्जसे) ॥२५॥

अपि गर्त्तमुखे गतः शिशुः पथिकेनापि निवार्य्यते जवात् ।
जनकेतपतन्(जनकेन पतन्) भवार्णवेन(भवार्णवे) न निवार्य्यो भवता कथं विभो ॥२६॥

सुकृतप्रिय इत्यथास्तु ते सुकृतिभ्यः सुखदश्च सुप्रथाः ।
अपि पापमबिभ्रतस्तु मां तव विश्वम्भर नाम दुर्ल्लभम् ॥२७॥

वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोसि मे ।
मुखरं कृतकोटिकल्मषं करुणाब्द्धे जगतोपसारय ॥२८॥

यदि वीक्ष्य द[4b]दासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं तदा परितुष्यन् शिरसा वहामि तत् ॥२९॥

पतितोप्यतिदुर्ग्गुणोपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरय[यं]स्त्वया दयनीयस्त्रपनीयकेवलम्[दयनीयस्त्रपयैव केवलम्] ॥३०॥

विष्णुलहरी-२

पुरातनानां वचसाम् अगोचरं
महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती
सती मतिर्म्मे कथमन्यमेष्यति ॥११॥

न जाग्रति स्वप्नदशान्तरेपि वा
परं विजाने तव पादपकङ्जात् ।
इति स्म सत्यं यदि भाषितं मया
कदा जगन्नाथ(य)क माम् उरीकुरु ॥१२॥

इति दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥१३॥

सुमहन्ति जगन्ति बिभ्रतः तव यो नाविरभू[2b]त् मनागपि ।
स कथं परमात्म देहिनः परमाणोर्म्मम धारणे श्रमः ॥१४॥

नितरां विनयेन पृच्छते सुविचारोत्तमयच्छ(सुविचार्य्योत्तरमत्र) यच्छ मे ।
करितो गिरितोप्यहं गुरुः त्वरितो नोद्धरसे यदाद्य(यदद्य) माम् ॥१५॥

न धनं न च राज्यसम्पदं न हि विद्याम् इदमेकमर्त्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥१६॥

अयमत्यधमोपि दुर्ग्गुणो दम(य)नीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयतीह चन्दनः ॥१७॥

क्षुधितस्य न[3a] हि त्रपास्ति मे प्रतिपथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्कयशस्करं न ते भवदीयोपि यदन्यमृच्छति ॥१८॥

नितरां नरकेपि सीदतः किमु हीनं गलितत्रपश्(स्)य मे ।
भगवन् कुरु सूक्ष्मम् ईक्षणं परतस्त्वां जनतः(ता) किमालये(पे)त् ॥१९॥

नरके निजकर्म्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदम् एकम् असह्यम् ईक्षका यदनाथं निगदन्ति मां विभो ॥२०॥

विष्णुलहरी – १

श्रीगणेशाय नमः

नि(वि)षीदतां(ता) नाथ विषानलोपमे
विषादभूमौ भवसागरे हरे ।
परं प्रतीकारम् अपास्यताधुना(अपश्यताधुना)
मयायमात्मा भवते निवेदितः ॥१॥

भवानलज्वालविलुप्तचेतनः
शरण्य तेङ्घ्री(ङ्घ्रि)शरणं भयाद् अयम् ।
विभाव्य भूयोपि दयासुधाम्बुधे
विधेहि भो नाथ तथा यथेच्छसि ॥२॥

विहाय संसारमहामरुस्थलीम्
अलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे
विगाढुम् ईश त्वयि गाढम् ईहते ॥३॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्-
मरन्दनिष्प(निःष्य)न्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलः
त्वदन्यम् ईशान तृणाय मन्यते ॥४॥

जगत्त्रयत्राणविधौ धुरन्धरं
तवाङ्घ्रिराजीवम् अपास्य ते जनाः ।
शरण्यम् अन्यत् मृगयन्ति यान्ति ये
नितान्तम् ईशान कृतान्तदेहलीम् ॥५॥

रमामुखाम्भोजविकासनक्षमो
जगत्र(त्त्र)योद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे
हरिष्यति त्वन्नयनारुणोदयः ॥६॥

मुनीन्द्रचित्तैकचकोरजीविका
समस्तसन्तापचयापनोदिनी ।
महानिशीथे मम मानसे कदा
स्फुरिष्यति त्वन्नखचन्द्रचन्द्रिका ॥७॥

सुयौवनापाण्डुरगण्डमण्डल-
प्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं
कदा मदक्ष्णोरतिथीभविष्यति ॥८॥

सुरापगातुङ्गतरङ्गचालितां
सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे
भवत्पदाम्भोरुहधूलिधोरणीम् ॥९॥

अजा(महा)जवाच्छि(श्च्छि)न्नविवेकरश्मयो
मदोत्ध(द्ध)ता देव मदक्षवाजिनः ।
अलं समासाद्य तवाङ्घ्रिमन्दुराम्
अपास्तवेगा दधतां सुशीलताम् ॥१०॥


harinAma-mAlA-stotram – हरिनाममालास्तोत्रम्

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।
गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥१॥

नारायणं निराकारं नरवीरं नरोत्तमम् ।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥२॥

पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥३॥

राघवं रामचन्द्रं च रावणारिं रमापतिम् ।
राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥४॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥५॥

दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥६॥

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥७॥

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥८॥

भूधरं भुवनानन्दं भूतेशं भूतनायकम् ।
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥९॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।
जामदग्न्यं परंज्योतिस्तं वन्दे जलशायिनम् ॥१०॥

चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम् ।
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥११॥

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम् ।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥१२॥

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥१३॥

सालग्रामशिलाशुद्धं शंखचक्रोपशोभितम् ।
सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम् ॥१४॥

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥१५॥

अनन्तमादिपुरुषम् अच्युतं च वरप्रदम् ।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥१६॥

लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥१७॥

हरिं च हरिणाक्षं च हरिनाथं हरप्रियम् ।
हलायुधसहायं च तं वन्दे हनुमत्प्रियम् ॥१८॥

हरिनामकृता माला पवित्रा पापनाशिनी ।
बलिराजेन्द्रेण च प्रोक्ता कण्ठे धार्या प्रयत्नतः ॥१९॥

॥ इति महाबलिप्रोक्तं हरिनाममालास्तोत्रम् ॥

NRISIMHA PRAPATTI STOTRAM

नृसिंहप्रपत्तिस्तोत्रम्

 

माता नृसिंहः पिता नृसिंहः

भ्राता नृसिंहः सखा नृसिंहः ।

विद्या नृसिंहो द्रविणं नृसिंहः

स्वामी नृसिंहः सकलं नृसिंहः ॥१॥

Nrisimha is father; Nrisimha is mother; Nrisimha is brother; Nrisimha is friend, Nrisimha is learning (knowledge); Nrisimha is wealth; Nrisimha is Master; Everything is Nrisimha.

 

इतो नृसिंहः परतो नृसिंहः

यतो यतो याहि(मि) ततो नृसिंहः ।

नृसिंहदेवात्परो न कश्चित्

तस्मान्नृसिंहं शरणं प्रपद्ये ॥२॥

(Other reading:

इतो नृसिंहः परतो नृसिंहः

यतो यतो यामि ततो नृसिंहः ।

बहिर्नृसिंहो हृदये नृसिंहो

नृसिंहमादिं शरणं प्रपद्ये ॥२॥

)

 

Nrisimha is here (this world); Nrisimha is there (the other world); Wherever you go there is Nrisimha. There is no God over and above Lord Narasimha. Therefore I surrender myself to (take refuge in) Narasimha

श्रीकृष्णलहरीस्तोत्रम्

कदा बृन्दारण्ये विपुलयमुनातीरपुलिने
चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।
अहो कृष्ण स्वामिन् मधुरमुरली मोहन विभो
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ १ ॥

कदा कालिन्दीये हरिचरणमुद्राङ्किततटे
स्मरन् गोपीनाथं कमलनयनं सस्मितमुखम् ।
अहो कृष्णानन्दाम्बुजवदन भक्तैकसुलभ
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २ ॥

कदाचित् खेलन्तं व्रजपरिसरे गोपतनयैः
कथञ्चित् संप्राप्तं किमपि भजतं कञ्जनयनम् ।
अये राधे किल हरसि रसिके कञ्चुकयुगं
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ३ ॥

कदाचित् गोपीनां हसितचकितं स्निग्धनयनं
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् ।
सुराधीशैः सर्वैः स्तुतपदममुं श्रीहरिमिति
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ४ ॥

कदाचित् कालिन्द्यां तटतरुकदंबे स्थितममुं
स्मयन्तं साकूतं हृतवसनगोपीस्तनतटम् ।
अहो शक्रानन्दाम्बुजवदन गोवर्द्धनधर
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ५ ॥

कदाचित् कान्तारे विजयसखमिष्टं नृपसुतं
वदन्तं पार्थेन्द्रं नृपसुत सखे बन्धुरिति च ।
भ्रमन्तं विश्रान्तं श्रितमुरसि रम्यं हरिमहो
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ६ ॥
***